Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 285
________________ १५१० त्रिविधप्राणायामफलद्योतनम् • द्वात्रिंशिका -२२/१८ • भगवत्प्रवचने तु •व्याकुलताहेतुत्वेन निषिद्ध एव श्वास-प्रश्वासरोध:, यथायोगसमाधानमेव' प्रवृत्तेः श्रेयस्त्वात्, प्राणरोधपलिमन्थस्याऽनतिप्रयोजनत्वात् । तदुक्तं - " उस्सासं ण णिरंभइ आभिग्गहिओ' वि किमु चेठ्ठाउ । सज्जमरणं निरोहे सुहुमुस्सासं च जयणाए । । " ( आवश्यकनिर्युक्ति- १५१०) इत्येवं प्राणायामस्य योगाङ्गतोक्ता । त्रिशिखिब्राह्मणोपनिषदि तु → अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः । पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः ।। अल्पमूत्रोऽल्पविष्टश्च लघुदेहो मिताशनः । पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् ।। रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः । करोति त्रिषु कालेषु नैव तस्याऽस्ति दुर्लभम् ।। ← (त्रि.ब्रा.१०५-१०७) इत्येवं प्राणायामफलमावेदितम् । शाण्डिल्योपनिषदि अपि ततः शरीरे लघुता - दीप्ति-वह्निवृद्धि-नादाऽभिव्यक्तिर्भवति ← (शां. १/१६ ) इत्येवं प्राणायामफलमावेदितम् । अमृतनादोपनिषदि तु यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् । । ← (अ.ना. ७) इति तत्फलमुक्तम् । योगशिखोपनिषदि अपि नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा । स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् ।। ← (यो . शि. १/१२८) इत्येवं तत्फलमुक्तम् । जाबालदर्शनोपनिषदि तु नाडीशुद्धिमवाप्नोति पृथक्विनोपलक्षितः । शरीरलघुता दीप्तिर्वह्नेर्जाठरवर्तिनः।। नादाऽभिव्यक्तिरित्येतच्चिनं तत्सिद्धिसूचकम् ← ( जा.द. ५/११-१२ ) इत्येवं तत्फलमुपदर्शितम् । भगवत्प्रवचने = जिनेश्वरशासने तु प्रसह्य प्राणप्रच्छर्दन - विधारणयोः व्याकुलताहेतुत्वेन = मनोव्याकुलीभावकारणत्वेन निषिद्ध एव श्वास-प्रश्वासरोधः; यथायोगसमाधानमेव मनोवाक्काययोगस्वस्थतामनतिक्रम्यैव प्रवृत्तेः = धर्मसाधनप्रवृत्तेः श्रेयस्त्वात् = कल्याणाऽऽवहत्वात्, प्राणरोधपलिमन्थस्य = श्वासप्रश्वासनिरोधलक्षणव्याघातस्य अनतिप्रयोजनत्वात् प्रयोजनविशेषशून्यत्वात् । प्रकृते आवश्यकनिर्युक्तिसंवादमाह - ‘उसासं' इति । अस्य श्रीहरिभद्रसूरिकृता वृत्तिरेवम् ऊर्ध्वं = प्रबलः श्वासः = उच्छ्वासः, तं 'न निरुंभइ' त्ति न निरुणद्धि 'आभिग्गहिओ वि' अभिगृह्यत इति अभिग्रहः, अभिग्रहेण निर्वृत्तः आभिग्रहिकः = कायोत्सर्गः, तदव्यतिरेकात् तत्कर्ताऽप्याभिग्राहिको भण्यते । असौ अभिनवकायोत्सर्गकारी अपीत्यर्थः । किमुत 'चेट्टाउ'त्ति किं पुनः चेष्टाकायोत्सर्गकारी ? स तु सुतरां न = = = = * શ્વાસાદિપ્રતિરોધ અક્તવ્ય - જૈનદર્શન भाव । श्री ४नेश्वर भगवंतना प्रवयनमां तो श्वास भने प्रश्वासने खटाववानी भनाई ४ ફરમાવેલી છે. કારણ કે તેવી પ્રવૃત્તિ વ્યાકુળતાનું કારણ છે. મન, વચન, કાયાસ્વરૂપ યોગની સમાધિ ટકી રહે તેમ પ્રવૃત્તિ કરવી તે જ કલ્યાણકારી છે. શ્વાસ-પ્રશ્વાસને અટકાવવાની પ્રવૃત્તિનું તો કોઈ આધ્યાત્મિક પ્રયોજન નથી. તેથી જ શ્રી ભદ્રબાહુસ્વામીજીએ આવશ્યકનિર્યુક્તિ ગ્રન્થમાં જણાવેલ છે કે ‘કાયોત્સર્ગમાં ઊભો રહેલો નવો સાધક ઉચ્છ્વાસને રુંધે નહિ તો પછી ચેષ્ટાકાયોત્સર્ગ કરનારની તો વાત જ શી કરવી ? મતલબ કે તે તો સુતરાં શ્વાસને રુંધે નહિ. કારણ કે શ્વાસને સદંતર રોકવાથી તરત મૃત્યુ થાય છે. તેથી કાયોત્સર્ગમાં રહેલો સાધક સૂક્ષ્મ ઉચ્છ્વાસને જયણાથી છોડે.' १. मुद्रितप्रतौ ' ...नमव' इत्यशुद्धः पाठः । २ हस्तादर्शे 'उम्गाहिओ' इति पाठः । ३. मुद्रितप्रतौ ' अचेट्ठा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'पसज्ज...' इत्यशुद्धः पाठः । हस्तादर्शे च 'एसज्ज...' इत्यशुद्धः पाठः । आवश्यकनिर्युक्त्यनुसारेण शुद्धः पाठोऽत्र गृहीतोऽस्माभिः । • चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । ..... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334