________________
१५१०
त्रिविधप्राणायामफलद्योतनम् •
द्वात्रिंशिका -२२/१८
• भगवत्प्रवचने तु •व्याकुलताहेतुत्वेन निषिद्ध एव श्वास-प्रश्वासरोध:, यथायोगसमाधानमेव' प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं - " उस्सासं ण णिरंभइ आभिग्गहिओ' वि किमु चेठ्ठाउ । सज्जमरणं निरोहे सुहुमुस्सासं च जयणाए । । " ( आवश्यकनिर्युक्ति- १५१०) इत्येवं प्राणायामस्य योगाङ्गतोक्ता । त्रिशिखिब्राह्मणोपनिषदि तु →
अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः । पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः ।। अल्पमूत्रोऽल्पविष्टश्च लघुदेहो मिताशनः । पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् ।। रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः । करोति त्रिषु कालेषु नैव तस्याऽस्ति दुर्लभम् ।।
← (त्रि.ब्रा.१०५-१०७) इत्येवं प्राणायामफलमावेदितम् । शाण्डिल्योपनिषदि अपि ततः शरीरे लघुता - दीप्ति-वह्निवृद्धि-नादाऽभिव्यक्तिर्भवति ← (शां. १/१६ ) इत्येवं प्राणायामफलमावेदितम् । अमृतनादोपनिषदि तु यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ← (अ.ना. ७) इति तत्फलमुक्तम् । योगशिखोपनिषदि अपि नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ।। ← (यो . शि. १/१२८) इत्येवं तत्फलमुक्तम् । जाबालदर्शनोपनिषदि तु नाडीशुद्धिमवाप्नोति पृथक्विनोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः।। नादाऽभिव्यक्तिरित्येतच्चिनं तत्सिद्धिसूचकम् ← ( जा.द. ५/११-१२ ) इत्येवं तत्फलमुपदर्शितम् । भगवत्प्रवचने = जिनेश्वरशासने तु प्रसह्य प्राणप्रच्छर्दन - विधारणयोः व्याकुलताहेतुत्वेन = मनोव्याकुलीभावकारणत्वेन निषिद्ध एव श्वास-प्रश्वासरोधः; यथायोगसमाधानमेव मनोवाक्काययोगस्वस्थतामनतिक्रम्यैव प्रवृत्तेः = धर्मसाधनप्रवृत्तेः श्रेयस्त्वात् = कल्याणाऽऽवहत्वात्, प्राणरोधपलिमन्थस्य = श्वासप्रश्वासनिरोधलक्षणव्याघातस्य अनतिप्रयोजनत्वात् प्रयोजनविशेषशून्यत्वात् । प्रकृते आवश्यकनिर्युक्तिसंवादमाह - ‘उसासं' इति । अस्य श्रीहरिभद्रसूरिकृता वृत्तिरेवम् ऊर्ध्वं = प्रबलः श्वासः = उच्छ्वासः, तं 'न निरुंभइ' त्ति न निरुणद्धि 'आभिग्गहिओ वि' अभिगृह्यत इति अभिग्रहः, अभिग्रहेण निर्वृत्तः आभिग्रहिकः = कायोत्सर्गः, तदव्यतिरेकात् तत्कर्ताऽप्याभिग्राहिको भण्यते । असौ अभिनवकायोत्सर्गकारी अपीत्यर्थः । किमुत 'चेट्टाउ'त्ति किं पुनः चेष्टाकायोत्सर्गकारी ? स तु सुतरां न
=
=
=
=
* શ્વાસાદિપ્રતિરોધ અક્તવ્ય - જૈનદર્શન
भाव । श्री ४नेश्वर भगवंतना प्रवयनमां तो श्वास भने प्रश्वासने खटाववानी भनाई ४ ફરમાવેલી છે. કારણ કે તેવી પ્રવૃત્તિ વ્યાકુળતાનું કારણ છે. મન, વચન, કાયાસ્વરૂપ યોગની સમાધિ ટકી રહે તેમ પ્રવૃત્તિ કરવી તે જ કલ્યાણકારી છે. શ્વાસ-પ્રશ્વાસને અટકાવવાની પ્રવૃત્તિનું તો કોઈ આધ્યાત્મિક પ્રયોજન નથી. તેથી જ શ્રી ભદ્રબાહુસ્વામીજીએ આવશ્યકનિર્યુક્તિ ગ્રન્થમાં જણાવેલ છે કે ‘કાયોત્સર્ગમાં ઊભો રહેલો નવો સાધક ઉચ્છ્વાસને રુંધે નહિ તો પછી ચેષ્ટાકાયોત્સર્ગ કરનારની તો વાત જ શી કરવી ? મતલબ કે તે તો સુતરાં શ્વાસને રુંધે નહિ. કારણ કે શ્વાસને સદંતર રોકવાથી તરત મૃત્યુ થાય છે. તેથી કાયોત્સર્ગમાં રહેલો સાધક સૂક્ષ્મ ઉચ્છ્વાસને જયણાથી છોડે.'
१. मुद्रितप्रतौ ' ...नमव' इत्यशुद्धः पाठः । २ हस्तादर्शे 'उम्गाहिओ' इति पाठः । ३. मुद्रितप्रतौ ' अचेट्ठा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'पसज्ज...' इत्यशुद्धः पाठः । हस्तादर्शे च 'एसज्ज...' इत्यशुद्धः पाठः । आवश्यकनिर्युक्त्यनुसारेण शुद्धः पाठोऽत्र गृहीतोऽस्माभिः । • चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति ।
.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org