Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 256
________________ • शौचस्वरूप-हेतु-फलविचारः • १४८१ त्स्वाङ्गे जुगुप्सा, परैरसंसर्गः” (यो.सू.२-४०) । स्विने गात्रे को नामाऽखेदेन प्रक्षालयितुं शक्नुयात् ? तदुक्तम् नवच्छिद्रकृता देहाः स्रवन्ति घटिका इव । बाह्यशौचैर्न शुध्यन्ति नाऽन्तःशौचं तु विद्यते ।। ( ) इति । एवं स्वकाये जुगुप्सावतः परकाया एतादृशाः इति दोषदर्शिनस्तैः संसर्गो न कदाचिदपि भवति। यदि स्वकायदुर्गन्धेन जुगुप्सा न स्यात् किं नामैतस्य निर्वेदकारणं भवेत् ? तदुक्तम् _ 'स्वदेहाऽशुचिगन्धेन न विरज्यते यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते' ।।(रामगीता.१६/ ४९) + (यो.सू.सुधा.२/४०) इति । → अंतो अंतो पूइ देहतराणि पासति पुढो विसवंताई - (आचा. १२५) इति आचाराङ्गसूत्रोक्तिरप्येतदर्थद्योतिका । यथोक्तं नागानन्दनाटके अपि → मेदोऽस्थिमांस-मज्जाऽसृक्सङ्घातेऽस्मिन् त्वचाऽऽवृते । शरीरे खलु का शोभा सदा बीभत्सदर्शने ?।। 6 (नागा. ५/२४) इति। तदुक्तं योगसूत्रभाष्ये अपि → स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायाद्यवद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च परैरसंसर्गः । कायस्वभावाऽवलोकी स्वमपि कायं जिहासु{ज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाऽप्रयतैः संसृज्येत ? - (यो.सू.भा. २/४०) इति । → धर्मध्यानान्मनःशौचं वाक्शौचं सत्यनिश्चयात् । दयाऽऽचरणतः कायशौचमालोचयेन्मुनिः ।। - (अ.गी. ८१८) इति अर्हद्गीतावचनं, → जगत्कायस्वभावौ संवेग-वैराग्यार्थम् - (त.सू.७७) इति च तत्त्वार्थसूत्रमप्यत्र भावनीयम् । → अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् । भावविशुद्धिः = निष्कल्मषता । धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहाऽमुत्र चाऽशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्मः - (त.भा. ९।६) इति तत्त्वार्थभाष्ये उमास्वातिवाचकाः । → लोभकषायविशेषाणामुपरमः = शौचम् + (त.सू.६।१४ वृ.) इति तत्त्वार्थवृत्तौ सिद्धसेनगणिवराः । तदुक्तं दशवैकालिकचूर्णो जिनदासगणिभिरपि → सोयं नाम अलुद्धया धम्मोवगरणेसु वि, एवं च कुव्वमाणस्स कम्मनिज्जरा भवति - (द.वै.चू.पृष्ठ-१८) इति ।। युक्तञ्चतत्, यतः कृष्णकर्मणां तु सरस्वत्यादिस्नानतोऽपि न शुद्धिसम्भवः । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये वस्त्रसूत्रे → सरस्सतिं पयागञ्च, अथो बाहुमतिं नदिं । निच्चम्पि बालो पक्खन्दो, कण्हकम्मो न सुज्झति ।। 6 (म.नि.११७९) इति। तदुक्तं जाबालदर्शनोपनिषदि महाभारते धर्मस्मृतौ च → चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलधौतं सुराभाण्डमिवाऽशुचि ।। - (जा.द.४/५४, म.भा.अनु., ध.स्मृ.५७) इति। यथोक्तं लिङ्गपुराणे अपि → अवगाह्याऽपि मलिनो ह्यन्तःशौचविवर्जितः । शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः ।। 6 (लिं.पु.८।३४) इति । अत एवोक्तं मैत्रेय्युपनिषदि अपि → चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् । ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ।। - (मैत्रे. २/९) इति । → चित्तं विशोधयेत्तस्मात् किमन्यैर्बाह्यशोधनैः । भावतः संविशुद्धात्मा स्वर्ग मोक्षं च विन्दति ।। - (स्क.पु.म.को. ४२/६३) इति स्कन्दपुराणवचनं, → सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चाऽऽर्जवम् । उभे एते समे स्यातामार्जवं तु विशिष्यते ।। (नी.क. ગ્રંથમાં જણાવેલ છે કે “શૌચથી પોતાની કાયા ઉપર જુગુપ્સા થાય છે તથા બીજા દેહધારી જોડે સંયોગ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334