Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 212
________________ • नयभेदतो योगबीजप्राधान्याऽऽविष्करणम् • १४३९ तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वाऽनुपपत्तेः । एतत्सर्वं सामस्त्यप्रत्येक - भावाभ्यां योगबीजं = मोक्षयोजकाऽनुष्ठानकारणं अनुत्तमं = सर्वप्रधानं विषयप्राधान्यात् ।।८।। मिति एतद् योगबीजविशेषणं अशुद्धव्यवच्छेदार्थं = अशुद्धयोगबीजाऽपोहकृतेऽवसेयम् । अत्र हेतुमाह तस्य = अशुद्धयोगबीजस्थानीयस्य जिनप्रणामादेः सामान्येन = व्यवहारत ओघतो वा यथाप्रवृत्तकरणभेदत्वात् = अनादिकालप्रवृत्तयथाप्रवृत्तकरणप्रकारत्वात् । तस्य च चरमविशेषणविनिर्मुक्तयथाप्रवृत्तकरणप्रकाराऽभिषिक्तस्याऽशुद्धस्य जिनगोचरप्रणामादेः योगबीजत्वाऽनुपपत्तेः = विवक्षिताऽमोघयोगबीजत्वाऽसङ्गतेः । अयमाशयः- अचरमयथाप्रवृत्तकरणकालेऽपि ग्रन्थिदेशाऽऽसन्नतया जिनेषु कुशलं चित्तं वाग्नमस्कारः कायिकप्रणामादिकञ्च सम्भवन्ति किन्तु तेषामशुद्धत्वमेवाऽवसेयम्, तथाविधसहजमलहासविरहकालीनत्वात् । अनुपदमेव (द्वा.द्वा.२१/९ पृ. १४४०) वक्ष्यमाणरीत्या चरमावर्तकाले तथाभव्यत्वपरिपाकादिना चरमयथाप्रवृत्तकरणप्राप्तौ विशिष्टतरसहजमलोच्छेदादिसहचरितमेवाऽस्य जिनगोचरकुशलचित्तादिकं संशुद्धं विज्ञेयम् । प्रकृतयोगबीजोपादानं अध्यात्मतत्त्वालोके देवाधिदेवे कुशलं च चित्तं प्रवन्दनं संस्मरणञ्च तस्य । योगस्य बीजं सुमना इदं सद् गृह्णाति दृष्टाविह वर्तमानः ।। ( अ.त.३/८१ ) इत्थमावेदितम् । ननु निरुक्तकुशलचित्त- नमस्कारादिकं किं मिथो मिलितं सद् योगबीजं यदुत प्रत्येकमेव स्वातन्त्र्येण ? इत्याशङ्कायामाह - एतत् सर्वं दर्शितजिनगोचरकुशलचित्त-नमस्कारादिकं सामस्त्य-प्रत्येकभावाभ्यां = संमिलितत्वाऽसंमिलितत्वाभ्यां मोक्षयोजकाऽनुष्ठानकारणम् । एतेषां प्रत्येकमपि मोक्षयोजकाऽनुष्ठानाऽऽक्षेपसामर्थ्यम् । परं मिथो मिलितत्वे तु तादृशसामर्थ्यं विशिष्टतरमवसेयम्, अविलम्बेन तत्सामग्रीसम्पादकत्वात् । प्रकृतं योगबीजं सर्वप्रधानं सर्वेषु योगबीजेषु मुख्यभावमाबिभर्ति, विषयप्राधान्यात् जिनलक्षणविषयप्राधान्यात् । वक्ष्यमाणानां योगबीजानां विषयीभूतेभ्य आचार्यादिभ्यः प्रकृतयोगबीजविषयस्याऽर्हतः पुण्य-गुण- शक्ति - शुद्ध्याद्यपेक्षया प्रधानत्वादस्य सर्वप्रधानत्वमिति भावः । इदं च व्यवहारनयमतम् । निश्चयनयतस्तु यत्र स्वकीयो विशुद्धो भावोऽधिकः तत्रैव फलमधिकम् । तथापि विशुद्धभावोत्कर्षाऽऽधायकतया च बाह्यविशेषोऽप्याद्रियत एव । तदुक्तं व्यवहारसूत्रभाष्ये गुणभूइट्टे दव्वम्मि जेण मत्ताSहियत्तणं भावे । इय वत्थूओ इच्छति ववहारो निज्जरं विउलं ।। ← (व्य.भा.६ / ભગવંત વિશે અશુદ્ધ કુશલચિત્ત, મલિન નમસ્કાર વગેરે યોગબીજ તરીકે પ્રસ્તુતમાં માન્ય નથી. કારણ કે અશુદ્ધ જિનનમસ્કાર વગેરે સામાન્યથી યથાપ્રવૃત્તિકરણનો જ પ્રકાર છે. (મતલબ કે પૂર્વે અચરમાવર્ત કાળમાં યથાપ્રવૃત્તકરણથી ગ્રંથિદેશ પાસે આવીને જેવા અશુદ્ધ કુશળચિત્ત, જિનનમસ્કાર વગેરે કર્યા હતા તેવા જ આ અશુદ્ધ નમસ્કાર છે. એટલે કે અશુદ્ધ જિનપ્રણામાદિ અચ૨માવર્ત કાળમાં કરેલ ભાવહીન પ્રણામાદિનો જ એક પ્રકાર છે. અચરમાવર્ત કાળમાં કરેલા જિનનમસ્કારાદિ જેમ યોગબીજ ન બન્યા તેમ) પ્રસ્તુત અશુદ્ધ જિનનમસ્કારાદિ યોગબીજ બની શકતા નથી. અહીં જણાવેલા કુશલ ચિત્ત વગેરે બધા ભેગા થઈને યોગબીજ બને છે. અથવા પ્રત્યેક પણ યોગબીજ છે. મોક્ષની સાથે જીવનો યોગસંયોગ કરી આપે તે આરાધના યોગ કહેવાય. તેમ જ તેનું જે કારણ હોય તે યોગબીજ કહેવાય છે. પ્રસ્તુત સંશુદ્ધ જિનવિષયક કુશલચિત્ત, પ્રણામ વગેરે યોગબીજો સર્વશ્રેષ્ઠ એટલા માટે કહેવાય છે કે તેનો વિષય જિનેશ્વર ભગવંત છે. જિનેશ્વર સર્વશ્રેષ્ઠ હોવાથી તેને આશ્રયીને થતા કુશલ ચિત્ત, Jain Education International For Private & Personal Use Only www.jainelibrary.org = =

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334