Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१३३८
• पद-पदार्थ-प्रतीतीनामकाकारताविचारः •
द्वात्रिंशिका - २०/११
सङ्कीर्णा सा च शब्दाऽर्थज्ञानैरपि विकल्पतः । सवितर्का परैर्भेदैर्भवतीत्थं चतुर्विधा । । ११ । । सङ्कीर्णेति । सा च = समापत्तिः शब्दार्थज्ञानैः विकल्पतः अपि सङ्कीर्णा सवितर्का । यदाह“(तत्र) शब्दार्थज्ञानविकल्पैः सङ्कीर्णा = सवितर्का (यो.सू.१-४२) " । तत्र श्रोत्रेन्द्रियग्राह्यः स्फोटरूपो वा शब्दः, अर्थो 'जात्यादिः, ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः, विकल्पः = २ शब्दज्ञानाऽनुपाती वस्तुशून्योऽर्थः एतैः सङ्कीर्णा यत्रैते शब्दादयः परस्पराऽध्यासेन प्रतिभासन्ते - "गौरिति शब्दो 'गौरि
"
समापत्तिचतुर्विधत्वमाह- 'सङ्कीर्णे 'ति । इयं समापत्तिः द्विविधा स्थूला सूक्ष्मा च । स्थूलसमापत्तेः सवितर्क -निर्वितर्काख्यौ विशेषौ सूक्ष्मसमापत्तेश्च सविचार - निर्विचाराऽऽख्यौ । योगसूत्राऽनुसारेण क्रमेण ताः दर्शयति- 'सा चे 'ति । चतसृषु समापत्तिषु मध्ये प्रथमां दर्शयितुं योगसूत्रसंवादमाह - 'तत्रे 'ति । राजमार्तण्डानुसारेणैतत्सूत्रं व्याख्यानयति- श्रोत्रेन्द्रियग्राह्य इति । इदं लौकिकमतेनोक्तम् । स्फोटरूपो वेति पातञ्जलमतानुसारेण इति वक्ष्यतेऽग्रे ( द्वाद्वा. २६ / ५ भाग - ६ पृ. १५८५) । अर्थः जात्यादिः दर्शनमतभेदेन जातिलक्षणो व्यक्तिरूपः संसर्गात्मक उभयस्वरूपः जातिविशिष्टव्यक्तिलक्षणः त्रितयाद्यात्मको वा। पातञ्जलमताऽनुसारेणाऽऽह ज्ञानं = सत्त्वप्रधाना उपसर्जनीभूतरजस्तमोगुणा बुद्धिवृत्तिः = पुरुषचैतन्यप्रतिबिम्बितान्तःकरणाऽवच्छिन्नवृत्तिः घट-पटाद्याकारा । विकल्पस्तु पूर्वं ( द्वा. द्वा. ११ / ४ पृ. ७४८ ) व्याख्यातोऽपि मन्दबुद्धि - विनेयाऽऽनुगुण्येन पुनर्निरूपयति- 'शब्दज्ञानानुपाती 'त्यादिः ।
यत्र समापत्तौ शब्दादयः = शब्दार्थ-ज्ञान-विकल्पाः परस्पराऽध्यासेन = मिथःसाङ्कर्येण प्रतिभासन्ते सा सवितर्का समापत्तिरिति भावः । → 'गौरिति शब्दो गौरित्यर्थी गौरिति ज्ञानमित्यादिरूपैः शब्दार्थज्ञानानां ये विकल्पाः अभेदभ्रमाः तद्युक्ता गवादिस्थूलसमापत्तिः विपरीततर्कयोगात् सवितर्कसंज्ञेत्यर्थः । अत एव तत्कालीनयोग एव सविकल्प इत्यप्युच्यते, विकल्प- सङ्कल्पसङ्कीर्णत्वात् ← (यो. सू. १/४२ भा.ग.पृ.४९) इति तु भावागणेशः । वस्तुत उदात्तत्वादिधर्मैः शब्दस्य जडत्व-मूर्तत्वादिभिरर्थस्य प्रकाश-मूर्तिविरहादिभिर्ज्ञानस्य परस्परस्माद् भेद एव | शब्दाद्यभेदविकल्प आरोपसामान्योप* સવિતર્ક સમાપત્તિના ચાર પ્રકાર
ગાથાર્થ :- તે સમાપત્તિ શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પથી પણ સંકીર્ણ હોય તો સવિતર્ક સમાપત્તિ કહેવાય છે. આ રીતે અવાન્તર ભેદથી આ સમાપત્તિ ચાર પ્રકારની બને છે. (૨૦/૧૧)
टीडार्थ :- :- શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પથી પણ સંકીર્ણ થયેલી તે સમાપત્તિ સવિતર્ક કહેવાય છે. કારણ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘શબ્દ, અર્થ, જ્ઞાન અને વિકલ્પથી સંકીર્ણ થયેલી સવિતર્ક સમાપત્તિ જાણવી.' તેમાં શબ્દ એટલે શ્રોત્રેન્દ્રિય દ્વારા ગ્રહણ કરી શકાય તે પદાર્થ અથવા સ્ફોટ. અર્થ = જાતિ વગેરે. જ્ઞાન = સત્ત્વપ્રધાન બુદ્ધિવૃત્તિ. વિકલ્પ = શબ્દજ્ઞાનને અનુસરવા છતાં વસ્તુશૂન્ય એવો અર્થ. આ ચારેય પદાર્થથી સંકીર્ણ સમાપત્તિ પ્રસ્તુતમાં સવિતર્ક સમાપત્તિ કહેવાય છે કે જ્યાં પ્રસ્તુત શબ્દ, અર્થ વગેરે એકબીજાના અધ્યાસથી મિશ્રણથી ભાસે છે. જેમ કે ‘ગાય’ શબ્દ સંભળાય છે. ગાય પદાર્થ સામે હાજર છે. તથા ગાયનું જ્ઞાન થાય છે. આ સ્થળમાં શબ્દ, અર્થ અને જ્ઞાન એકાકાર
ગાયઆકારયુક્ત સ્વરૂપે १. मुद्रितप्रतौ 'जात्यादिज्ञानं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र शाब्द' इति पाठः । परं योगसूत्रानुसारेण
'शब्द' इत्येव पाटः सम्यक् । ३. मुद्रितप्रतौ 'गोरि' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
-
=
=
=
=
=
www.jainelibrary.org