________________
१५१२
• योगसिद्धिहेतूपदर्शनम् • द्वात्रिंशिका-२२/१८ योगोपायत्वात् । यथोक्तं योगबिन्दौ- “उत्साहान्निश्चया?र्यात्सन्तोषात्तत्त्वदर्शनात् । मुनेर्जनपदत्यागात् षड्भिर्योगः प्रसिध्यति ।।” (यो.बिं.४११) इति। च अनुट्ठानं असंयमो । निद्दा तन्दी च ते छिद्दे सब्बसो तं विवज्जये'ति ।। - (सं.नि. ११८६, नजीरतिसुत्त-७६, पृ.५०) इत्येवमालस्यादिछिद्राणि यानि त्याज्यान्युक्तानि तानि योगसिद्धिकामिभिः परिहर्तव्यानीत्यवधेयम् । तदुक्तं योगबिन्दौ अपि- 'उत्साहादि'ति। एतवृत्तिरेवम् → (१) उत्साहाद् = वीर्योल्लासात्, (२) निश्चयात् = कर्तव्यैकाग्रपरिणामात्, (३) धैर्याद् = व्यसनोपनिपातेऽपि प्रतिज्ञातोऽविचलनात्, (४) सन्तोषाद् = आत्मारामतालक्षणात्, (५) तत्त्वदर्शनात् = ‘योग एवेह परमार्थ' इति समालोचनात्, मुनेः = योगिनः (६) जनपदत्यागात् = भवानुगतिकलोकव्यवहारपरित्यागात्, किम्? इत्याह षड्भिः उत्साहादिभिः योगः प्रसिध्यति = निष्पत्तिं लभते 6 (यो.बि.४११ वृ.) इति । प्रकृता कारिका ज्ञानार्णवेऽपि (ज्ञाना.२२/१) शुभचन्द्रेणोद्धृता वर्तते । योगसारप्राभृतेऽपि → उत्साहो निश्चयो धैर्यं सन्तोषस्तत्त्वदर्शनम्। जनपदात्ययः षोढा सामग्रीयं बहिर्भवा ।। - (यो.सा.प्रा.७/४१) इत्युक्तम् । एतेन → भिन्नरुचिर्हि लोकः - (रघु.६ ॥६०) इति रघुवंशवचनं, → नानारुचित्वाज्जीवानां ततो माध्यस्थ्यशालिनाम् । बिन्द्वादयोऽपि केषाञ्चिद् भवेयुः चित्तशोधकाः ।। - (वै.क.ल.९।१०३०) इति च वैराग्यकल्पलतावचनमपि व्याख्यातम् । प्रकृते पूर्वोक्तं(पृ.११८१) → चित्तस्य हि प्रसादेन हन्ति कर्म शुभाऽशुभम् - (मैत्रा.६/२०, मैत्रे.१।४।६) इति मैत्रायण्युपनिषद्-मैत्रेय्युपनिषदोः वचनं, → कस्मिंश्चिद् यत्र मनसो रुचिरुग्राऽस्ति तस्य वै । तस्मिन् रूपे सदा ध्यायन् ब्रह्मोपासनमाचरेत् ।। - (सं.गी.७/४४) इति संन्यासगीतावचनात्परेषामपि प्राणायामाद्येकान्तो नाऽभिमत इत्यवधेयम् ।
बौद्धानां पञ्चकण्टकपरिहार-पञ्चचित्तबन्धनविमुक्ति-छन्दादि-समाधिभावनोत्साहलक्षणपञ्चदशाङ्गः वैराग्य-सम्बोधि-निर्वाणसिद्धिरभिमता । इदमेवाऽभिप्रेत्योक्तं मज्झिमनिकाये → '...सो (१) छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (२) विरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (३) चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, (४) वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति, उस्सोळहीयेव येव पञ्चमी । एवं उस्सोळहीपन्नरसङ्गसमन्नागतो भिक्खु भब्बो अभिनिम्बिदाय, भब्बो सम्बोधाय, भब्बो अणुत्तरस्स योगक्खेमस्स अधिगमाय - (म.नि.चेतोखिलसुत्त१२।१८९-पृष्ठ-१४९) इत्यादि । 'उस्सोळही = उत्साहः' शिष्टं स्पष्टं यथागममत्र बहुश्रुतैर्योजनीयम् ।
प्रकृते → मनःप्रसादः श्रद्धा च तथा करणपाटवम् । सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणम् । । - (का.नी. १२/४२) इति कामन्दकीयनीतिसारवचनं, → न ह्येकः साधको हेतुः स्वल्पस्याऽपीह कर्मणः । यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ।। - (वा.रा. ५।४१।६) इति वाल्मीकिरामायणवचनं,
→ बुद्ध्या युक्त्याऽऽर्जवेनाऽपि गुरूणि लघूनि च । कार्याणि साधयेद् धीमान् न गर्वाद् न च ઉત્સાહ યોગસાધક છે. એ બાબતમાં યોગબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે “(૧) उत्सा, (२) निश्चय, (3) धैर्य, (४) संतोष, (५) तत्पशन सने (6) दौ35 व्यवहारको त्या - ॥ ७ यी४थी योग सिद्ध थाय छे.'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org