________________
• ईश्वरप्रणिधानस्वरूपमीमांसा
१४७९
यदुक्तं- “ शौच-सन्तोष- तपः- स्वाध्यायेश्वरप्रणिधानानि नियमाः” इति ( यो. सू. २- ३२ ) ।।२।। फलमनिच्छन् सर्वाः क्रियाः तस्मिन् परमगुरौ अर्पयति तत् प्रणिधानं समाधेः तत्फललाभस्य च प्रकृष्ट उपाय:' (रा.मा.१/२३) इति राजमार्तण्डे भोजः । तदुक्तं शिवगीतायां यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि राम ! त्वं तत्कुरुष्व मदर्पणम् ।। ← (शि.गी. १५ । ४१ ) इति । तदुक्तं भगवद्गीतायां अपि → यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत् तपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पणम् ।। ← (भ.गी. ९/२७ ) इति, मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ← (भ.गी.१२/१०) इति च । यस्य यद् विहितं कर्म तत्कर्तव्यं मदर्पणम् । ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ।। ← ( ग.गी. १ ( ३६ ) इति गणेशगीतावचनमप्यवलम्ब्य तन्त्रान्तरीयः तारायामवस्थितो योगी भगवदर्पणे प्रवर्तत एव कर्मबीजोच्छेदकृते ।
सम्मतञ्चेदमस्माकमपि। तदुक्तं शक्रस्तवे श्रीसिद्धसेनदिवाकरसूरिभिः आध्यात्मिकनयाऽभिप्रायेण → यत्किञ्चित्कुर्महे देव ! सदा सुकृत- दुष्कृतम् । तन्मे निजपदस्थस्य हुं क्षः क्षपय त्वं जिन ! ।। (श. स्त. ४) गुह्यातिगुह्यगोप्ता त्वं गृहाणाऽस्मत्कृतं जपम् । सिद्धिः श्रयति मां येन त्वत्प्रसादात्त्वयि स्थितम् ।। ← (श. स्त. ५ ) इति । तदुक्तं महावीरगीतायामपि मयि न्यस्य स्वकर्माणि सद्रूपं स्वं परीक्ष्य च । स्वं जेता सर्ववृत्तीनां ज्ञात्वा कर्म समाचरेत् ।। ← ( म.गी. ३/३० ) इति । ईश्वरार्पितसर्वस्वो हि श्रेष्ठयोगी मन्यते साङ्ख्यैः । तदुक्तं कपिलदेवहूतिसंवादे
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः । अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।। मुक्तसङ्गस्ततो भूयानऽ दोग्धा धर्ममात्मनः । तस्माद् मय्यर्पिताशेषक्रियाऽर्थात्मा निरन्तरः ।। मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः । न पश्यामि परं भूतमकर्तुः समदर्शनात् ।।
← (क.दे.सं.५/३१-३३) इति यथातन्त्रमन्त्राऽनुयोज्यम् ।
योगाऽभ्यासदशायामीश्वरसमर्पण-दासत्वभावनादेरुपादेयता परिपक्वयोगावस्थायां तु 'सोऽहं सदा सोऽहं, अहं ब्रह्माऽस्मि, सर्वं खल्विदं ब्रह्म' इति संवेदनमेवाऽभियुक्ततरमित्यवधेयम् । इदमेवाभिप्रेत्य श्रीबुद्धिसागरसूरिभिः परमात्मनस्त्वहं दास आद्याभ्यासे विचार्यते । परिपक्वसमाधौ तु 'परब्रह्माऽस्मि' निश्चितम्।। ← ( आ.द.गी. १५८) इत्येवं आत्मदर्शनगीतायां प्रज्ञापितमाध्यात्मिकनयाऽभिप्रायेण । इत्थमेव → एगे आया ← (स्था.सू.१/१/२ ) इति स्थानाङ्गसूत्रमपि सङ्गच्छत इति विभावनीयमनेकान्तमतावलम्बिभिः ।
प्रकृते योगसूत्रसंवादमाह - ' शौचे 'ति । अत्र मणिप्रभावृत्तिरेवम् शौचं मृज्जलादिकृतं गोमूत्रपावकादिमेध्याऽऽहारकृतम्। आन्तरं मैत्र्यादिभावनया चित्तस्याऽसूयाऽऽदिमलराहित्यम् । सन्तोषः सन्निहितप्राणधारणमात्रहेतुना तुष्टिः । तपो द्वन्द्वसहनं यथायोगं कृच्छ्रादिकं च । स्वाध्यायः प्रणवाद्यभ्यासः । ज्ञानतोऽज्ञानतो वाऽपि यत्करोमि शुभाशुभम् । तत्सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ।। कर्मणा मनसा वाचा या चेष्टा मम नित्यशः । केशवाऽऽराधने सा स्याज्जन्म-जन्मान्तरेष्वपि ।। પતંજલિ મહર્ષિએ જણાવેલ છે કે ‘શૌચ, સંતોષ, તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાનને નિયમ જાણવા.’ (२२/२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org