________________
१५२०
• शास्त्रश्रवणफलोपदर्शनम् • द्वात्रिंशिका - २२/२१ पुण्यप्रवृद्धिः स्यादेव । तदुक्तं योगदृष्टिसमुच्चये क्षाराऽम्भस्त्यागतो यद्वद् मधुरोदकयोगतः । बीजं प्ररोहमादत्ते तद्वत् तत्त्वश्रुतेर्नरः ।। क्षारम्भस्तुल्य इह च भवयोगोऽखिलो मतः । मधुरोदकयोगेन समा तत्त्वश्रुतिस्तथा ।। ← ( यो दृ.स. ६१-६२ ) इति । योगसारप्राभृतेऽपि
क्षाराऽम्भःत्यागतः क्षेत्रे मधुराऽमृतयोगतः । प्ररोहति यथा बीजं ध्यानं तत्त्वश्रुतेस्तथा ।। क्षाराम्भःसदृशी त्याज्या सर्वदा भोगशेमुषी । मधुराम्भोनिभा ग्राह्या यत्नात् तत्त्वश्रुतिर्बुधैः ।। ← (यो.सा.प्रा.७/५०-५१ ) इत्युक्तम् । प्रकृते आगमस्य श्रुतिः कार्या गुरोः पार्श्वे हि प्रत्यहम्। प्रीति-भक्त्यादिपूर्वा सा मिथ्यात्वादिनाशिनी ।। ← (जै. गी . २५३ ) इति जैनगीतावचनमपि स्मर्तव्यम् । अध्यात्मतत्त्वालोके → एवं भवक्षारपयोनिरासात् तत्त्वश्रुति - स्वादुजलेन पुण्यम् । बीजं प्ररोहप्रवणं करोति सम्यङ्मतिः सद्गुरुभूरिभक्ति: ।। ← ( अ.त. ३/१०४) इत्युक्तं तदप्यत्रानुयोज्यम् ।
श्रवणं जिनवचनगोचरं स्यात् तर्हि
नव-नवसंवेगो खलु नाणावरणखओवसमभावो तत्ताहिगमो य तहा जिणवयणाऽऽयन्नणस्स गुणा ।। ← ( श्रा. प्र. ३) इति श्रावकप्रज्ञप्तिदर्शितं फलं स्यात् । शास्त्रतत्त्वश्रवणादितो बृहत्कल्पभाष्ये 'आयहिय परिण्णा भावसंवरो नवनवो अ संवेगो । " निक्कंपया "तवो "निज्जरा य 'परदेसियत्तं च ।। ← (बृ.क. भा. ११६२ ) इत्येवमष्टौ गुणा दर्शिताः । एतद्विस्तरस्तु तत एवाऽवसेयः । आराधनापताकायां तु श्रीवीरभद्रसूरिभिः आयरिय समुत्तारो आणा वच्छल "भावणा भक्त्ती । होइ परदेसियत्ते' 'अव्वोच्छित्ती य तित्थस्स ।। ← (आ.प. ८७) इत्येवमष्टौ तद्गुणा दर्शिता इति ध्येयम् ।
किञ्च गुरुसकाशे भावशुश्रूषोपेतोपयुक्ततत्त्वश्रुतिप्रभावादेव सम्यग्ग्रहण-धारणबोधादिसम्भवः । सम्मतञ्चेदं बौद्धानामपि। तदुक्तं मज्झिमनिकाये लघुतृष्णासङ्क्षयसूत्रे सुस्सुतं येव होति सुग्गहितं सुमनसिकतं सुपधारितं, यं नो खिप्पमेव अन्तरधायति ← ( म.नि.१ ।४ । ७ । ३९२ / पृ. ३२१ ) इति । अस्याञ्चावस्थायां श्रुतानि धर्मतत्त्वानि चिन्तनादिपरिपाकेन निदिध्यासनयोग्यतामापद्यन्ते । उपशम-सम्बोधिगामीनि श्रद्धा-वीर्य- स्मृति-समाधि - प्रज्ञेन्द्रियाणि मज्झिमनिकाये कीटागिरिसूत्रे दर्शितानि समुत्पत्तुकामानि वर्तन्तेऽस्याम् (म.नि. २/२/१०/१८२-२/३/७/२४७ महासकुलुदायिसुत्त) । मज्झिमनिकायगतबोधिराजकुमारसूत्रदर्शितरीत्या (म.नि. २/४/५/३४४) श्रद्धा-स्वस्थता - सावधानता-निर्मायित्वाऽकुशलानुष्ठानत्याग-कुशलानुष्ठानोत्साहपरतया धर्मतत्त्व श्रवणमत्र बाहुल्येन परिणमतीत्याशयोऽस्माकम् । तत्त्व श्रवणप्रभावादेवायं जानात्यनन्तमपि भवप्रपञ्चं भावयति भवनैर्गुण्यं, लक्षयति मनुष्यभवदुर्लभतां विमृशति कर्मबन्धहेतून्, निन्दयति संसारचारकवासं, श्लाघते मोक्षमार्गं, प्रतिपद्यते विषयाभिष्वङ्गस्य भवभ्रमणनिमित्ततां, बुध्यते संसारसागरतारकं धर्मं, अभिलषति शिवसुखम्, शिथिलयति विपरीताऽभिनिवेशम्, मोचयति अलीक
વિશેષાર્થ :- ખારા પાણીથી બીજ કરમાઈ જાય છે. જ્યારે મીઠા પાણીથી બીજમાંથી અંકુરો ફૂટે છે. તે રીતે સંસારના મમત્વમય પરિચયથી જીવનું પુણ્ય ખતમ થાય છે તથા રુચિપૂર્વક તત્ત્વશ્રવણથી પુણ્ય વધતું જાય છે. બીજને પાણીની મધુરતાનું જ્ઞાન નથી હોતું. છતાં પણ મધુર જલના પ્રભાવથી, તેના સાન્નિધ્યથી બીજમાંથી અંકુરો ઉગે છે. તેમ મિથ્યાર્દષ્ટિ દીપ્રાદ્યષ્ટિવાળા યોગીને વેદ્યસંવેદ્યપદ ન હોવાના કારણે તત્ત્વશ્રવણના વિષયનું સ્પષ્ટપણે સંવેદન ન થવા છતાં અતત્ત્વશ્રવણત્યાગ અને રુચિપૂર્વક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org