Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 290
________________ १५१५ • अमनस्कयोगसाधनविचारः • रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चिताऽर्थस्य प्राणायामश्च भावतः । ।१९ ।। रेचनादिति । बाह्यभावानां = कुटुम्ब - दारादिममत्वलक्षणानां रेचनात्, अन्तर्भावस्य = श्रवणजनितविवेकलक्षणस्य पूरणात्, निश्चिताऽर्थस्य कुम्भनात् = स्थिरीकरणात् च भावतः प्राणायामः । अयमेवाऽव्यभिचारेण योगाङ्गम् । क्षीयत इति स्वानुभवसिद्धोऽयममनस्कमार्गोऽस्माकम् तदुक्तं योगशास्त्रेऽपि रेचक-पूरक-कुम्भक-करणाऽभ्यासक्रमं विनाऽपि खलु । स्वयमेव नश्यति मरुद्विमनस्के सत्ययत्नेन ।। चिरमाऽऽहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव । सत्यमनस्के तिष्ठति स समीरः तत्क्षणादेव ।। ← (यो.शा. १२/४४-४५) इति । अत्यासन्नमुक्तिगामिनां लोकसंज्ञाविनिर्मुक्तानामेवायं पन्थाः तात्त्विकविविदिषा-रुचि-प्रयत्नादिगोचरः । अन्ये त्वेतत्तत्त्वविडम्बका इत्यलं प्रसङ्गेन || २२ / १८ ॥ द्रव्यप्राणायामवक्तव्यतां परिसमाप्य साम्प्रतं भावप्राणायामं निरूपयति- 'रेचनादिति । तत्त्वज्ञानशून्यजीवापेक्षया कुटुम्ब - दारादिममत्वलक्षणानां पण्डिताऽपेक्षया शास्त्राभ्यासादि-दर्पेर्ष्यादिलक्षणानां बाह्यभावानां रेचनात् विसर्जनात् । तदुक्तं योगबिन्दौ पुत्र - दारादिसंसारः पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् ।। ← ( यो. बिं. ५०९ ) इति । योगसारप्राभृतेऽपि → संसारः पुत्र- दारादिः पुंसां सम्मूढचेतसाम् । संसारो विदुषां शास्त्रमध्यात्मरहितात्मनाम् ।। ← (यो.सा. प्रा. ७/४४) इति प्रोक्तम् । अध्यात्मसारेऽपि धनिनां पुत्र- दारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् ।। ← (अ.सा. १/२३) इत्युक्तम् । श्रवणजनितविवेकलक्षणस्य अध्यात्मशास्त्रश्रुत्युपहित-देहात्मविवेकज्ञान-तन्मूलकाऽऽत्मध्यानरुचि आत्मध्यानरतिज्ञेयं प्रयत्नादिस्वरूपस्य अन्तर्भावस्य पूरणात् सङ्ग्रहात् । तदुक्तं योगसारप्राभृते विद्वत्तायाः परं फलम् ← (यो.सा. प्रा. ७/४३ ) इति । निश्चितार्थस्य गुरुगमगृहीतस्य स्वयमूहापोहपरिच्छिन्नस्य स्वभूमिकोचितस्य शास्त्रार्थस्य देहेन्द्रियाऽन्तःकरणादिभेदविज्ञान-भववैराग्य-कषायत्याग-पराभिप्रायसहिष्णुता-स्वपरशास्त्रमध्यस्थता-लोकसंज्ञाराहित्यादेः स्थिरीकरणाच्च भावतः = भावमपेक्ष्य प्राणायामो विज्ञेयः । तदुक्तं अध्यात्मतत्त्वालोके स्याद् भावतः प्राणायामस्तु बाह्यभावस्य रेचकादथ पूरणेन । विवेकभावस्य समुज्ज्वलस्य स्थिरीकृतेर्वास्तवमेतदङ्गम् ।। ← ( अ. तत्त्वा.३/१०२ ) इति । अयमेव भावप्राणायाम एव अव्यभिचारेण आत्यन्तिकाऽवश्यम्भावेन योगाङ्गम् । अत एव ભાવ પ્રાણાયામની ઓળખાણ = ગાથાર્થ :- બાહ્ય ભાવનું રેચન વિસર્જન કરવાથી, અંતર્ભાવનું પૂરણ = ગ્રહણ કરવાથી તથા નિશ્ચિતાર્થનું કુંભન સ્થિરીકરણ કરવાથી ભાવની અપેક્ષાએ પ્રાણાયામ થાય છે. (૨૨/૧૯) ટીકાર્થ :- કુટુંબ, પત્ની વગેરેનું મમત્વ બાહ્ય ભાવ કહેવાય. શાસ્રશ્રવણથી ઉત્પન્ન થયેલી વિવેકદૃષ્ટિ અંતર્ભાવ કહેવાય. બાહ્ય ભાવનું રેચન = વિસર્જન કરવાથી અંતર્ભાવનું પૂરણ = ગ્રહણ કરવાથી અને શાસ્ત્ર દ્વારા નિશ્ચિત થયેલા અર્થને-પદાર્થને- પરમાર્થને તે જ સ્વરૂપે સ્થિર કરવાથી ભાવની અપેક્ષાએ પ્રાણાયામ થાય. આ ભાવપ્રાણાયામ જ કોઈ પણ જાતના વિસંવાદ વિના યોગનું અંગ = अरए। जने छे. भाटे ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org = = = = = = -

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334