________________
• दीप्रायां सम्यक्कर्मान्तसमवतारः •
१५१९
पुण्यबीजं नयत्येवं तत्त्वश्रुत्या सदाशयः । भवक्षाराम्भसस्त्यागाद् वृद्धिं' 'मधुरवारिणा ।। २१ ।। पुण्यबीजमिति । एवं धर्मस्य प्राणेभ्योऽप्यधिकत्वप्रतिपत्त्या तत्रोत्सर्गप्रवृत्त्या तत्त्वत्या तथातत्त्वश्रवणेन मधुरवारिणा' सदाशयः = शोभनपरिणामः भवलक्षणस्य क्षाराम्भसस्त्यागात् (= भवक्षाराऽम्भसस्त्यागात्) पुण्यबीजं वृद्धिं नयति । यथा हि मधुरोदकयोगतस्तन्माधुर्याऽनवगमेsपि बीजं प्ररोहमादत्ते, तथा तत्त्वश्रुतेरचिन्त्यसामर्थ्यात्तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि अतत्त्वश्रवणत्यागेन तद्योगात् पुण्यवृद्धिः स्यादेवेति भावः ।।२१।।
कतमो च, भिक्खवे, सम्माकम्मन्तो ? पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, कामेसु मिच्छाचारा वेरमणी । अयं वुच्चति, भिक्खवे, सम्माकम्मन्तो ← ( दी. नि. २ ।९ । ४०९, म.नि. भाग- १/१/१०/१३५पृ.९०,३ ।४ ।११ । ३७५ - पृ. ३०१ ) इति । अयमपि पूर्ववदिह महाचत्वारिंशत्कसूत्रानुसारेण (म.नि. ३ ।२।७ । १३९) यथागमं साश्रवतयाऽनुयोज्यः । धर्मार्थं प्राणपरित्यागेच्छया देह-दारेन्द्रियाद्यासक्तिरत्र तन्वी भवति देहेन्द्रियाद्यध्यासोच्छेदभूमिका च ग्रन्थिभेदौपयिका सिध्यति । अत एव पूर्वं (द्वा. द्वा.२०/२७ भाग-५, पृ.१४०१) संन्यासगीतासंवादेनोद्दिष्टा सप्तविधकर्मयोगगता विचारणा - शुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ।। ← (रा.गी. ७ / ७) इति रामगीताव्यावर्णितस्वरूपा तनुमानसीनाम्नी तृतीया कर्मयोगभूमिका दीप्रायां दृष्टौ निर्विवादं सिध्यतीत्यप्यवसेयम् । एतेनोक्तलक्षणैवोक्ताभिधाना वराहोपनिषद्महोपनिषदुपदर्शिता (वरा. ४/५, महो. ५ / २९) तृतीया ज्ञानयोगभूमिका प्रकृते समवतारिता । । २२ /२० ।। भावप्राणायामफलाऽनुविद्धतत्त्व श्रवणगुणमाह- 'पुण्ये 'ति । तथातत्त्व श्रवणेन तत्त्वगोचराऽ द्वेषजिज्ञासा-शुश्रूषोत्तरकालीनस्वभूमिकोचिततत्त्वाऽऽकर्णनेन । शोभनपरिणामः = प्रवृत्तिगतहेयोपादेयत्वादिसंवेदनगर्भप्रशस्ताऽध्यवसायः । तत्त्वविषयस्पष्टसंवित्त्यभावेऽपि = ग्रन्थिभेदोत्तरकालीनायाः स्वकीयपरिणतिगतहेयोपादेयत्वादि-नानानयाऽनुगताऽऽश्रव-संवरादिलक्षणतत्त्वविषयिण्याः सूक्ष्मविशदतरसंवित्त्या अभावेऽपि अतत्त्वश्रवणत्यागेन = अकथा-विकथाऽऽकर्णनपरित्यागेन तद्योगात् = तत्त्वश्रुतिसम्बन्धात् पुण्यवृद्धिः = विशुद्ध* તત્ત્વશ્રવણનો મહિમા છે
ગાથાર્થ :- આ રીતે સંસારરૂપી ખારા પાણીનો ત્યાગ કરીને સદાશયવાળા યોગી તત્ત્વશ્રવણ સ્વરૂપ મધુર પાણી વડે પુણ્યબીજને અંકુરિત કરે છે. (૨૨/૨૧)
ટીકાર્થ :- આ રીતે ધર્મને પોતાના પ્રાણ કરતાં પણ ચઢિયાતો માનીને ધર્મમાં જ ઉત્સર્ગથી પ્રવૃત્તિ કરવાના લીધે તથાવિધ તત્ત્વશ્રવણસ્વરૂપ મધુર પાણી વડે, સુંદર પરિણામવાળા દીપ્રાદેષ્ટિવાળા યોગી સંસારસ્વરૂપ ખારા પાણીનો ત્યાગ કરીને, પુણ્યબીજને અંકુરિત કરે છે, નવપલ્લવિત કરે છે. જેમ મધુર પાણીના માધુર્યનો બોધ ન થવા છતાં પણ મધુર પાણીના યોગથી બીજ અંકુરિત થાય છે, બીજમાંથી અંકુરો પ્રગટે છે. તેમ દીપ્રાદેષ્ટિવાળા યોગીને તત્ત્વવિષયક સ્પષ્ટ બોધ-સંવેદન ન થવા છતાં પણ તત્ત્વશ્રવણના અચિંત્ય પ્રભાવથી અતત્ત્વશ્રવણત્યાગપૂર્વક તત્ત્વશ્રવણના યોગે કરીને પુણ્યની વૃદ્ધિ થાય ४ छे - सेवो नहीं खाशय रहेलो छे. ( २२ / २१ )
Jain Education International
=
१. हस्तादर्शे 'वृष्टिं' इत्यशुद्धः पाठः । २. हस्तादर्शे 'सागरधारिणा' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'वारिण...' इत्यशुद्धः पाठः । अन्यत्र च हस्तादर्शे च 'मधुरसदा...' इति त्रुटितः पाठः ।
For Private & Personal Use Only
=
www.jainelibrary.org