________________
• शौचस्वरूप-हेतु-फलविचारः •
१४८१ त्स्वाङ्गे जुगुप्सा, परैरसंसर्गः” (यो.सू.२-४०) । स्विने गात्रे को नामाऽखेदेन प्रक्षालयितुं शक्नुयात् ? तदुक्तम्
नवच्छिद्रकृता देहाः स्रवन्ति घटिका इव । बाह्यशौचैर्न शुध्यन्ति नाऽन्तःशौचं तु विद्यते ।। ( ) इति । एवं स्वकाये जुगुप्सावतः परकाया एतादृशाः इति दोषदर्शिनस्तैः संसर्गो न कदाचिदपि भवति। यदि स्वकायदुर्गन्धेन जुगुप्सा न स्यात् किं नामैतस्य निर्वेदकारणं भवेत् ? तदुक्तम्
_ 'स्वदेहाऽशुचिगन्धेन न विरज्यते यः पुमान् । विरागकारणं तस्य किमन्यदुपदिश्यते' ।।(रामगीता.१६/ ४९) + (यो.सू.सुधा.२/४०) इति । → अंतो अंतो पूइ देहतराणि पासति पुढो विसवंताई - (आचा. १२५) इति आचाराङ्गसूत्रोक्तिरप्येतदर्थद्योतिका । यथोक्तं नागानन्दनाटके अपि → मेदोऽस्थिमांस-मज्जाऽसृक्सङ्घातेऽस्मिन् त्वचाऽऽवृते । शरीरे खलु का शोभा सदा बीभत्सदर्शने ?।। 6 (नागा. ५/२४) इति। तदुक्तं योगसूत्रभाष्ये अपि → स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायाद्यवद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च परैरसंसर्गः । कायस्वभावाऽवलोकी स्वमपि कायं जिहासु{ज्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन्कथं परकायैरत्यन्तमेवाऽप्रयतैः संसृज्येत ? - (यो.सू.भा. २/४०) इति । → धर्मध्यानान्मनःशौचं वाक्शौचं सत्यनिश्चयात् । दयाऽऽचरणतः कायशौचमालोचयेन्मुनिः ।। - (अ.गी. ८१८) इति अर्हद्गीतावचनं, → जगत्कायस्वभावौ संवेग-वैराग्यार्थम् - (त.सू.७७) इति च तत्त्वार्थसूत्रमप्यत्र भावनीयम् । → अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् । भावविशुद्धिः = निष्कल्मषता । धर्मसाधनमात्रास्वपि अनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहाऽमुत्र चाऽशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्मः - (त.भा. ९।६) इति तत्त्वार्थभाष्ये उमास्वातिवाचकाः । → लोभकषायविशेषाणामुपरमः = शौचम् + (त.सू.६।१४ वृ.) इति तत्त्वार्थवृत्तौ सिद्धसेनगणिवराः । तदुक्तं दशवैकालिकचूर्णो जिनदासगणिभिरपि → सोयं नाम अलुद्धया धम्मोवगरणेसु वि, एवं च कुव्वमाणस्स कम्मनिज्जरा भवति - (द.वै.चू.पृष्ठ-१८) इति ।।
युक्तञ्चतत्, यतः कृष्णकर्मणां तु सरस्वत्यादिस्नानतोऽपि न शुद्धिसम्भवः । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये वस्त्रसूत्रे → सरस्सतिं पयागञ्च, अथो बाहुमतिं नदिं । निच्चम्पि बालो पक्खन्दो, कण्हकम्मो न सुज्झति ।। 6 (म.नि.११७९) इति। तदुक्तं जाबालदर्शनोपनिषदि महाभारते धर्मस्मृतौ च → चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति । शतशोऽपि जलधौतं सुराभाण्डमिवाऽशुचि ।। - (जा.द.४/५४, म.भा.अनु., ध.स्मृ.५७) इति। यथोक्तं लिङ्गपुराणे अपि → अवगाह्याऽपि मलिनो ह्यन्तःशौचविवर्जितः । शैवला झषका मत्स्याः सत्त्वा मत्स्योपजीविनः ।। 6 (लिं.पु.८।३४) इति । अत एवोक्तं मैत्रेय्युपनिषदि अपि → चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् । ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ।। - (मैत्रे. २/९) इति । → चित्तं विशोधयेत्तस्मात् किमन्यैर्बाह्यशोधनैः । भावतः संविशुद्धात्मा स्वर्ग मोक्षं च विन्दति ।। - (स्क.पु.म.को. ४२/६३) इति स्कन्दपुराणवचनं, → सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चाऽऽर्जवम् । उभे एते समे स्यातामार्जवं तु विशिष्यते ।। (नी.क. ગ્રંથમાં જણાવેલ છે કે “શૌચથી પોતાની કાયા ઉપર જુગુપ્સા થાય છે તથા બીજા દેહધારી જોડે સંયોગ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org