Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• बडिशामिषासक्तेः दारुणविपाकः •
१५४५ एते इति । एते = भवाभिनन्दिनो असच्चेष्टया महारम्भादिप्रवृत्तिलक्षणया निजं आत्मानं मलिनं कुर्वते, कर्मरजःसम्बन्धात् । बडिशाऽऽमिषवत् = मत्स्यगलमांसवत् तुच्छे = अल्पे रौद्रविपाके प्रसक्ता भोगजे = भोगप्रभवे' सुखे ।।३१।।
___ यतश्चैवमतो ग्रन्थकृदाह- ‘एते' इति । भवाभिनन्दिनो जडा जीवाः सदा महारम्भादिप्रवृत्तिलक्षणया हेतुभूतया असच्चेष्टया आत्मानं अत्यन्तं मलिनं कुर्वते, कर्मरजःसम्बन्धात् = ज्ञानावरणादिकर्मधूल्याऽऽसत्तितः । तदुक्तं योगदृष्टिसमुच्चये →
आत्मानं पाशयन्त्येते सदाऽसच्चेष्टया भृशम् । पापधूल्या जडाः कार्यमविचार्यैव तत्त्वतः ।। धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ।।
- (यो.दृ.स.८२/८३) इति । तदुक्तं सारसमुच्चये कुलभद्रसूरिणा अपि → कषायकलुषो जीवो रागरजितमानसः । चतुर्गतिभवाऽम्भोधौ भिन्ननौरिव सीदति ।। कषायवशगो जीवः कर्म बध्नाति दारुणम् । तेनाऽसौ क्लेशमाप्नोति भवकोटिषु दारुणम् ।।
6 (सा.समु. ३१/३२) इति । तर्हि ते किंविधा भवन्ति ? इत्यत आह मत्स्यगलमांसवत् इति निदर्शनं, अल्पे = स्वल्पकालीनाऽनात्यन्तिकाऽनैकान्तिकतृप्तिप्रतिभासतयाऽतिस्वल्पे तथापि निबिडरागादिपरिणामाऽविनाभावितया रौद्रविपाके भोगप्रभवे = विषयेन्द्रियाऽन्तःकरणाऽऽत्मसम्बन्धविशेषोपहिते सुखे प्रसक्ताः = गृद्धाः ते कुज्ञानतोऽज्ञानतो वा धर्मध्यानादिकं परित्यजन्ति । ___तदुक्तं योगदृष्टिसमुच्चये → बडिशाऽऽमिषवत् तुच्छे कुसुखे दारुणोदये। सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ।। - (यो.दृ.स.८४) इति । भोगानां किंपाकफलत्वं तु → जह किंपागफलाणं परिणामो ण सुंदरो। एवं भुत्ताण भोगाणं परिणामो न सुन्दरो ।। (उत्त. १९/१७) इति उत्तराध्ययनसूत्रतः प्रसिद्धमेव । → कूराई कम्माई बाले पकुव्वमाणे तेण दुक्खेणं संमूढं विप्परियासमुवेइ (आचा.१२ ।४-१।५।६) इति आचाराङ्गवचनमप्यत्र साक्षित्वेन वर्तते । → कुररी विवा भोगरसाणुगिद्धा निरट्ठसोया परितावमेइ + (उत्त. २०/५०) इति उत्तराध्ययनोक्तिरप्येतदर्थाऽनुपातिन्येव । तदुक्तं ज्ञाताधर्मकथाङ्गे अपि → भोगे अवयक्खंता पडंति संसारसागरे घोरे - (ज्ञा.ध.१।९.३१) इति । 'अवयक्खंता = अवकाङ्क्षन्तः' इति । प्रकृते → पावं परस्स कुव्वंतो हसती मोहमोहितो । मच्छो गलं गसंतो वा विणिघातं ण पस्सती ।। - (ऋ.भा.१५ ।१५) इति ऋषिभाषितवचनमपि स्मर्तव्यम् । ततश्च तन्नाश एव, यथोक्तं → पापेनैवाऽर्थरागान्धः फलमाप्नोति यत्क्वचित् । बडिशाऽऽमिषवत् तत् तमविनाश्य न जीर्यति ।। - ( ) इति। योगसारप्राभृतेऽपि → પકડવાના કાંટામાં રહેલ માંસની જેમ તુચ્છ અને દારુણ વિપાકવાળા ભોગજન્ય સુખમાં ભવાભિનંદી वो भासत होय छे. (२२/३१)
ટીકાર્થ :- ભવાભિનંદી જીવો મહા આરંભ, મહા પરિગ્રહ વગેરે સ્વરૂપ ખરાબ પ્રવૃત્તિથી નવીનવી કર્મરજનો સંબંધ કરવાથી પોતાના આત્માને મલિન કરે છે. કારણ કે માછલાને પકડવા કાંટામાં રહેલ માંસની જેમ અતિઅલ્પ છતાં ભયંકર ફળ આપનારા ભોગજન્ય સુખમાં આસક્ત હોય છે. (૨૨/૩૧) १. हस्तादर्श ‘भोगभवे' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334