________________
• देहत्यागेऽपि धर्माऽत्यागः •
१५१७ प्राणेभ्योऽपीति । अस्यां = दीप्रायां 'प्राणेभ्योऽपि = इन्द्रियादिभ्योऽपि गुरुः = महत्तरो धर्मः' इति अतः = इत्यतो भावप्राणायामतो विनिश्चयाद् धर्मार्थं प्राणांस्त्यजति, तत्रोत्सर्गप्रवृत्तेः। अत एव न धर्मं त्यजति प्राणसङ्कटे = प्राणकष्टे ।।२०।।
भावप्राणायामफलमाह- 'प्राणेभ्य' इति । इन्द्रियादिभ्यः = इन्द्रिय-शरीरादिभ्यः अपिशब्देनाऽऽपण-धन-गेहादिसमुच्चयः कृतः । धर्मः = स्वभूमिकोचित-गृहीतकुशलाऽनुष्ठानकलापः, पुण्यादिद्वारा परलोकाऽनुयायित्व-भवमोचकत्व-रक्षकत्वाऽऽत्मानन्ददायकत्वादिना हेतुना महत्तरो ज्ञात इति भावप्राणायामतः अप्रशस्तभावरेचन-प्रशस्तभावपूरण-विशुद्धभावकुम्भनलक्षणतः सहजमलह्रास-विशेषप्रादुर्भावादिना विनिश्चयाद् धर्मार्थं = धर्म-तत्स्थापकदेव-तत्प्रतिपादकगुर्वादिकृते अवसरे प्राणान् स्वकीयेन्द्रिय-देहादीन् आपणधनादींश्च अस्यां दीप्रायां दृष्टौ त्यजति असंशयं सुखेनैव, सुनक्षत्र-सर्वानुभूत्यादिवत् । हेतुमाह- तत्र = धर्म एव उत्सर्गप्रवृत्तेः = उत्सर्गतो बाहुल्येन प्रवृत्तेः । अध्यात्मतत्त्वालोकेऽपि प्रोक्तम् → स्त्रीतोऽपि पुत्रादपि मित्रतोऽपि धर्मः प्रियः स्यानिजकाऽसुतोऽपि । क्षिपेत धर्मार्थमसूनपि स्वान् प्राणान्तकष्टेऽपि न तु त्यजेत् तम् ।। (अ.त.३/१०३) इति । → चइज्ज देहं, न हु धम्मसासणं - (द.वै.चू.१/ १७) इति दशवैकालिकचूलिकावचनं, → प्राणान्तेऽपि न मुञ्चन्ति स्वप्रतिज्ञां महाजनाः । सर्वस्वाऽर्पणतां कृत्वा प्रतिज्ञां पालयन्ति ते ।। 6 (म.गी.५/२१) इति महावीरगीतावचनं, → धर्मो हैनं गुप्तो गोपाय - (गो.बा. १।२।४) इति गोपथब्राह्मणवचनं, → यज्जीवितं चाचिरांऽशुसमानक्षणभङ्गुरम् । तच्चेद् धर्मकृते याति, यातु दोषोऽस्ति को ननु ?।। - (स्क.पु.मा.को. १।२०) इति स्कन्दपुराणवचनं, → धर्मो रक्षति रक्षितः - (म.स्मृ. ८।१५) इति मनुस्मृतिवचनं, → अकृत्यं नैव कर्तव्यं प्राणत्यागेऽपि संस्थिते । न च कृत्यं परित्याज्यमेष धर्मः सनातनः ।। - (पं.तं.४/३३) इति च पञ्चतन्त्रवचनमप्यत्र सम्यक् परिणमति । अत एव सांसारिककार्येष्वपि न्यायधर्मं नातिक्रामत्ययम् । एतेन → धर्मात्मा राजनीतिषु धर्ममेवाऽऽचरति ८ (गा.सू. ८४) इति गान्धीसूत्रमपि व्याख्यातम् । 'दुष्टेषु दण्डः सुजनस्य सेवा' ( ) इत्यपि राजधर्म एवेत्यवधेयम् । एतेन → दुष्टनिग्रहं कुर्यात् (बा.सू.३/५२), शिष्टपरिपालनं च - (बा.सू.३/५३) इति बार्हस्पत्यसूत्रोक्ती अपि व्याख्याते । तदुक्तं योगदृष्टिसमुच्चयेऽपि → प्राणेभ्योऽपि गुरुर्धर्मः सत्यामस्यामसंशयम् । प्राणांस्त्यजति धर्मार्थं न धर्मं प्राणसङ्कटे ।। एक एव सुहृद् धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत्तु गच्छति ।। इत्थं सदाऽऽशयोपेतः तत्त्वश्रवणतत्परः । प्राणेभ्यः परमं धर्मं बलादेव प्रपद्यते ।।
6 (यो.दृ.स.५८-६०) इति । दीप्रायां → बन्धवो हि श्मशानाऽन्ता गृह एवार्जितं धनम् । भस्मने गात्रमेकं त्वां धर्म एव न मुञ्चति ।। (क्ष.चू.लम्ब-११।४३) इति क्षत्रचूडामणिवचनं, तो ५९॥ धने ते न छोडे. (२२/२०)
अर्थ :- न्द्रिय, श्वास, आय . ६श प्रा४२त ५९॥ धर्म महान छ.' - मावो निश्चय દીપ્રાદષ્ટિમાં ભાવપ્રાણાયામના કારણે થયેલો હોવાથી ધર્મને ખાતર યોગી પ્રાણોને છોડે છે. કેમ કે તે ધર્મમાં જ ઉત્સર્ગથી પ્રવૃત્તિ કરે છે. માટે જ પ્રાણ મુશ્કેલીમાં મૂકાય તો પણ તે ધર્મને છોડે નહિ.(૨૨/૨૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org