________________
मिथ्यादृष्टि - सम्यग्दृष्टिशुश्रूषाभेदसमर्थनम्
T
१५०१ अभाव इति । अस्या = उक्तलक्षणशुश्रूषाया अभावे । श्रुतं = अर्थश्रवणं व्यर्थं ऊषर इव बीजन्यासः । श्रुताऽभावेऽपि अर्थश्रवणाभावेऽपि अस्याः = उक्तशुश्रूषाया भावे पुनः ध्रुवो निश्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारणमिति भावः । । १४ ।।
=
=
•
=
=
अभक्त्या
अन्वय-व्यतिरेकाभ्यां शुश्रूषामाहात्म्यमाह - ' अभाव' इति । उक्तलक्षणशुश्रूषायाः शस्यादिफलप्रद - कृष्णमृत्तिकामयक्षेत्र तुल्याया अभावे अर्थश्रवणं तत्त्वार्थाऽऽकर्णनं व्यर्थं = निष्फलं, उषरे स्थले बीज - न्यास इव । एतेन पढिएण वि किं किरइ ? किं वा सुणिएण भावरहिएण । भावो कारणभूदो सायारणयारभूदाणं ।। ← ( भा. प्रा. ६६ ) इति भावप्राभृतवचनमपि व्याख्यातम् । ये कथां पुण्यां शृण्वन्ति मनुजाधमाः । तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि । इति (स्क.पु.वै.ख. वे.मा. २७ । ३७) स्कन्दपुराणवचनमप्यत्राऽऽगमाऽनुसारेण योज्यम् । अर्थश्रवणाऽभावेऽपि तत्त्वार्थश्रुतिविरहेऽपि उक्तशुश्रूषायाः तत्त्वाऽद्वेषमूलकजिज्ञासोत्थापिततत्त्वशुश्रूषाया भावे कर्मक्षयः परमतत्त्वबोधप्रतिबन्धककर्मह्रासः । तदुक्तं योगदृष्टिसमुच्चये बोधाम्भःस्रोतसश्चैषा सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिराऽवनिकूपवत् ।। श्रुताऽभावेऽपि भावेऽस्याः शुभभावप्रवृत्तितः । फलं कर्मक्षयाऽऽख्यं स्यात् परबोधनिबन्धनम् ।।
=
← (यो. दृ.स.५३/५४) इति । तदुक्तं अध्यात्मतत्त्वालोकेऽपि असत्यमुष्मिन् श्रुतमप्यपार्थमिवोषरायां भुवि बीजवापः । सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ।। ← (अ. . ३ / ९८) इति । 'अमुष्मिन् तत्त्वावबोधश्रवणाभिलाषे' । तत्त्वशुश्रूषाजन्यक्षयोपशमविशेषाच्च तत्त्वश्रवणलाभोऽपि कालान्तरे सम्पद्येतेति ध्येयम् । एतेन ज्ञानावरणीयस्य क्षयोपशमश्च गिरिसरिदुपलघोलनान्यायेनाऽपि कस्यचित् स्यात् । तत्सद्भावे चाऽश्रुत्वाऽपि धर्मं लभते श्रोतुं, क्षयोपशमस्यैव तल्लाभे अन्तरङ्गकारणत्वात् ← ( भग. ९ ।४ । ३६५ वृ.) भगवतीसूत्रवृत्तिकृद्वचनमपि व्याख्यातम् ।
Jain Education International
•
=
=
ननु सम्यग्दृष्टिद्वात्रिंशिकायां (द्वाद्वा. १५ । २ भाग - ४ पृ. १००८) सम्यग्दृष्टिलिङ्गतया शुश्रूषोक्ता इह च बलायां दृष्टौ सा दर्शितेति कथं नाऽनयोर्विरोध: ? न च बलायामतात्त्विकी शुश्रूषा, सम्यग्दृष्टेस्तु तात्त्विकीति न विरोध इति वाच्यम्, एवं सति बलायां शुश्रूषातः दर्शितकर्मक्षयाऽनुपपत्तेरिति चेत् ? अत्रोच्यते, तात्त्विकत्वेऽपि हेतु प्रयोजन - स्वरूप - विषय - फलानुबन्धभेदेनैकस्या अपि शुश्रूषायाः नानाऽवस्थायां नानात्वोपगमान्नाऽयं दोषः । तात्त्विक्यपि सा मिथ्यात्वमन्दता-मुक्त्यद्वेष-तद्राग-चरमयथाप्रवृत्तकरणाद्याऽवञ्च
कयोगोत्कर्ष-तत्त्वजिज्ञासा-प्रीत्याद्यनुष्ठानपरिपाकादि-सम्यग्दर्शनाऽस्तित्व-तन्नैर्मल्याऽऽसन्नतरमुक्तिगामित्व-तथा
भव्यत्वपरिपाकादिहेतुभेदेन भिद्यते । हेयोपादेयविज्ञान-शङ्काकाङ्क्षादिदोषोच्छेद-ज्ञानदर्शनविशुद्धि-शीलविअर्मनिर्भरा थाय छे. (२२/१४)
ટીકાર્થ :- ૧૩ મી ગાથામાં જે તત્ત્વશુશ્રૂષાનું લક્ષણ બતાવ્યું તે તત્ત્વશુશ્રુષા વિના થયેલું અર્થનું શ્રવણ, ઉખર ભૂમિમાં બીજ વાવવાની જેમ, વ્યર્થ છે. તત્ત્વશ્રવણ ન થવા છતાં પણ ઉપરોક્ત તત્ત્વશુશ્રુષા હોય તો અવશ્ય કર્મનિર્જરા થાય છે. આ રીતે અન્વય અને વ્યતિરેક દ્વારા તત્ત્વશુશ્રુષા જ ફલનું મુખ્ય કારણ છે - એવું જણાવવાનો અહીં આશય છે. (૨૨/૧૪)
For Private & Personal Use Only
www.jainelibrary.org