________________
• प्राणायामरुचीनां प्राणायामौचित्यम् •
१५११
एतच्च पतञ्जल्याद्युक्तं क्वचित् = पुरुषविशेषे योग्यताऽनुगं = योग्यतानुसारि युज्यते, नानारुचित्वाद्योगिनां प्राणायामरुचीनां प्राणायामेनाऽपि फलसिद्धेः, स्वरुचिसम्पत्तिसिद्धस्योत्साहस्य निरुणद्धि इत्यर्थः । किम् ? इत्यत आह- ' सज्जमरणं निरोहे त्ति सद्योमरणं निरोधे उच्छ्वासस्य । ततश्च 'सुहुमुस्सासं तु जयणाए त्ति सूक्ष्मोच्छ्वासमेव यतनया मुञ्चति, नोल्बणं, मा भूत् सत्त्वघातः ← (आ.नि. १५१० हा.) इति । न चेह - परलोकाऽप्रतिबद्धचित्ततया साधूनां मरणेऽपि का क्षतिः श्वासनिरोध इति शङ्कनीयम्, न हि मरणमविधिना प्रशस्यते, अर्थहानेः, शुभभावनाद्ययोगात्, स्वप्राणाऽतिपातप्रसङ्गात्, तस्य चाऽविधिना निषेधादिति व्यक्तं ललितविस्तरायाम् (अन्नत्थ. ल. वि. पृ. ८८ ) । यच्च संन्यासगीतायां मनुस्मृतौ च दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ।। ← ( सं .गी. ७/ २०, म स्मृ. ६/७१ ) इत्युक्तम्, तदप्यनैकान्तिकम्, यतः पातञ्जलयोगसूत्रविवरणे ग्रन्थकृतैव न च प्राणायामादिहठयोगाऽभ्यासः चित्तनिरोधे परमेन्द्रियजये च निश्चित उपायोऽपि, 'ऊसासं ण णिरुंभइ' ( आव.नि. १५१० ) इत्याद्यागमेन योगसमाधानविघ्नत्वेन बहुलं तस्य निषिद्धत्वात् ← (यो.सू.वि. २/५१-५२ ) इत्युक्तम् । योगशास्त्रे हेमचन्द्रसूरिभिरपि → तन्नाप्नोति मनः स्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्याऽऽयमने पीडा तस्यां स्यात् चित्तविप्लवः । । पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसङ्क्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ।। ← (यो . शा. ६/४-५ ) इत्युक्तम् ।
तर्हि किं प्राणायामस्य सर्वथा सर्वान् प्रत्यनुपयोगः ? इत्याशङ्कायामाह - एतच्च द्रव्यप्राणायामगोचरं पतञ्जल्याद्युक्तं आदिपदेन वशिष्ठ - मनुप्रभृतिग्रहणम् । पुरुषविशेषे योग्यताऽनुसारि = स्वकीययोग्यत्वाऽनुगामि युज्यते, पुष्पाचार्यादीनां प्राणायामव्यापारस्य । आवश्यकनिर्युक्ति-व्यवहारसूत्रभाष्यादौ श्रवणात्, मोक्षोपायानामनन्तत्वात्, योगिनां नानारुचित्वात् स्वयोग्यतानुसारिविभिन्नयोगगोचररुचिशालित्वात्, प्राणायामरुचीनां योगिनां प्राणायामेनाऽपि फलसिद्धेः समाध्यादिलक्षणफलनिष्पत्तेः । ' रुच्यनुयायि वीर्यमिति न्यायेन स्वरुचिसम्पत्तिसिद्धस्य = स्वकीयाऽभिलाषगोचरयोगसाधन-योगसाधनाप्रणालिकाविशेषादिसम्प्राप्तिनिष्पन्नस्य उत्साहस्य = वीर्योल्लासस्य योगोपायत्वात् = योगसाधकत्वात् । सोत्साहस्य तु कार्यसिद्धिरनाविला । तदुक्तं वाल्मीकिरामायणे उत्साहो बलवानार्य ! नास्त्युत्साहात्परं बलम् । सोत्साहस्याऽस्ति लोकेषु न किञ्चिदपि दुर्लभम् ।। ← ( वा. रा. ४ । १ । १२० ) इति । अत एव संयुत्तनिकाये देवतासंयुक्ते छ लोकस्मिं छिद्दानि यत्थ चित्तं न तिट्ठति । ( 9 ) ' आलस्यञ्च पमादो
* પતંજલિમતનો પણ આદર ક
एतच्च । ते छतां पतंति वगेरे महात्माखोखे श्वास-प्रश्वासने संघवानी वात छुरी छे ते अर्ध વિશેષ વ્યક્તિમાં તેની યોગ્યતા મુજબ સંગત થાય છે. કારણ કે સાધના અંગે યોગીઓની રુચિ વિવિધ પ્રકારની હોય છે. તેથી પ્રાણાયામની રુચિવાળા યોગી પુરુષોને પ્રાણાયામથી પણ આધ્યાત્મિક ફળની સિદ્ધિ થઈ શકે છે. આનું કારણ એ છે કે પોતાનો ઉછળતો ઉત્સાહ એ જ યોગનો ઉપાય છે. તથા તેનો ઉત્સાહ પોતાની રુચિ મુજબ સાધન-સામગ્રી-સાધનપ્રક્રિયા વગેરેની પ્રાપ્તિ દ્વારા સિદ્ધ થાય છે.
=
Jain Education International
=
=
For Private & Personal Use Only
www.jainelibrary.org