Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 276
________________ मिथ्यादृष्टि - सम्यग्दृष्टिशुश्रूषाभेदसमर्थनम् T १५०१ अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे । श्रुतं = अर्थश्रवणं व्यर्थं ऊषर इव बीजन्यासः । श्रुताऽभावेऽपि अर्थश्रवणाभावेऽपि अस्याः = उक्तशुश्रूषाया भावे पुनः ध्रुवो निश्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः । । १४ ।। = = • = = अभक्त्या अन्वय-व्यतिरेकाभ्यां शुश्रूषामाहात्म्यमाह - ' अभाव' इति । उक्तलक्षणशुश्रूषायाः शस्यादिफलप्रद - कृष्णमृत्तिकामयक्षेत्र तुल्याया अभावे अर्थश्रवणं तत्त्वार्थाऽऽकर्णनं व्यर्थं = निष्फलं, उषरे स्थले बीज - न्यास इव । एतेन पढिएण वि किं किरइ ? किं वा सुणिएण भावरहिएण । भावो कारणभूदो सायारणयारभूदाणं ।। ← ( भा. प्रा. ६६ ) इति भावप्राभृतवचनमपि व्याख्यातम् । ये कथां पुण्यां शृण्वन्ति मनुजाधमाः । तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि । इति (स्क.पु.वै.ख. वे.मा. २७ । ३७) स्कन्दपुराणवचनमप्यत्राऽऽगमाऽनुसारेण योज्यम् । अर्थश्रवणाऽभावेऽपि तत्त्वार्थश्रुतिविरहेऽपि उक्तशुश्रूषायाः तत्त्वाऽद्वेषमूलकजिज्ञासोत्थापिततत्त्वशुश्रूषाया भावे कर्मक्षयः परमतत्त्वबोधप्रतिबन्धककर्मह्रासः । तदुक्तं योगदृष्टिसमुच्चये बोधाम्भःस्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिराऽवनिकूपवत् ।। श्रुताऽभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाऽऽख्यं स्यात् परबोधनिबन्धनम् ।। = ← (यो. दृ.स.५३/५४) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि असत्यमुष्मिन् श्रुतमप्यपार्थमिवोषरायां भुवि बीजवापः । सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ।। ← (अ. . ३ / ९८) इति । 'अमुष्मिन् तत्त्वावबोधश्रवणाभिलाषे' । तत्त्वशुश्रूषाजन्यक्षयोपशमविशेषाच्च तत्त्वश्रवणलाभोऽपि कालान्तरे सम्पद्येतेति ध्येयम् । एतेन ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनाऽपि कस्यचित् स्यात् । तत्सद्भावे चाऽश्रुत्वाऽपि धर्मं लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभे अन्तरङ्गकारणत्वात् ← ( भग. ९ ।४ । ३६५ वृ.) भगवतीसूत्रवृत्तिकृद्वचनमपि व्याख्यातम् । Jain Education International • = = ननु सम्यग्दृष्टिद्वात्रिंशिकायां (द्वाद्वा. १५ । २ भाग - ४ पृ. १००८) सम्यग्दृष्टिलिङ्गतया शुश्रूषोक्ता इह च बलायां दृष्टौ सा दर्शितेति कथं नाऽनयोर्विरोध: ? न च बलायामतात्त्विकी शुश्रूषा, सम्यग्दृष्टेस्तु तात्त्विकीति न विरोध इति वाच्यम्, एवं सति बलायां शुश्रूषातः दर्शितकर्मक्षयाऽनुपपत्तेरिति चेत् ? अत्रोच्यते, तात्त्विकत्वेऽपि हेतु प्रयोजन - स्वरूप - विषय - फलानुबन्धभेदेनैकस्या अपि शुश्रूषायाः नानाऽवस्थायां नानात्वोपगमान्नाऽयं दोषः । तात्त्विक्यपि सा मिथ्यात्वमन्दता-मुक्त्यद्वेष-तद्राग-चरमयथाप्रवृत्तकरणाद्याऽवञ्च कयोगोत्कर्ष-तत्त्वजिज्ञासा-प्रीत्याद्यनुष्ठानपरिपाकादि-सम्यग्दर्शनाऽस्तित्व-तन्नैर्मल्याऽऽसन्नतरमुक्तिगामित्व-तथा भव्यत्वपरिपाकादिहेतुभेदेन भिद्यते । हेयोपादेयविज्ञान-शङ्काकाङ्क्षादिदोषोच्छेद-ज्ञानदर्शनविशुद्धि-शीलविअर्मनिर्भरा थाय छे. (२२/१४) ટીકાર્થ :- ૧૩ મી ગાથામાં જે તત્ત્વશુશ્રૂષાનું લક્ષણ બતાવ્યું તે તત્ત્વશુશ્રુષા વિના થયેલું અર્થનું શ્રવણ, ઉખર ભૂમિમાં બીજ વાવવાની જેમ, વ્યર્થ છે. તત્ત્વશ્રવણ ન થવા છતાં પણ ઉપરોક્ત તત્ત્વશુશ્રુષા હોય તો અવશ્ય કર્મનિર્જરા થાય છે. આ રીતે અન્વય અને વ્યતિરેક દ્વારા તત્ત્વશુશ્રુષા જ ફલનું મુખ્ય કારણ છે - એવું જણાવવાનો અહીં આશય છે. (૨૨/૧૪) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334