Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 289
________________ • प्राणायामावश्यकताविचारः • द्वात्रिंशिका - २२/१८ यः श्वास-प्रश्वासगतिप्ररोधः, स योगिभिः प्राणायामो बभाषे । स रेचकः पूरक - कुम्भकौ च श्वासो बहिर्वृत्तिरिहाऽऽदिमः स्यात् । प्रपूरणं तस्य च पूरकः स्यात् स्थिरीकृतिस्तस्य च कुम्भकः स्यात् । एकस्वभावा न हि योगकाराः केचित् ततो यान्ति पथेदृशेन ॥ ← (अ.तत्त्वा.३/१००-१०१ ) इत्युक्तम् । प्राणायामरुचिशालिनां योगिनामनुग्रहार्थमेव रत्नशेखरसूरिभिः गुणस्थानकक्रमारोहे १५१४ अपानद्वारमार्गेण निस्सरन्तं यथेच्छया । निरुन्ध्योर्ध्वप्रचाराऽऽप्तिं प्रापयत्यनिलं मुनिः ।। द्वादशाङ्गुलपर्यन्तं समाकृष्य समीरणम् । पूरयत्यतियत्नेन पूरकध्यानयोगतः ।। निस्सार्यते ततो यत्नान्नाभिपद्मोदराच्छनैः । योगिना योगसामर्थ्याद् रेचकाख्यः प्रभञ्जनः || कुम्भवत् कुम्भकं योगी श्वसनं नाभिपङ्कजे । कुम्भकध्यानयोगेन सुस्थिरं कुरुते क्षणम् ।। इत्येवं गन्धवाहानामाकुञ्चन - विनिर्गमौ । संसाध्य निश्चलं धत्ते चित्तमेकाग्रचिन्तने ।। प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् ।। ← ( गुणस्था. ५४-५९) इत्येवं सप्रयोजनं प्राणायामवर्णनमकारि । यद्यपि न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् तथापि कायाऽऽरोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्श्यते' (यो.शा.५/१ वृत्ति) इत्यादिना योगशास्त्रपञ्चमप्रकाशवृत्त्यादौ श्रीहेमचन्द्रसूरिभिरपि स्पष्टमेव प्राणायामस्य मुक्तिसाधकध्यानं प्रत्यनैकान्तिकताऽनात्यन्तिकते दर्शिते तथापि प्राणवृत्तिनिरोधमृते न येषामन्तःकरणादिजयः तान् प्रति तु तस्योपयोगिता योगशास्त्रे प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ।। ← (यो.शा. ५/१) इत्येवमावेदितैव । अन्नपूर्णोपनिषदि तु वासनासम्परित्यागात् चित्तं गच्छत्यचित्ततां । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ।। ← (अन्न.५/८६ ) इत्येवं राजयोग - हठयोगान्यतरप्रवर्तनमुपदिष्टमित्यवधेयम् । वस्तुतस्तु 'प्राणानुसारिण्यो वृत्तय' इति हठयोगसिद्धान्तानुसारिणां प्राणायामाऽऽवश्यकत्वेऽपि 'चित्तवृत्त्यनुसारिणः प्राणा' इति राजयोगराद्धान्तानुयायिनां तु प्राणायामाऽऽदिक्लेशत्यागेनाऽऽत्मध्यानाभ्यास एवाऽऽदरः श्रेयान् तीव्रमुमुक्षासम्पन्नानाम् । तदुक्तं योगशास्त्रे प्राणायामप्रभृतिक्लेशपरित्यागतः ततो योगी । उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ।। ← (यो . शा. १२/१७) । स्वप्रयत्नोत्थापितप्रशस्ताऽप्रशस्तान्यतरवितर्क-विचार-सङ्कल्प-विकल्पाऽनुप्रेक्षाकल्पनाऽन्तर्जल्पादिविनिर्मोकेणाऽसङ्गसाक्षिभावमात्रेण ध्यानकायोत्सर्गादिस्थैर्ये स्वयमेव प्राणा निरुध्यन्ते, द्रव्यतोऽपि कुम्भकोऽनायासेनैव सिध्यति मोह - मद-मदनोद्रेकश्च વિશેષાર્થ :- જૈનદર્શન મુજબ અધ્યાત્મજગતમાં શ્વાસ-ઉચ્છ્વાસની સ્વાભાવિક ગતિને અટકાવવાની ખાસ આવશ્યકતા નથી રહેતી. તેમ છતાં પણ જે સાધકને ઈન્દ્રિયની વૃત્તિ - વિષયાસક્તિ તોડવામાં પ્રાણાયામ જ ઉપયોગી બનતો હોય તો તેણે તે માટે પ્રાણાયામનો પણ સહકાર લેવો જોઈએ. આવી મુક્ત મનથી સૂચના અહીં મળે છે. આના દ્વારા જૈનદર્શનની વિવેકદૃષ્ટિ અને ઉદારતા છતી થાય છે. (२२/१८) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334