Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 293
________________ १५१८ • हेतु-स्वभाव-कार्यभेदाद् धर्मत्रैविध्यम् • द्वात्रिंशिका-२२/२० → धर्म एको व्रजत्येनं यत्र क्वचन गामिनं ८ (अ.पु. १५९/८) इति अग्निपुराणवचनं, → धर्मो विश्वस्य जगतः प्रतिष्ठा - (तै.आ. १०/३) इति तैत्तिरीयाऽऽरण्यकवचनं, → सुखस्य मूलं धर्मः -- (चा.सू. १) इति चाणक्यसूत्रं, → यतो धर्मः ततः कृष्णः -- (चै.चं. १।११) इति चैतन्यचन्द्रोदयवचनं, → सुखं च न विना धर्मात् + (शु.नी. ३२) इति शुक्रनीतिवचनं, → धर्ममेकमपहाय नाऽपरः सत्सहायमनुयाति मानवम् + (ह.पु. ६३/८२) इति हरिवंशपुराणवचनं, → कर्तव्यो धर्मसङ्ग्रहः (वि.च. १०३/१७०) इति विक्रमार्कचरितवचनं, → एक एव सुहृद् धर्मो निधनेऽप्यनुयाति यः - (म.स्मृ.८/१७ हितो.१/११४) इति मनुस्मृति-हितोपदेशवचनं, → धर्मसारमिदं जगत् + (वा.रा.३/ ९/२९) इति वाल्मीकिरामायणवचनं, → अयं धर्मः सर्वेषां भूतानां मधु (बृ.आ.२/५/११) इति बृहदारण्यकोपनिषद्वचनं च यथावस्थितरूपेण परिणमति । न च दानद्वात्रिंशिकायां (द्वा.द्वा.१ १६ भाग१, पृ.३७) धर्मपदेन पुण्यं गृहीतम्, इह च सदनुष्ठानमिति कथं न विरोधः ? इति शङ्कनीयम्, धर्मस्य त्रिविधत्वेनोक्तदोषविरहात् । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → त्रिविधो धर्मः हेतु-स्वभाव-कार्यप्रभेदतो गदितः । सदनुष्ठानं हेतुस्तत्रेदं दृश्यते व्यक्तम् ।। द्विविधः पुनः स्वभावो निर्दिष्टः साश्रवः तदितरश्च । आद्यः सत्पुण्यात्मा विनिर्जरात्मा द्वितीयस्तु ।। अस्मादृशाऽनुमेयो द्विविधोऽप्ययमत्र योगिनां दृश्यः । कार्य. सुन्दरभावाः प्रत्यात्मस्फुटतरास्ते च ।। 6 (वै.क.ल. २/१२०-१२२) इति। अस्याञ्च दृष्टौ सततं चेतसि धर्मस्थापनात् कामाश्रवभवाश्रवाऽविद्याश्रवाणां हानिः सम्पद्यते । तदुक्तं मज्झिमनिकाये सर्वाश्रवसूत्रे → यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्नो वा कामासवो न उप्पज्जति, उप्पन्नो वा कामासवो पहीयति, अनुप्पन्नो वा भवासवो न उप्पज्जति, उप्पन्नो वा भवासवो पहीयति अनुप्पन्नो वा अविज्जासवो न उप्पज्जति, उप्पन्नो वा अविज्जासवो पहीयति (म.नि.१।१।१७ पृ.११) 6 इति । सम्मतञ्चेदमस्माकमपि व्यवहारनयाऽभिप्रायेण । अस्याञ्चाऽवस्थितो योगी स्वात्मनो वर्धयति तेजस्वितां, करोत्युत्साहं सदनुष्ठानकरणे, प्रोज्जवलयति बलं, सम्पादयत्योजः, स्थिरीकरोति मनः, जनयति विपदि धीरतां, विधत्ते धर्मस्थानादिरक्षार्थं शौण्डीरतां, प्रकटयति धर्मसाधने निजपौरुषभावम् । अत एव मित्रादावङ्गीकृताः प्राणातिपातविरमणादयः प्रणिधानादिना विशुध्यमानाः सन्तो दीप्रायां क्लिष्टकर्मग्रन्थिभेदादिसामर्थ्यमुपदधानाः सम्यक्कर्माऽन्तताऽभिधामुपलभन्ते । तदुक्तं अष्टाङ्गिकमार्गनिरूपणावसरे दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे → વિશેષાર્થ:- “શરીર, ઈન્દ્રિય વગેરે કાંઈ પરભવમાં સાથ-સહકાર-સલામતી નથી આપતા. પરંતુ સારી રીતે સાચવેલો અને આચરેલો ધર્મ જ પરલોકમાં પણ સાથ-સહકાર-સલામતી-સમાધિ-સદ્ગતિસન્મતિ આપવાનું કામ કરે છે. માટે ધર્મ જ મહાન છે.” આવા પ્રકારનો નિર્ણય ભાવપ્રાણાયામના સાધક દીપ્રાદષ્ટિવાળા યોગીને થવાથી અધુવ-વિનશ્વર પ્રાણોને સાચવવા માટે ધ્રુવ-શાશ્વત-અનશ્વર ધર્મને છોડવાની ભૂલ તે કરી ન શકે; ભલે ને ધર્મને સાચવવામાં પોતાના જાનનું જોખમ ઊભું થતું હોય. ભાવપ્રાણાયામના પ્રભાવે સહજમલનો પુષ્કળ પ્રમાણમાં ઘટાડો થયેલ હોવાથી દીપ્રાદષ્ટિવાળા યોગીનું भानस भी प्रसारे घातुं य छे. (२२/२०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334