Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 269
________________ • आसनस्थैर्याद्यावश्यकता • द्वात्रिंशिका -२२/१० सुखमिति । सुखं अनुद्वेजनीयं स्थिरं च = निष्कम्पं यदासनं तेन उपेतं सहितं (=सुखस्थिरासनोपेतं), उक्तविशेषणविशिष्टस्यैवाऽऽसनस्य योगाऽङ्गत्वात् । यत्पतञ्जलिः- “ स्थिरसुखमासनमिति" (यो.सू.२-४६) बलायां दृष्टौ दर्शनं दृढं काष्ठाऽग्निकणोद्योतसममिति कृत्वा परा = प्रकृष्टा च तत्त्वशुश्रूषा = तत्त्वश्रवणेच्छा जिज्ञासासम्भवा । १४९४ = Jain Education International साम्प्रतमवसरसङ्गत्यायातां बलामाह - 'सुखेति । अष्टसु योगाङ्गेषु मध्ये यल्लभ्यतेऽत्र तदाह'सुखमिति । प्रकृते योगसूत्रसंवादमाह - 'स्थिरे 'ति । अत्र राजमार्तण्डव्याख्या एवम् → आस्यतेऽनेनेति आसनम् । पद्मासन-दण्डासन - स्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखं = अनुद्वेजनीयं च भवति तदा योगाङ्गतां भजते ← ( रा.मा. २ / ४६ ) इति । ' येन संस्थानेनाऽवस्थितस्य स्थैर्यं सुखञ्च सिध्यति तदासनं स्थिरसुखम् । तदेतत्तत्र भगवतः सूत्रकारस्य सम्मतमि ति ( त.वै. २ / ४६ ) तत्त्ववैशारद्यां वाचस्पतिमिश्रः। येन प्रकारेण सुखं धैर्यं च जायते । तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् ।। ← (त्रि.ब्रा.५१, जा.द.३/१२ ) इति तु त्रिशिखिब्राह्मणोपनिषत्-जाबालदर्शनोपनिषदुक्तिः, → सुखासनवृत्तिश्चिरवासाश्चैवमासननियमो भवति ← (म.तं. बा. १/३) इति मण्डलतन्त्रब्राह्मणोपनिषदुक्तिश्चानुयोज्या । प्रकृते सुखेनैव भवेद् यस्मिन् अजस्रं ब्रह्मचिन्तनम् । आसनं तद्विजानीयादन्यत्सुखविनाशनम् ।। ← (ते. बिं. १ । २५) इति तेजोबिन्दूपनिषदुक्तस्वरूपमासनमाऽऽ सेवते वेदान्तदर्शनस्थः बलायामवस्थितो योगी । प्रकृतमेवोपजीव्य शङ्कराचार्येण अपरोक्षानुभूतो सुखेनैव भवेद् यस्मिन् अजस्रं ब्रह्मचिन्तनम्। आसनं तद् विजानीयाद् नेतरत्सुखनाशनम् ।। ← ( अपरो. ११२ ) इत्युक्तमित्यवधेयम् । इदमासनं जपादौ विशेषत उपयोगि । प्रकृते सर्ववस्तुन्युदासीनभावमासनमुत्तमम् ← ( त्रि.ब्रा. २९) इति त्रिशिखिब्राह्मणोपनिषदुक्तम् → निश्चलज्ञानं = आसनम् ← (आ.पू. २) इति आत्मपूजोपनिषदुपदर्शितञ्चाऽऽसनलक्षणमपीहानुसन्धेयं यथातन्त्रम् । 'जिज्ञासासम्भवा' = तत्त्वगोचरजिज्ञासोत्पन्ना । इदञ्च विशेषणं तत्त्वशुश्रूषाप्रकृष्टत्वे हेतुः । ‘जिज्ञासासम्भवादि’ति तु पाठो लिङ्गभेदेनाऽशुद्धत्वान्नोपादेयः । पञ्चम्यन्तपाठाङ्गीकारे तु 'जिज्ञासासम्भवाया' इत्येव पाठः समीचीनः । वस्तुतः काष्ठाग्निकणोद्योतसमबोधसहचरित-तत्त्वविविदिषाऽपराभिधानतत्त्वजिज्ञासाजन्यत्वात् शुश्रूषाऽऽवरणकर्मक्षयोपशमजन्यत्वाच्च तत्त्वशुश्रूषा बलायां परमा भवति, न त्वગાથાર્થ :- બલા ષ્ટિમાં દર્શન બોધ દૃઢ હોય છે. સુખાકારી સ્થિર આસનથી યુક્ત તે દર્શન હોય છે. તત્ત્વશ્રવણની ઈચ્છા પ્રકૃષ્ટ હોય છે. તથા યોગસાધનાને વિશે ક્ષેપ દોષ નથી હોતો.(૨૨/૧૦) ટીકાર્થ :- ઉદ્વેગ ન જન્માવે તેવું સુખકારી અને સ્થિર-નિષ્કપ આસનથી યુક્ત એવો બોધ બલાષ્ટિમાં હોય છે. અહીં આસનના બે વિશેષણ છે - સુખાકારી અને સ્થિર. આ બે વિશેષણથી વિશિષ્ટ એવું આસન હોય તો જ તે યોગનું અંગ = સાધન બની શકે. કારણ કે પતંજલિ મહર્ષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘આસન સ્થિર અને સુખાકારી હોય છે.’ બલાષ્ટિમાં તત્ત્વદર્શન પૂર્વની બે દૃષ્ટિ કરતાં દૃઢ હોય છે. કારણ કે તત્ત્વબોધ લાકડાના અગ્નિકણના ઉદ્યોત સમાન હોય છે. તથા તત્ત્વજિજ્ઞાસાથી १ . मुद्रितप्रत-हस्तादर्शेषु '.... भवात्' इति पाठः । परं सन्दर्भानुसारेणात्र '...भवा' इति पाठः यद्वा '... भवायाः' इति पाठ: शुद्ध आभाति । For Private & Personal Use Only = = = www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334