Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणारत्नाविरचित्त-अवर्णोपेतः सूक्ष्मोद्धारसागरोपमम्, आभ्यां द्वीपाः समुद्राश्च मीयन्ते । तथा वर्षशते वर्षशतेऽतिक्रान्ते पूर्वपल्यादेकैकवालाग्राऽपहारेण संख्येयवर्षकोटीमानः कालो बादरमद्धापल्योपमम्, तद्दशकोटाकोटीभिर्बादरमद्धासागरोपमं तथैव वर्षशते वर्षशते एकैकवालाग्राऽसंख्येयतमखण्डापहारेणाऽसंख्येयवर्षकोटीमानः कालः । सूक्ष्ममद्धापल्योपमं तद्दशकोटाकोटीभिः सूक्ष्ममद्धासागरोपमम्, आभ्यां सुरनरनारकतिरश्चां कर्मस्थितिः कापस्थितिवस्थितिश्च मीयन्ते । तथा प्रागुक्तपल्याद्वालाग्रस्पृष्टनभप्रदेशानां प्रतिसमयमेकैकापहारेणाऽसंख्येयोत्सर्पिण्यवसर्पिणीमानः कालो बादरं क्षेत्रपल्योपमं तद्दशकोदाकोटीभिर्बादरं क्षेत्रसागरोपमम् । तथाऽसंख्यातखण्डीकृतबालाग्रैः स्पृष्टानामस्पृष्टानां च नभःप्रदेशानां प्रतिसमयमेकैकापहारेण बादरादसंख्येयगुणकालमानं सूक्ष्म क्षेत्रपल्योपमम् । तद्दशकोटाकोटीभिः सूक्ष्म क्षेत्रसागरोपमम् । आभ्यां दृष्टिवादे प्रयोजनं द्रव्यप्रमाणचिन्तायां प्रायः ॥८५॥
दव्वे खित्ते काले भावे चउह दुह बायरो सुहुमो । होइ अणंतुस्सप्पिणिपरिमाणो पुग्गलपरट्टो ॥८६॥
दव्वे० द्रव्य-क्षेत्र-काल-भाव-भेदाच्चतुर्धा पुद्गलपरावर्त्त, एकैको द्विधा-बादरः सूक्ष्मश्च । [सूक्ष्मो]ऽनंतोत्सर्पिणीप्रमाणो भवति ॥८६||
द्रव्यपुद्गलपरावर्त्तमाहउरलाइसत्तगेणं एगजिओ मुयइ फुसिय सवअणू। जत्तियकालि स थूलो दवे सुहुमो सगन्नयरा ॥८७॥
उर० औदारिकादिसप्तकेनाहारकस्य कादाचित्कतया तर्जनं 'ओरालबिउव्याहार' [आ० नि० गा० ३९] इत्यादिगाथोक्तौदारिकादियोग्यवर्गणासप्तकभावेन मतान्तरेणौदारिकाद्यङ्गचतुष्कभावेन वा लोकवतिसर्वपुद्गलस्पर्शनमोचनेन बादरः, सप्तानां चतुर्णा वा मध्यादेकेन केनचित् सर्वपुद्गल. र्पशनमोचने शेषैः स्पृष्टानामगणनेन सूक्ष्मः पुद्गलपरावर्त्तः ।।८७||
लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य । जहतहकममरणेणं पुट्ठा खित्ताइ थूलियरा ॥८८॥
।

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220