________________
१५१८
• हेतु-स्वभाव-कार्यभेदाद् धर्मत्रैविध्यम् • द्वात्रिंशिका-२२/२० → धर्म एको व्रजत्येनं यत्र क्वचन गामिनं ८ (अ.पु. १५९/८) इति अग्निपुराणवचनं, → धर्मो विश्वस्य जगतः प्रतिष्ठा - (तै.आ. १०/३) इति तैत्तिरीयाऽऽरण्यकवचनं, → सुखस्य मूलं धर्मः -- (चा.सू. १) इति चाणक्यसूत्रं, → यतो धर्मः ततः कृष्णः -- (चै.चं. १।११) इति चैतन्यचन्द्रोदयवचनं, → सुखं च न विना धर्मात् + (शु.नी. ३२) इति शुक्रनीतिवचनं, → धर्ममेकमपहाय नाऽपरः सत्सहायमनुयाति मानवम् + (ह.पु. ६३/८२) इति हरिवंशपुराणवचनं, → कर्तव्यो धर्मसङ्ग्रहः (वि.च. १०३/१७०) इति विक्रमार्कचरितवचनं, → एक एव सुहृद् धर्मो निधनेऽप्यनुयाति यः - (म.स्मृ.८/१७ हितो.१/११४) इति मनुस्मृति-हितोपदेशवचनं, → धर्मसारमिदं जगत् + (वा.रा.३/ ९/२९) इति वाल्मीकिरामायणवचनं, → अयं धर्मः सर्वेषां भूतानां मधु (बृ.आ.२/५/११) इति बृहदारण्यकोपनिषद्वचनं च यथावस्थितरूपेण परिणमति । न च दानद्वात्रिंशिकायां (द्वा.द्वा.१ १६ भाग१, पृ.३७) धर्मपदेन पुण्यं गृहीतम्, इह च सदनुष्ठानमिति कथं न विरोधः ? इति शङ्कनीयम्, धर्मस्य त्रिविधत्वेनोक्तदोषविरहात् । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → त्रिविधो धर्मः हेतु-स्वभाव-कार्यप्रभेदतो गदितः । सदनुष्ठानं हेतुस्तत्रेदं दृश्यते व्यक्तम् ।। द्विविधः पुनः स्वभावो निर्दिष्टः साश्रवः तदितरश्च । आद्यः सत्पुण्यात्मा विनिर्जरात्मा द्वितीयस्तु ।। अस्मादृशाऽनुमेयो द्विविधोऽप्ययमत्र योगिनां दृश्यः । कार्य. सुन्दरभावाः प्रत्यात्मस्फुटतरास्ते च ।।
6 (वै.क.ल. २/१२०-१२२) इति। अस्याञ्च दृष्टौ सततं चेतसि धर्मस्थापनात् कामाश्रवभवाश्रवाऽविद्याश्रवाणां हानिः सम्पद्यते । तदुक्तं मज्झिमनिकाये सर्वाश्रवसूत्रे → यस्स, भिक्खवे, धम्मे मनसिकरोतो अनुप्पन्नो वा कामासवो न उप्पज्जति, उप्पन्नो वा कामासवो पहीयति, अनुप्पन्नो वा भवासवो न उप्पज्जति, उप्पन्नो वा भवासवो पहीयति अनुप्पन्नो वा अविज्जासवो न उप्पज्जति, उप्पन्नो वा अविज्जासवो पहीयति (म.नि.१।१।१७ पृ.११) 6 इति । सम्मतञ्चेदमस्माकमपि व्यवहारनयाऽभिप्रायेण ।
अस्याञ्चाऽवस्थितो योगी स्वात्मनो वर्धयति तेजस्वितां, करोत्युत्साहं सदनुष्ठानकरणे, प्रोज्जवलयति बलं, सम्पादयत्योजः, स्थिरीकरोति मनः, जनयति विपदि धीरतां, विधत्ते धर्मस्थानादिरक्षार्थं शौण्डीरतां, प्रकटयति धर्मसाधने निजपौरुषभावम् । अत एव मित्रादावङ्गीकृताः प्राणातिपातविरमणादयः प्रणिधानादिना विशुध्यमानाः सन्तो दीप्रायां क्लिष्टकर्मग्रन्थिभेदादिसामर्थ्यमुपदधानाः सम्यक्कर्माऽन्तताऽभिधामुपलभन्ते । तदुक्तं अष्टाङ्गिकमार्गनिरूपणावसरे दीघनिकाये मज्झिमनिकाये च महास्मृतिप्रस्थानसूत्रे →
વિશેષાર્થ:- “શરીર, ઈન્દ્રિય વગેરે કાંઈ પરભવમાં સાથ-સહકાર-સલામતી નથી આપતા. પરંતુ સારી રીતે સાચવેલો અને આચરેલો ધર્મ જ પરલોકમાં પણ સાથ-સહકાર-સલામતી-સમાધિ-સદ્ગતિસન્મતિ આપવાનું કામ કરે છે. માટે ધર્મ જ મહાન છે.” આવા પ્રકારનો નિર્ણય ભાવપ્રાણાયામના સાધક દીપ્રાદષ્ટિવાળા યોગીને થવાથી અધુવ-વિનશ્વર પ્રાણોને સાચવવા માટે ધ્રુવ-શાશ્વત-અનશ્વર ધર્મને છોડવાની ભૂલ તે કરી ન શકે; ભલે ને ધર્મને સાચવવામાં પોતાના જાનનું જોખમ ઊભું થતું હોય. ભાવપ્રાણાયામના પ્રભાવે સહજમલનો પુષ્કળ પ્રમાણમાં ઘટાડો થયેલ હોવાથી દીપ્રાદષ્ટિવાળા યોગીનું भानस भी प्रसारे घातुं य छे. (२२/२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org