________________
१५००
• शुश्रुवांस आत्मानमुपलभन्ते •
द्वात्रिंशिका -२२/१४
अभावेऽस्याः श्रुतं व्यर्थं बीजन्यास इवोषरे । श्रुताऽभावेऽपि भावेऽस्या ध्रुवः कर्मक्षयः पुनः । । १४ ।।
कामिनीसहितस्य कमनीयप्रियतमायुक्तस्य किन्नरादिसम्बन्धिनः गायकविशेषादिसम्बन्धिनः श्रवणेन्द्रियाऽऽक्षेपकारिणः कामिनः = अतिशयमदनाऽऽतुरस्य । तदुक्तं योगदृष्टिसमुच्चये कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ।। ← ( यो. दृ.स. ५२) इति अध्यात्मतत्त्वालोकेऽपि यूनः सकान्तस्य विदग्धबुद्धेर्यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात् तत्त्वावबोधश्रवणाभिलाषः ।। ← ( अ.त. ३ / ९७ ) इत्युक्तम् । 'इमां दृशं = तृतीयां बलाभिधानां दृष्टिमिति । बलायां वर्तमानो योगी तन्त्रान्तरस्थितोऽपि ज्ञात्वा यः कुरुते कर्म तस्याऽक्षय्यफलं भवेत् (शि.गी. ११ / ४२ ) इति शिवगीतादिवचनतः सदनुष्ठानादितत्त्वजिज्ञासुः सन् → सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः । मत्पदाम्बुजभक्ता ये ते वै भागवतोत्तमाः ।। ← (स्क. पु. वै. ख. वें. मा.२१ । ४२ ) इति स्कन्दपुराणादिवचनतः शुश्रूषुः सञ्जायते । त्रिपाद्विभूतिमहानारायणोपनिषदि शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तः तपोनिष्ठः शिष्यो ब्रह्मनिष्ठं गुरुमासाद्य प्रदक्षिणपूर्वकं दण्डवत् प्रणम्य प्राञ्जलिर्भूत्वा विनयेनोपसङ्गम्य भगवन् ! गुरो ! मे परमतत्त्वरहस्यं विविच्य वक्तव्यमिति अत्यादरपूर्वकम् ← (त्रि.वि.म. १ । ३) इत्यादिरूपेण आत्मादितत्त्वशुश्रूषास्वरूपमुक्तं तदिहाऽनुयोज्यं यथातन्त्रम् ।
यापि त्रिपाद्विभूतिमहानारायणोपनिषदि भगवन् कथं जीवानामनादिसंसारभ्रमः । तन्निवृत्तिर्वा कथमिति । कथं मोक्षमार्गस्वरूपं च । मोक्षसाधनं कथमिति । को वा मोक्षोपायः । कीदृशं मोक्षस्वरूपम् । ← ( त्रि.वि. म. ५ / २ ) इत्येवंरूपा शुश्रूषोपदर्शिता साऽपीहाऽनुसन्धेया । आत्मादि तत्त्व श्रवणाऽनुरक्तत्वात्तदन्यव्यवच्छेदेन तदेवाऽस्यामवस्थितो योगी बहुमन्यते । तदुक्तं बालरामायणे यो यत्रानुरक्तः, स तदन्यतिरस्कारेण तदेव बहुमन्यते ← (बा. रा. २ । ६) इति । कान्तायुक्तत्वाद्येकैकविशेषणसमवधाने शुश्रूषा बलवती दृष्टा, किं पुनः तत्सकलसमवधाने ? इति शुश्रूषाऽतिशयद्योतनार्थं तादृशनानाविशेषणोपादानमिति ध्येयम्। आत्मतत्त्वशुश्रूषुतयाऽस्याऽऽत्मोपलम्भयोग्यता परेषामप्यभिमता । तदुक्तं सुबालोपनिषदि → नैवमात्मा प्रवचनशतेनाऽपि लभ्यते, न बहुश्रुतेन बुद्धिज्ञानाऽऽश्रितेन न मेधया, न वेदैः, न यज्ञैः, न तपोभिरुग्रैः, न साङ्ख्यैः, न योगैः, नाऽऽश्रमैरन्यैरात्मानमुपलभन्ते । प्रवचनेन प्रशंसया, व्युत्थानेन तमेतं ब्राह्मणाः शुश्रुवांसोऽनूचाना उपलभन्ते ← ( सुबा. ९/७ ) इत्यत्र यथातन्त्रमनुयोज्यम् || २२ / १३॥
=
=
વિશેષાર્થ :- એક તો યુવાની, તેમાં સંગીતનો શોખીન, વળી રાગ-રાગિણી વગેરેને વિશે કુશળતા, વળી પત્ની સાથે હોય, પત્ની પોતાના ઉપર અનુરાગવાળી હોય અને તેમાં પણ ગીત ગાનારા સામાન્ય માણસો નહિ પણ કિન્નર વગેરે સંગીતપ્રિય-સંગીતનિષ્ણાત દેવો હોય પછી તો પૂછવું જ શું ? ત્યારે ગીત સાંભળવાની ઈચ્છા પતિદેવને થાય તે કોઈક અલૌકિક જ હોય. તેવી પ્રબળ તત્ત્વશ્રવણવિષયક ઈચ્છા બલા દૃષ્ટિમાં પ્રગટે છે. અતત્ત્વ કે ભોગસુખસામગ્રી વગેરેની વાતમાં તેને તથાવિધ પ્રબળ રસરુચિ ન હોય. પરંતુ તત્ત્વની વાતમાં જ તેને અત્યંત વધુ રુચિ-અભિલાષા હોય છે. (૨૨/૧૩) * તત્ત્વશુશ્રુષા વિના શ્રવણ વ્યર્થ જ
ગાથાર્થ :- ઉખર ભૂમિમાં બીજની વાવણી જેમ વ્યર્થ છે તેમ તત્ત્વશુશ્રુષા વિના સાંભળેલું વ્યર્થ છે. તથા તત્ત્વ સાંભળેલ ન હોય તો પણ જો તત્ત્વની શુશ્રુષા શ્રવણઅભિલાષા હોય તો અવશ્ય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=