Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१००
गुणरत्नत्रिविरचित्त-अवच्र्युपेतः गण्यते न शेषाण्युत्क्रमभावीन्यनन्तान्यपि मरणानि । एवं क्रमेण सर्वाण्यप्यनुभागबन्धाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि स्युस्तावान् कालः सूक्ष्मभावपद्गलपरावतः । क्षेत्रतः सूक्ष्मपुद्गलपरावतः क्षेत्रतो मार्गणायां गृह्यते, शेषाः प्ररूपणामात्रम् ।।८८||
अप्पयरपयडिबंधी उकडजोगी य सन्नि पज्जत्तो। कुणइ पएसुक्कोसं जहन्नयं तस्स बच्चासे ॥८९॥
यदा बहीना प्रकृतीनां बन्धको भवति तदा भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यते। अल्पतरप्रकृतिबन्धे बध्यमाने प्रकृतीनामधिकभागलाभादुत्कृष्ट प्रदेशबन्धो लभ्यते, इत्यल्पतरप्रकृतिबन्धीत्युक्तं, 'जोगा पयडिपएसं' [गाथा-९६]ति वचनादुत्कृष्टयोग एवोत्कृष्टप्रदेशबन्ध इत्युत्कटयोगीत्युक्तम्। उत्कृष्टयोगश्च पर्याप्तसंज्ञिन एव, जघन्यप्रदेशबन्ध: पुनर्बहुतरप्रकृनिबन्धकस्यानुत्कटयोगिनोऽपर्याप्तसूक्ष्मैकेन्द्रियादेरिति विपर्यासः ।।८।।
उत्कृष्टप्रदेशबन्धस्वामिन आहमिच्छ अजयचउ आऊ वितिगुण विणु मोहि सत्त मिच्छाई । छण्हं सतरस सुहुमो अजया देसा बितिकसाए ॥९॥
मिच्छः मिथ्यादृशोऽविरतादयोऽप्रमत्तान्ताश्चत्वारश्वायुषामुत्कृष्टबन्धं कुर्वन्ति । सास्वादनमिश्रयोरल्पकालभावितयाऽनुत्कटयोगादिभावाच्च न तेषां तथाविधस्तद्वन्ध; | अपूर्वादयस्त्वायुर्वन्धका एव न स्युः । मिश्रसास्वादनवर्जा मिथ्यादृगादयोऽनिवृत्त्यन्ताः सप्त-सप्तविधबन्धका । उत्कटयोगिनश्च मोहस्योत्कृष्टप्रदेशबन्धका मिश्रसास्वादनयोः सप्तविधबन्धकत्वेऽपि तथाविधोत्कटयोगाभावाद् वर्जनम् । षण्णां मोहायुर्वर्जमूलप्रकृतीनां सातसहितानां 'चउदसणु [क० स्त० गा०१२] इत्यादिसप्तदशप्रकृतीनां चोत्कृष्ट योगी सूक्ष्मः, सूक्ष्मसम्परायो हि मोहायुषी न बध्नाति, अतस्तद्भागोऽधिको लभ्यते इत्यस्यैव ग्रहणम् । उत्कृष्टयोगिनः सप्तविधबन्धका अविरता देशाविरताश्च, द्वितीयतृतीयकषायाणां प्राग् व्यवच्छिन्न. मिथ्यात्वानन्तानुबन्ध्याद्यधिकभागलाभात् ।।१०।। १. बन्धे वाध्य. . है।

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220