________________
• तपसो लौकिक-लोकोत्तरनियमादिरूपता • द्वात्रिंशिका -२२/२ देवताप्रणिधानं = ईश्वरप्रणिधानं सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणम् । योगाचार्यैः पतञ्जल्यादिभिर्नियमा उदाहृताः ।
(यो.सू.भा.२/३२) इत्याह । न तपोऽनशनादन्यत् ← (स्कं. पु. वै.ख. वै.मा. १७/२०) इति स्कन्दपुराणवचनं नास्ति लोके यशोमूलं ब्रह्मचर्यात् तपः ← (म.पु.१७५।४० ) इति मत्स्यपुराणवचनं, → मैथुनस्याऽसमाचारो न चिन्ता नाऽनुजल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते ।। ← (ब्र. पु.पू. ३२/५१) इति ब्रह्माण्डपुराणवचनं चाऽत्र स्मर्तव्यम् । दर्पदलने तु क्षमा शमः शासनमिन्द्रियाणां मनःप्रसिक्तं करुणाऽमृतेन । तपोऽर्हमेतत् सजने वने वा कायस्य संशोषणमन्यदाहुः ।। ← (द.द. ७।१६) इत्येवं तत्स्वरूपमुक्तम् । तदुक्तं महाभारते अपि ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः । ते तपन्ति महात्मानो शरीरस्य न शोषणम् ।। ← ( म.भा. वनपर्व - २००-९९) इति । भगवद्गीतायां च → देव-द्विज-गुरु-प्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। ← (भ.गी. १७/ १४) इत्यादिना शारीर-वाङ्मय - मानस- सात्त्विक - राजस - तामसतपोव्याख्या इहैव पूर्वं (भा-२ पृ. ५१८) दर्शिता तत एवाऽवधेया । अन्तः प्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः । निर्मलाऽऽशयता नित्यं मानसं तप ईदृशम् ।। ← (ग.गी.११ / ४) इति गणेशगीतावचनमप्यत्र स्मर्तव्यम् । तपो हि स्वाध्यायः ← (आ.ध.सू.१/४/१२/२) इति तु तैत्तिरीयारण्यके आपस्तम्बीयधर्मसूत्रे चोक्तमिति पूर्वं (पृ. ५१८) दर्शितमनुस्मर्तव्यम् । निरालम्बोपनिषदि तु ब्रह्म सत्यं जगन्मिथ्या' इत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्पबीजसन्तापं = तपः ← ( निरा. २९) इत्येवं तपोलक्षणमुक्तं तदपि वेदान्त दर्शनस्थः तारायामवस्थितो योगी यथाशक्ति समवलम्बते ।
१४७८
=
→ अनिगूहितवीर्यस्य मार्गाऽविरोधिकायक्लेशः तपः ← ( स. सि. ६ । २४ ) इति सर्वार्थसिद्धिकृत् । → प्रातिश्रोतसिकी वृत्तिर्ज्ञानिनां परमं तपः ← (ज्ञा. सा. ३१।२) इति तु ज्ञानसारोक्तिः पूर्वोक्ता (पृ.९६३) इहानुसन्धेया । एतेन साधने नियमोऽन्यजनानाम् । योगिनां तु तपसाऽखिलसिद्धिः ← (नै.च. ५। ३) इति नैषधीयचरितवचनमपि व्याख्यातम् ।
ननु पूर्वं धर्मव्यवस्थाद्वात्रिंशिकायां (द्वाद्वा. ७/२५ भाग - २, पृ. ५१८) लोकोत्तरधर्मविधया तपोऽवर्णि, पूर्वसेवा- द्वात्रिंशिकायां तु ( द्वा. द्वा. १२/१७-२१ भाग - ३, पृ. ८६२ - ६८) लौकिकधर्मरूपेण तन्यरूपि, इह च नियमरूपेण तत्कथ्यत इति कथं न विरोधः । न ह्येकत्राऽन्वितस्याऽन्यत्राऽङ्गोपाङ्गत्वसम्भव इति चेत् ? मैवम्, द्रव्य-क्षेत्र-काल- दशादिभेदेनैकस्यैवाऽनेकत्राङ्गत्वोपाङ्गत्वादिसम्भवात्। सम्मतञ्चेदं परेषामपि । तदुक्तं शम्भुगीतायां देश-कालादिवैचित्र्यादुपाङ्गं ह्येकमेव च ।। अङ्गानां नन्वनेकेषामुपागं स्यादसंशयम् । अत्यन्तं वर्तते विज्ञाः ! धर्मस्य गहना गतिः ।। ← (शं.गी. १।८१-८२ ) इति भावनीयं यथातन्त्रम् ।
नाहं
सर्वक्रियाणां फलनिरपेक्षतया ईश्वरसमर्पणलक्षणं ईश्वरप्रणिधानम् । तदुक्तं कूर्मपुराणे कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ।। ← (कू.पु. ३/१६) इति । 'ईश्वरे प्रणिधानं भक्तिविशेषः विशिष्टमुपासनं सर्वक्रियाणां तत्राऽर्पणं, विषयसुखादिकं કહેવાય છે. પતંજલિ વગેરે યોગાચાર્યો આને નિયમ તરીકે ઓળખાવે છે. કારણ કે યોગસૂત્ર ગ્રંથમાં
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
=