________________
• दर्शनान्तरे प्राणायामस्य ध्यानोपयोगिता •
१५१३
तस्माद्यस्य प्राणवृत्तिनिरोधेनैवेन्द्रियवृत्तिनिरोधस्तस्य तदुपयोग इति तत्त्वम् ।।१८।। मत्सरात् ।। ← (ग.पु.उ. पू. १०।१८) इति गणेशपुराणवचनं क्रियासिद्धिः सत्त्वे वसति महताम् उत्साहः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमाः । षडेते ( नी. शा. ४१ ) इति नीतिशास्त्रवचनमपि च यथागममनु
← (हनु.ना. ६।७) इति हनुमन्नाटकवचनं, यत्र तिष्ठन्ति तत्र देवोऽपि तिष्ठति ।। ←
योज्यम् ।
उपसंहरति- तस्मात्
स्वकीयोत्साहादेर्योगसाधकत्वात् हेतोः
पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत् । अतीताऽनागतज्ञानी ततः स्याज्जगतीतले ।। ← (ग.गी. ४ / ३३) इति गणेशगीतावचनं, → योगिनां यतचित्तानां जितश्वासेन्द्रियाऽऽत्मनाम् । ध्यानेनाऽमी प्रकाशन्ते चिदाकाराः पुनः पुनः ।। ← (रा.गी. १५/१७) इति रामगीतावचनं मनोऽचिरात् स्याद् विरजं जितश्वासस्य योगिनः । वाय्वग्निभ्यां यथालोहं ध्मातं त्यजति वै मलम् ।। ← (क.दे.सं.४ / १० ) इति कपिल - देवहूतिसंवादवचनं, → प्राणान् निरुध्याऽऽज्ञामनुध्यायन् ब्रह्मरन्ध्रं ध्यायन् ← ( हंसो . १ ) इति हंसोपनिषद्वचनं, अध्यात्मं चैव प्राणस्य विज्ञायाऽमृतमश्नुते ← ( प्रश्नो ३ ।१२ ) इति प्रश्नोपनिषद्वचनं प्राणेन ह्येवाऽमुष्मिँल्लोकेऽमृतत्वमाप्नोति ← ( कौषी. ३ / ६ ) इति कौषीतकिब्राह्मणोपनिषद्वचनं, प्राणायामसुतीक्ष्णेन मात्रा - धारेण योगवित् । वैराग्योपलघृष्टेन चित्त्वा तन्तुं न बाध्यते ।। ← ( क्षुरि. २२) इति क्षुरिकोपनिषद्वचनं, → जरा-मरण - रोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणिमादिविभूतये ।। ← ( ब्र.वि. २४) इति प्राणायामफलप्रतिपादकं ब्रह्मविद्योपनिषद्वचनं, आसनं प्राणसंरोधो ध्यानं चैव समाधिकः । एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् ।। ← ( यो . रा . २ / ३ ) इति योगराजोपनिषद्वचनं योगिनः चित्तशुद्ध्यर्थं कुर्वन्ति प्राणरोधनम् ← (अन्न. ४/४४) इति अन्नपूर्णोपनिषद्वचनं, प्राणसंयमनेनैव ज्ञानान्मुक्तो भविष्यसि ← ( जा. द. ५/१२) इति जाबालदर्शनोपनिषद्वचनं, प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ← (यो.चू.११६) इति योगचूडामण्युपनिषद्वचनं मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे ← (यो.शि. १ / ६६ ) इति योगशिखोपनिषद्वचनं च विदुषो भूतभाविपदार्थज्ञान-मोक्षप्रकाशावरणक्षयमनोजयाऽमृतत्वाद्यभिलाषिणो यस्य योगिनः प्राणवृत्तिनिरोधेनैव = श्वास-प्रश्वासगतिप्रतिरोधेनैव इन्द्रियवृत्तिनिरोधः : इन्द्रियान्तःकरणवृत्तिसमुच्छेदः तस्य एव योगिनः तदुपयोगः = प्राणायामोपयोग इति तत्त्वं ग्रन्थकृदभिमतम् । अनेन ग्रन्थकृद्भिः स्वकीयमाध्यस्थ्यं प्रकटीकृतम् । एतेन
=
असङ्ख्ययोगतो मुक्तिः सर्वदर्शनधर्मिणाम् । नयसापेक्षबोधेन भवत्येव यदा तदा 11 शुद्धात्मा साध्यते सद्भिरसङ्ख्यधर्मसाधनैः । देश-काल-दशा-बोध-रुचिवैचित्र्यधारकैः
11
← (अध्या.गी. ११३, १२७ ) इति अध्यात्मगीतावचनमपि व्याख्यातम् । इदमेव चेतसिकृत्य अध्यात्मतत्त्वालोके न्यायविजयेनाऽपि
=
માટે જે સાધકને પ્રાણની શ્વાસ-ઉચ્છ્વાસની પ્રવૃત્તિને રુંધવાથી જ ઈન્દ્રિયની વૃત્તિ રુંધાય તેવું હોય તેવા સાધકને પ્રાણાયામ ઉપયોગી બની શકે છે. - આર્વો ભાવ અહીં તાત્ત્વિક જાણવો. (२२/१८)
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org