Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• मिथ्यात्वत्रैविध्यम् •
१५२७ तदिदमभिप्रेत्योक्तं- “अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ।।” (यो.दृ.स.६७) ।।२४।। ___ तत् = तस्मात् कारणात् इदं निरुक्ततत्त्वं अभिप्रेत्य श्रीहरिभद्रसूरिभिः योगदृष्टिसमुच्चये उक्तं'अवेद्य'ति । श्रीहरिभद्रसूरिकृता तवृत्तिस्त्वेवम् → अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्माद् आसु = मित्राद्यासु चतसृषु दृष्टिषु तथोल्बणं = तेन निवृत्त्यादिपदप्रकारेण प्रबलं = उद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं = पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम् । अतः परं = वेद्यसंवेद्यपदं आसु न तात्त्विकमित्यर्थः, ग्रन्थिभेदाऽसिद्धेरिति । एतदपि पदमासु चरमयथाप्रवृत्तकरणेनैवेत्याचार्याः 6 (यो.दृ.स.६७ वृत्ति) इति । अयमत्राशयोऽस्माकं प्रतिभाति यदुत अनादिकालतः प्रवृत्तं मिथ्यात्वं त्रिधा भवति, → तिविधे मिच्छत्ते पन्नत्ते । तं जहा- अकिरिता अविणते अण्णाणे - (स्था. ३।३।४०३) इति स्थानाङ्गसूत्रवचनात् । तत्राऽऽद्यदृष्टिद्वितये यम-नियमाऽखेदाऽनुद्वेगाऽद्वेष-जिज्ञासादिसाचिव्येनाऽक्रियामिथ्यात्वकटुकत्वं हीयते । मिथ्यादर्शनाऽनाभोगादिजनितायाः क्रियागताऽसम्यग्रूपतायाः प्रक्षये तु योगिनां क्रियावादित्वं सम्पद्यते। न चैवं तेषां सम्यग्दृष्टित्वापत्तिः, → सम्मद्दीट्ठी किरियावादी - (सू.कृ.१ ।१२।१/नि.१२१) इति सूत्रकृताङ्गनियुक्तिवचनादिति शङ्कनीयम् अज्ञानमिथ्यात्वप्रभावेन तदाऽपि क्वचित् कुत्रचित् सर्वथैकान्ताभ्युऽपगमतः तदनापत्तेः । न ह्यपरनिरपेक्षतयैकान्तेन क्रियाणां स्वर्गाऽपवर्गसाधनतयाऽभ्युपगमे सम्यग्दर्शनं सम्भवति । तदुक्तं सूत्रकृताङ्गवृत्तौ → ‘जीवादिपदार्थसद्भावोऽस्ति' इत्येवं सावधारणक्रियाऽभ्युपगमो येषां ते 'अस्ती'ति क्रियावादिनः, ते चैवं वादित्वाद् मिथ्यादृष्टयः - (सू.कृ. १/१२/१ वृत्ति) इति । ___बलायां दृष्टौ तत्त्वशुश्रूषादिबलेनाऽविनयमिथ्यात्वं क्षेतुमारभ्यते । न च तत्प्रक्षये सम्यग्दृष्टित्वाऽऽपत्तिः, भगवदर्हत्प्रणीतविनयादितत्त्वरुचिसद्भावादिति शङ्कनीयम्, भगवदर्हत्प्रणीतं प्रवचनाऽर्थमभिरोचयमानस्याऽप्यतिनिगूढाऽज्ञानमिथ्यात्वप्रभावेनैकस्याऽप्यक्षरस्याऽरुचौ सत्यां सम्यग्दर्शनाऽसम्भवात्, तदानीं तस्य भगवति सर्वज्ञत्वप्रत्ययविरहात् । तदुक्तं पञ्चसङ्ग्रहवृत्तौ → यदा पुनरेकस्मिन्नपि वस्तुनि पर्याये वा एकान्ततो विप्रतिपद्यते तदा स मिथ्यादृष्टिरेव + (पं.सं.भाग-१ पृष्ठ-४३ वृत्ति) इति । तदुक्तं बृहत्सङ्ग्रहण्यां → पयमक्खरं पि इक्कं जो न रोएइ सुत्तनिद्दिष्टुं । सेसं रोयंतो वि हु मिच्छिद्दिट्ठी मुणेयव्यो ।। 6 (बृ.सं.१६७) इति । तदुक्तं प्रज्ञापनावृत्तौ अपि → यदि तद्गतमेकमप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञे प्रत्ययनाशतः - (प्रज्ञा.पद.१८/१३४४
તેથી આ જ અભિપ્રાયને લક્ષમાં રાખીને શ્રીહરિભદ્રસૂરિજી મહારાજાએ યોગદષ્ટિસમુચ્ચય ગ્રંથમાં જણાવેલ છે કે “(દીપ્રા દૃષ્ટિમાં બોધ સૂક્ષ્મ ન હોય) કારણ કે મિત્રા વગેરે ચાર યોગદષ્ટિઓમાં, જલગત પક્ષી છાયામાં જલચર પ્રાણીની પ્રવૃત્તિ સમાન, તથાવિધ પ્રબળ અવેદ્યસંવેદ્યપદ હોય છે. તેથી તાત્વિક वेधसंवेध५६ न छोय.' (२२/२४)
વિશેષાર્થ :- સામે જે પદાર્થ છે તે જેવો હોય તે સ્વરૂપે માનવાના બદલે કથંચિત સદશ્ય વગેરે નિમિત્તના કારણે વિશિષ્ટ પ્રયોજનને લક્ષમાં રાખીને અન્ય સ્વરૂપે ઓળખાવાય ત્યારે આરોપ થયો કહેવાય. જેમ કે ચન્દ્રની આફ્લાદકતા, વર્તુળતા, તેજસ્વિતા વગેરે મુખમાં હાજર હોવાથી ચન્દ્રનો મુખમાં આરોપ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334