SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १४८० • नानातन्त्रेषु नियमप्रकारवैविध्यम् • , द्वात्रिंशिका-२२/३ शौचभावनया स्वागजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याऽक्षजययोग्यता ।।३।। शौचेति । शौचस्य भावनया (=शौचभावनया) स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा = घृणा (=स्वाङ्गजुगुप्सा) भवति “अशुचिरयं कायो' नाऽत्राऽऽग्रहः कर्तव्यः” इति। तथा च अन्यैः कायवद्भिः असङ्गमः = तत्सम्पर्कपरिवर्जनमित्यर्थः। यः किल रेस्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति? तदुक्तं- “शौचा ( ) इति परमगुरौ सर्वपुण्यकर्मार्पणमीश्वरप्रणिधानमित्यर्थः + (मणि.२/३२) इति ।। वेदान्ततन्त्रावस्थितः तारायां दृष्टौ वर्तमानो योगी तु → सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात् क्रियते बुधैः ।। (ते.बि.१।३८, अपरो.१०५) इति अपरोक्षानुभूतितेजोबिन्दूपनिषदुक्तनियममाऽऽसेवते, यद्वा → तपः सन्तुष्टिरास्तिक्यं दानमाराधनं हरेः । वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।। 6 (त्रि.ब्रा.३३-३४) इति त्रिशिखिब्राह्मणोपनिषदुक्तान् दश नियमानासेवत इत्यादिकं यथातन्त्रमिहानुयोज्यमवहितमानसैः । यच्च त्रिशिखिब्राह्मणोनिषदि → अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः 6 (त्रि.ना.२९) इत्येवं नियमलक्षणमुक्तं, यच्चाऽपि निर्वाणोपनिषदि → नियमः = स्वान्तरिन्द्रियनिग्रहः - (निर्वा.९) इत्युक्तं तदपि यथातन्त्रमिहाऽनुयोज्यम् । मण्डलतन्त्रब्राह्मणोपनिषदि तु → गुरुभक्तिः, सत्यमार्गाऽनुरक्तिः, सुखाऽऽगतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिः, निःसङ्गता, एकान्तवासो, मनोनिवृत्तिः, फलानभिलाषो, वैराग्यभावश्च नियमाः - (म.तं.बा.१।३) इत्येवं नियमप्रकाराः प्रदर्शिताः । शाण्डिल्योपनिषदि तु → तपःसन्तोषाऽऽस्तिक्यदानेश्वरपूजन-सिद्धान्तश्रवण-ही-मति-जपोव्रतानि दश नियमाः - (शां.१/२) इत्येवं, शङ्खस्मृतौ लिखितस्मृतौ च → अक्रोधं, आर्जवं, शौचं, व्यवहारो गुरुशुश्रूषा चेति नियमाः पञ्च (शं.स्मृ.यतिधर्म.७६८, लि.स्मृ.यति.७६८) नियमभेदाः प्रोक्ताः । पूर्वं वादद्वात्रिंशिकायां (पृ.५५५) ये विविधा नियमप्रकारा उक्तास्त इहानुसन्धेयाः ।।२२/२।। नियमफलमावेदयति- 'शौचे'ति । स्वमेव = स्वकीयमेव । शौचफलोपदर्शने योगसूत्रसंवादमुपदर्शयति'शौचादिति । अत्र योगसुधाकरवृत्तिरेवम् → शौचमाचरतो योगिनः स्वाङ्गे शुद्धिमपश्यतो जुगुप्सा भवति । अशुचिस्वभावोऽयं कायः । अतस्तस्मिन्नवभिः छिट्टैर्निरन्तरं स्रवत्सु मलेषु रोमकूपैरसङ्ख्यातैः હ શૌચ નિયમના સાત ફળ હો थार्थ :- शौय भावनाथी (१) पोतानी आयाम गुप्सा थाय छे. (२) बी पारीमो 3 संग छूटे छ. (3) सत्वनी शुद्धि थाय छे. (४) भानसि प्रीति, (५) भननी माता, (६) छन्द्रियनो विय तथा (७) मात्मशननी योग्यता प्रगटे छे. (२२/3) ટીકાર્થ:- શૌચ નિયમની ભાવનાથી પોતાના શરીરના કારણોના સ્વરૂપની વિચારણા કરવા દ્વારા જુગુપ્સા થાય છે. અર્થાત્ “આ કાયા અપવિત્ર છે. આમાં આગ્રહ-મમતા કરવા લાયક નથી.” આવી બુદ્ધિ સ્વરૂપ ધૃણા થાય છે. તથા દેહધારી બીજા જીવોના સંપર્કનો- સંગમનો-સમાગમનો ત્યાગ થાય છે. કારણ કે જે ખરેખર પોતાના જ દેહમાં પણ તે તે અશુચિ વગેરે દોષો જોવાથી જુગુપ્સા કરે તે કઈ રીતે અપવિત્ર-અશુચિ એવા પરકીય શરીર સાથે સમાગમને અનુભવી શકે ? તેથી તો યોગસૂત્ર १. हस्तादर्श 'कालो' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'स्वयमेव' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy