Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१५४६
• भोगवासनायाः पर्यन्तदारुणता • द्वात्रिंशिका-२२/३१ ज्ञानबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सद्ध्यानकृरन्तः प्रवर्तन्तेऽल्पमेधसः ।। बडिशाऽऽमिषवच्छेदो दारुणे भोगशर्मणि । सक्तास्त्यजन्ति सद्ध्यानं धिगहो ! मोहतामसम् ।। आत्मतत्त्वमजानाना विपर्यासपरायणाः । हिताऽहितविवेकाऽन्धाः खिद्यन्ते साम्प्रतेक्षणाः ।। आधि-व्याधि-जरा-जाति-मृत्यु-शोकाधुपद्रवम् । पश्यन्तोऽपि भवं भीमं नोद्विजन्तेऽत्र मोहिनः ।।
6 (यो.सा. प्रा.७/४५-४८) इत्युक्तं अमितगतिना । तदुक्तं अमितगतिनैव सुभाषितरत्नसन्दोहे अपि → गलत्यायुर्देहे व्रजति विलयं रूपमखिलं, जरा प्रत्यासन्नीभवति लभते व्याधिरुदयम् । कुटुम्बः स्नेहाऽऽतः प्रतिहतमतिर्लोभकलितो मनो जन्मोच्छित्त्यै तदपि कुरुते नाऽयमसुमान् ।। 6 (सु.रत्न.सं. ३३३) इति । प्रकृते → वैषयिकपदार्थेषु सुखं दुःखं न वस्तुतः । तत्र मिथ्यात्वबोधेन मोही भवति मानवः ।। ( (अध्या.गी.२४) इति पूर्वोक्तं(पृ.१२२८) अध्यात्मगीतावचनमपि स्मर्तव्यम् । न च पारलौकिकार्थबोधक श्रुतोपलम्भेऽपि तेषां यथावदवबोधः, बोधभावाऽऽच्छादनात् । तदुक्तं ललितविस्तरायां → महामिथ्यादृष्टेः (श्रुतस्य) प्राप्तिरप्यप्राप्तिः, तत्फलाभावात्, अभव्यचिन्तामणिप्राप्तिवत् (ल.वि.प्रान्तेपृ.१०५) इति । → न वि तं करेइ अग्गी नेय विसं नेय किण्हसप्पो वि । जं कुणइ महादोसं तिव्वं जीवस्स मिच्छत्तं ।। (आ.प.४५०,सं.प्र.३/५४,भ.प.प्र.६१) इति पूर्वोक्तं(पृ.१५२९) आराधनापताकाप्रकीर्णक-सम्बोधप्रकरण-भक्तपरिज्ञाप्रकीर्णकवचनमप्युत्कटाऽवेद्यसंवेद्यपदमपेक्ष्य विज्ञेयम् । एतेन → मिथ्यात्वं परमं बीजं संसारस्य दुरात्मनः । तस्मात्तदेव मोक्तव्यं मोक्षसौख्यं जिघृक्षुणा ।। - (सा.समु. ५३) इति सारसमुच्चयवचनमपि पूर्वोक्तं(पृ.१०७४) व्याख्यातम् । ___वेदान्तदर्शनस्थोऽपुनर्बन्धकादिः → जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ।। - (या.व.१२, महो.३।४६) इति याज्ञवल्क्योपनिषद्-महोपनिषदादिवचनमीमांसया, बौद्धदर्शनगतस्तु परमशान्तिकाङक्षी अपुनर्बन्धकः → अच्चेन्ति काला तरयन्ति रत्तियो, वयोगुणा अनुपुब्बं जहन्ति । एतं भयं मरणे पेक्खमानो लोकामिसं पजहे सन्तिपेक्खोति ।। - (सं.नि.१।१।४-पृ.३) इति संयुत्तनिकायप्रभृतिवचनविभावनेन भोगाऽऽमिषं परित्यजतीत्यादिकं यथागममूहनीयं स्वपरतन्त्रसमवतारणतो बहुश्रुतैः ।
प्रकृते → कामा असुन्दरा पयईए, विडम्बणा जणाणं, विसोवमा परिभोए, वच्छला कुचेट्ठियस्स । एएहिं अहिहूया पाणिणो महामोहदोसेण न पेच्छन्ति परमत्थं, न मुणन्ति हियाहियाइं, न वियारन्ति कज्जं, न चिन्तन्ति आयई। जेण कामिणो सयाऽसुइएसु असुहनिबन्धणेसु कलमलभरिएसु महिलायणङ्गेसु चन्दकुन्देन्दीवरेहितो वि अहिययररम्मबुद्धीए अहिलासाइरेगेण असुइए विय गड्डसूयरा धणियं पयट्टन्ति; अओ न पेच्छन्ति परमत्थं । जओ य दुल्लहे मणुयजम्मे लद्धे कम्मपरिणईए साहए सुद्धधम्मस्स चञ्चले पयईए संसारवद्धणेसु निव्वाणवेरिसु बालबहुमएसु बुहयणगरहिएसु सज्जन्ति कामेसु; अओ न मुणन्ति
વિશેષાર્થ:- જેમ માછલાને પકડવા માટે માછીમારે કાંટાના આગળના ભાગમાં મૂકેલો માંસનો નાનો ટુકડો ખાવા માટે માછલું આવે ત્યારે તે માંસનો નાનો ટુકડો માછલાને ક્ષણભંગુર મધુર વાદનું સુખ આપીને તેને મારી નાંખે છે. માંસ ખાવા જતાં કાંટો માછલાના તાળવામાં ભોંકાઈ જાય છે અને માછલી મરણને શરણ થાય છે તેમ સંસારના રસિયા જીવો ભોગપ્રવૃત્તિથી મળનારું ક્ષણભંગુર વૈષયિક સુખ માણીને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334