Book Title: Karmagranthashatkavchurni
Author(s): Gunratnasuri, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शतकनामा पञ्चमः कर्मग्रन्थः
कत्वात्, अतिविशुद्धानां पुनरिदमुल्लङ्ध्य पञ्चेन्द्रियजातिवसनाम्नोर्बन्धकत्वादिति मध्यमग्रहणम् । 'आसुहमायव'त्ति आसौधर्मेशानदेवानामतिसंक्लिष्टानामातपस्य जघन्यरसबन्धः । सम्यग्दृष्टिमिथ्यात्वी वा सानादिसेतराष्टप्रकृतीनां जयन्यरसबन्धकः, अत्र च संक्लिष्टस्तु सातादीनां, विशुद्धस्त्वसातादीनामिनि ।।७२||
तसवन्नतेयचउमणुखगइद्गपणिंदिसासपरघुच्चं । संघयणागिइनपुत्थीसुभगियरति मिच्छ चउगइगा ॥७३॥
तस० 'तसबायरपज्जन पत्तेज' ४ [क वि०मा०-२६] शुभवर्णादि ४, 'तेअकम्मागुरुलहनिमिणं' ४ [गाथा-२], नरद्विकशुभाशुभविहायोगति २, संहनन ६, आकृति ६, सुभगत्रिक-दुर्भगत्रिक ३ सा(आ)दि ४० प्रकृतीनां मिथ्यादृष्टपश्चतुर्गतिका अपि परावर्त्तमानमध्यमपरिणामा मन्दरसबन्धका इति सामान्योक्तावष्ययं विशेषः-→मनुष्यद्विक-संस्थानषट्क-संहननषट्क-खगतिद्विक-सुभग-दुर्भगदुःस्वर-सुस्वरादेयानादेयोच्चैर्गोवलक्षणास्त्रयोविंशतिप्रकृती: परावृत्त्य परावृत्त्य बध्नन्तश्चतुर्गतिका अपि मिथ्यादृष्टयो मध्यमपरिणामा जघन्यरसा; कुर्वन्ति, सम्यग्दृष्टीनां ह्येतासां परावृत्ति स्ति, तथाहि→तिर्यग्म नुष्यास्तावत्सम्यग्दृष्टयो देवद्विकमेव बध्नन्ति, न मनुष्यादिद्विकानि, संस्थानेषु तु समचतुरस्रमेव, संहननं तु किश्चिदपि न बध्नन्ति, शुभविहायोगत्यादीनेव बघ्नन्ति, न प्रतिपक्षान्, देवनारका अपि सम्यग्दृष्टयो नरद्रिकमेव, संस्थानेषु तु समचतुरस्रमेव, संहननेषु वज्रर्षभनाराचमेव, विहायोगत्यादिकाः सुभा एव, न प्रतिपक्षभूता बध्नन्ति । तथा पञ्चेन्द्रियजातितैजसकार्मणप्रशस्तवर्णादिचतुष्कागुरुलघुपराधातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकनिर्माणरूपपञ्चदशप्रकृतीनां चतुर्गत्तिका अपि जीवा मिथ्याश: सर्वोत्कृष्टसंक्लेशा जघन्यानुभागं कुर्वन्ति । तत्र तिर्यमनुष्या: सर्वोत्कृष्टसंक्लेशे वर्तमाना नरकगतिसहचरिता एता बध्नन्तो जघन्यरसा: कुर्वन्ति । नारका देवाश्वेशानादुपरिवर्तिनः सनत्कुमारादयः सर्वसंक्लिष्टाः पश्चेन्द्रियतिर्पक्प्रायोग्या एता बघ्नन्तो मन्दरसा: कुर्वन्ति, ईशानान्तास्तु देवा: सर्वसंक्लिष्टाः पञ्चेन्द्रियजातित्रसा: शेषास्त्रयोदशप्रकृतीरेकेन्द्रियप्रायोग्यां बध्नन्तो जघन्यरसाः कुर्वन्ति, पञ्चेन्द्रियजातिवसनाम्नी तु विशुद्धा अमी बध्नन्ति इति जघन्यरसो न लभ्यते इति तद्वर्जनम् । तथा स्त्रीनपुंसकवेदलक्षणे द्वे प्रकृती चतुर्गतिका अपि मिथ्यादृष्टयो जीवा अशुभत्वादनयोस्तत्प्रायोग्यविशुद्धया जघन्यरसे बध्नन्ति । अतिविशुद्धः पुरुषवेदबन्धक: स्यात् ॥७३॥ १.न्ति तत्र तिर्यम्मनुष्या: सर्वोत्कृष्टसंक्लेशे तत्र-हे० ।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220