________________
१५१५
• अमनस्कयोगसाधनविचारः • रेचनाद् बाह्यभावानामन्तर्भावस्य पूरणात् । कुम्भनान्निश्चिताऽर्थस्य प्राणायामश्च भावतः । ।१९ ।। रेचनादिति । बाह्यभावानां = कुटुम्ब - दारादिममत्वलक्षणानां रेचनात्, अन्तर्भावस्य = श्रवणजनितविवेकलक्षणस्य पूरणात्, निश्चिताऽर्थस्य कुम्भनात् = स्थिरीकरणात् च भावतः प्राणायामः । अयमेवाऽव्यभिचारेण योगाङ्गम् ।
क्षीयत इति स्वानुभवसिद्धोऽयममनस्कमार्गोऽस्माकम् तदुक्तं योगशास्त्रेऽपि रेचक-पूरक-कुम्भक-करणाऽभ्यासक्रमं विनाऽपि खलु । स्वयमेव नश्यति मरुद्विमनस्के सत्ययत्नेन ।। चिरमाऽऽहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव । सत्यमनस्के तिष्ठति स समीरः तत्क्षणादेव ।। ← (यो.शा. १२/४४-४५) इति । अत्यासन्नमुक्तिगामिनां लोकसंज्ञाविनिर्मुक्तानामेवायं पन्थाः तात्त्विकविविदिषा-रुचि-प्रयत्नादिगोचरः । अन्ये त्वेतत्तत्त्वविडम्बका इत्यलं प्रसङ्गेन || २२ / १८ ॥
द्रव्यप्राणायामवक्तव्यतां परिसमाप्य साम्प्रतं भावप्राणायामं निरूपयति- 'रेचनादिति । तत्त्वज्ञानशून्यजीवापेक्षया कुटुम्ब - दारादिममत्वलक्षणानां पण्डिताऽपेक्षया शास्त्राभ्यासादि-दर्पेर्ष्यादिलक्षणानां बाह्यभावानां रेचनात् विसर्जनात् । तदुक्तं योगबिन्दौ पुत्र - दारादिसंसारः पुंसां सम्मूढचेतसाम् । विदुषां शास्त्रसंसारः सद्योगरहितात्मनाम् ।। ← ( यो. बिं. ५०९ ) इति । योगसारप्राभृतेऽपि → संसारः पुत्र- दारादिः पुंसां सम्मूढचेतसाम् । संसारो विदुषां शास्त्रमध्यात्मरहितात्मनाम् ।। ← (यो.सा. प्रा. ७/४४) इति प्रोक्तम् । अध्यात्मसारेऽपि धनिनां पुत्र- दारादि यथा संसारवृद्धये । तथा पाण्डित्यदृप्तानां शास्त्रमध्यात्मवर्जितम् ।। ← (अ.सा. १/२३) इत्युक्तम् ।
श्रवणजनितविवेकलक्षणस्य
अध्यात्मशास्त्रश्रुत्युपहित-देहात्मविवेकज्ञान-तन्मूलकाऽऽत्मध्यानरुचि
आत्मध्यानरतिज्ञेयं
प्रयत्नादिस्वरूपस्य अन्तर्भावस्य पूरणात् सङ्ग्रहात् । तदुक्तं योगसारप्राभृते विद्वत्तायाः परं फलम् ← (यो.सा. प्रा. ७/४३ ) इति । निश्चितार्थस्य गुरुगमगृहीतस्य स्वयमूहापोहपरिच्छिन्नस्य स्वभूमिकोचितस्य शास्त्रार्थस्य देहेन्द्रियाऽन्तःकरणादिभेदविज्ञान-भववैराग्य-कषायत्याग-पराभिप्रायसहिष्णुता-स्वपरशास्त्रमध्यस्थता-लोकसंज्ञाराहित्यादेः स्थिरीकरणाच्च भावतः = भावमपेक्ष्य प्राणायामो विज्ञेयः । तदुक्तं अध्यात्मतत्त्वालोके स्याद् भावतः प्राणायामस्तु बाह्यभावस्य रेचकादथ पूरणेन । विवेकभावस्य समुज्ज्वलस्य स्थिरीकृतेर्वास्तवमेतदङ्गम् ।। ← ( अ. तत्त्वा.३/१०२ ) इति ।
अयमेव भावप्राणायाम एव अव्यभिचारेण आत्यन्तिकाऽवश्यम्भावेन योगाङ्गम् । अत एव ભાવ પ્રાણાયામની ઓળખાણ
=
ગાથાર્થ :- બાહ્ય ભાવનું રેચન વિસર્જન કરવાથી, અંતર્ભાવનું પૂરણ = ગ્રહણ કરવાથી તથા નિશ્ચિતાર્થનું કુંભન સ્થિરીકરણ કરવાથી ભાવની અપેક્ષાએ પ્રાણાયામ થાય છે. (૨૨/૧૯) ટીકાર્થ :- કુટુંબ, પત્ની વગેરેનું મમત્વ બાહ્ય ભાવ કહેવાય. શાસ્રશ્રવણથી ઉત્પન્ન થયેલી વિવેકદૃષ્ટિ અંતર્ભાવ કહેવાય. બાહ્ય ભાવનું રેચન = વિસર્જન કરવાથી અંતર્ભાવનું પૂરણ = ગ્રહણ કરવાથી અને શાસ્ત્ર દ્વારા નિશ્ચિત થયેલા અર્થને-પદાર્થને- પરમાર્થને તે જ સ્વરૂપે સ્થિર કરવાથી ભાવની અપેક્ષાએ પ્રાણાયામ થાય. આ ભાવપ્રાણાયામ જ કોઈ પણ જાતના વિસંવાદ વિના યોગનું અંગ = अरए। जने छे. भाटे ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=
=
=
=
-