________________
• शुभानुबन्धस्य गुरुभक्तिसाध्यता •
१५२१ तत्त्वश्रवणतस्तीवा गुरुभक्तिः सुखाऽऽवहा । समापत्त्यादिभेदेन तीर्थकृदर्शनं ततः ।।२२।।
तत्त्वेति । तत्त्वश्रवणतः तीव्रा = उत्कटा गुरौ = तत्त्वश्रावयितरि भक्तिः = आराध्यत्वेन प्रतिपत्तिः (=गुरुभक्तिः) सुखाऽऽवहा = उभयलोकसुखकरी । ततो = गुरुभक्तेः समापत्त्यादिभेदेन तीर्थकदर्शनं भगवत्साक्षात्कारलक्षणं भवति । तदुक्तं- "गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् । स्नेहपाशेभ्य आत्मानं, परिहरति पापमित्रयोगं, पराक्रमते विविधनियमकरणेन, दर्शयति सतामात्मभावं, भावयति यत्नेन तद्वचनं, प्रत्यभिजानात्यात्मस्वरूपं स्वभूमिकौचित्येन, न लङ्घयति निजामुचितस्थिति, मानयति गुरुसंहतिमित्यादिकमूहनीयम् ।
इदञ्चात्राऽवधेयम्- तथाकथितलक्षणानि तत्तदृष्टिसम्पन्ने न्यूनान्यपि सम्भवन्ति, क्वचिद् व्यक्तरूपेणैकमपि लक्षणं नोपलभ्येत । यद्वा शक्तिरूपेण बीजरूपेण वा तत्तदृष्टिसम्पन्ने जीवे सर्वाणि कथितलक्षणान्यवसेयानीति नयमतभेदेन सर्वत्र योजना कार्या ।।२२/२१।।
तत्त्वश्रवणस्य फलान्तरमाह- 'तत्त्वे'ति । → अविधिलब्धस्य श्रुतस्य प्रत्युताऽपायफलत्वेनाऽलब्धकल्पत्वात् + (उप.पद.१८४ वृत्ति) इति उपदेशपदवृत्तिवचनेन तत्त्वश्रवणतः = विधिलब्धतत्त्वश्रुतिसकाशात् → कल्लाणसंपया इमीइ हेउ जओ गुरु परमो । इय बोहभावओ चिय जायइ गुरुभत्तिवुड्ढी वि ।। - (पञ्चा.२/४१) इति पञ्चाशकवचनेन तथाविधाऽऽशयभावात् उत्कटा = निद्राऽऽलस्याद्यप्रतिबध्या तत्त्वश्रावयितरि = स्वभूमिकोचितहेयोपादेयादितत्त्वप्रतिपादके आराध्यत्वेन प्रतिपत्तिः सजायते । सा हि उभयलोकसुखकरी, अनुबन्धस्य गुरुभक्तिसाध्यत्वात् । तदुक्तं योगदृष्टिसमुच्चये → अतस्तु नियमादेव कल्याणमखिलं नृणाम् । गुरुभक्तिसुखोपेतं लोकद्वयहिताऽऽवहम् ।। - (यो.दृ.स. ६३) इति । स्कन्दपुराणेऽपि → गुरुप्रसादात् सर्वं तु प्राप्नोत्येव न संशयः - (स्क.पु.वै.ख.कार्ति. मा.२/७-८) इत्युक्तम् ।
एतावता गुरुभक्तस्यैव तत्त्वतो मोक्षमार्गश्रवणाऽधिकारितोपदर्शिता। तदुक्तं वाल्मीकिरामायणे → गुरुभक्तिरतानाञ्च वक्तव्यं मोक्षसाधनम् - (वा.रा.५/४३) इति । गुरुभक्तेः सकाशाद् वरबोधिलाभाऽवन्ध्यकारणीभूत-विवेकदृष्टिविशेषोपधानेन समापत्त्यादिभेदेन = वक्ष्यमाणसमापत्त्यादिप्रकारेण तीर्थकृद्दर्शनम् । गुरुभक्तितः तीर्थकृद्दर्शनोपलम्भे योगदृष्टिसमुच्चयसंवादमाह- 'गुरुभक्तिप्रभावेणे'ति । तवृत्तिस्त्वेवम् → તત્ત્વશ્રવણ દ્વારા પુણ્યબીજમાંથી અંકુરા સ્વરૂપે પ્રશસ્ત ધર્મસાધના પ્રગટે જ છે. (૨૨/ર૧)
૪ ગુરુભક્તિથી તીર્થક્રનું દર્શન હ ગાથાર્થ - તત્ત્વશ્રવણથી તીવ્ર ગુરુભક્તિ પ્રગટે છે કે જે સુખાકારી હોય છે. તથા ગુરુભક્તિથી समापत्ति पणे३ ५॥तीर्थ४२नु र्शन थाय छे. (२२/२२)
ટીકાર્ય - તત્ત્વશ્રવણના કારણે તત્ત્વશ્રવણ કરાવનારા ગુરુદેવ ઉપર ઉત્કટ તીવ્ર ભક્તિ જાગે છે. ગુરુ પોતાને માટે આરાધ્ય છે – તેવો હાર્દિક સ્વીકાર થાય છે. તેવા હાર્દિક સ્વીકાર સ્વરૂપ ગુરુભક્તિ આ લોક અને પરલોક બન્નેમાં સુખને કરનારી થાય છે. તથા તેવી ગુરુભક્તિના કારણે સમાપત્તિ વગેરે સ્વરૂપે તીર્થકર ભગવંતનો સાક્ષાત્કાર થાય છે. તેથી તો શ્રીહરિભદ્રસૂરિજી મહારાજે યોગદષ્ટિસમુચ્ચય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org