________________
• प्राणायामावश्यकताविचारः •
द्वात्रिंशिका - २२/१८ यः श्वास-प्रश्वासगतिप्ररोधः, स योगिभिः प्राणायामो बभाषे । स रेचकः पूरक - कुम्भकौ च श्वासो बहिर्वृत्तिरिहाऽऽदिमः स्यात् । प्रपूरणं तस्य च पूरकः स्यात् स्थिरीकृतिस्तस्य च कुम्भकः स्यात् । एकस्वभावा न हि योगकाराः केचित् ततो यान्ति पथेदृशेन ॥
← (अ.तत्त्वा.३/१००-१०१ ) इत्युक्तम् । प्राणायामरुचिशालिनां योगिनामनुग्रहार्थमेव रत्नशेखरसूरिभिः गुणस्थानकक्रमारोहे
१५१४
अपानद्वारमार्गेण निस्सरन्तं यथेच्छया । निरुन्ध्योर्ध्वप्रचाराऽऽप्तिं प्रापयत्यनिलं मुनिः ।। द्वादशाङ्गुलपर्यन्तं समाकृष्य समीरणम् । पूरयत्यतियत्नेन पूरकध्यानयोगतः ।। निस्सार्यते ततो यत्नान्नाभिपद्मोदराच्छनैः । योगिना योगसामर्थ्याद् रेचकाख्यः प्रभञ्जनः || कुम्भवत् कुम्भकं योगी श्वसनं नाभिपङ्कजे । कुम्भकध्यानयोगेन सुस्थिरं कुरुते क्षणम् ।। इत्येवं गन्धवाहानामाकुञ्चन - विनिर्गमौ । संसाध्य निश्चलं धत्ते चित्तमेकाग्रचिन्तने ।। प्राणायामक्रमप्रौढिरत्र रूढ्यैव दर्शिता । क्षपकस्य यतः श्रेण्यारोहे भावो हि कारणम् ।।
← ( गुणस्था. ५४-५९) इत्येवं सप्रयोजनं प्राणायामवर्णनमकारि ।
यद्यपि न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् तथापि कायाऽऽरोग्यकालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्श्यते' (यो.शा.५/१ वृत्ति) इत्यादिना योगशास्त्रपञ्चमप्रकाशवृत्त्यादौ श्रीहेमचन्द्रसूरिभिरपि स्पष्टमेव प्राणायामस्य मुक्तिसाधकध्यानं प्रत्यनैकान्तिकताऽनात्यन्तिकते दर्शिते तथापि प्राणवृत्तिनिरोधमृते न येषामन्तःकरणादिजयः तान् प्रति तु तस्योपयोगिता योगशास्त्रे प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनःपवननिर्जयः ।। ← (यो.शा. ५/१) इत्येवमावेदितैव । अन्नपूर्णोपनिषदि तु वासनासम्परित्यागात् चित्तं गच्छत्यचित्ततां । प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु ।। ← (अन्न.५/८६ ) इत्येवं राजयोग - हठयोगान्यतरप्रवर्तनमुपदिष्टमित्यवधेयम् ।
वस्तुतस्तु 'प्राणानुसारिण्यो वृत्तय' इति हठयोगसिद्धान्तानुसारिणां प्राणायामाऽऽवश्यकत्वेऽपि 'चित्तवृत्त्यनुसारिणः प्राणा' इति राजयोगराद्धान्तानुयायिनां तु प्राणायामाऽऽदिक्लेशत्यागेनाऽऽत्मध्यानाभ्यास एवाऽऽदरः श्रेयान् तीव्रमुमुक्षासम्पन्नानाम् । तदुक्तं योगशास्त्रे प्राणायामप्रभृतिक्लेशपरित्यागतः ततो योगी । उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ।। ← (यो . शा. १२/१७) । स्वप्रयत्नोत्थापितप्रशस्ताऽप्रशस्तान्यतरवितर्क-विचार-सङ्कल्प-विकल्पाऽनुप्रेक्षाकल्पनाऽन्तर्जल्पादिविनिर्मोकेणाऽसङ्गसाक्षिभावमात्रेण ध्यानकायोत्सर्गादिस्थैर्ये स्वयमेव प्राणा निरुध्यन्ते, द्रव्यतोऽपि कुम्भकोऽनायासेनैव सिध्यति मोह - मद-मदनोद्रेकश्च
વિશેષાર્થ :- જૈનદર્શન મુજબ અધ્યાત્મજગતમાં શ્વાસ-ઉચ્છ્વાસની સ્વાભાવિક ગતિને અટકાવવાની ખાસ આવશ્યકતા નથી રહેતી. તેમ છતાં પણ જે સાધકને ઈન્દ્રિયની વૃત્તિ - વિષયાસક્તિ તોડવામાં પ્રાણાયામ જ ઉપયોગી બનતો હોય તો તેણે તે માટે પ્રાણાયામનો પણ સહકાર લેવો જોઈએ. આવી મુક્ત મનથી સૂચના અહીં મળે છે. આના દ્વારા જૈનદર્શનની વિવેકદૃષ્ટિ અને ઉદારતા છતી થાય છે. (२२/१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org