________________
• जपस्यापि स्वाध्यायरूपता •
१४७७ मन्त्राणां जपः । तपः कृच्छ्र-चान्द्रायणादि । प्रणवेन विहीनास्तु तान्त्रिका एव कीर्तिताः ।। - (परा.स्मृ. ) इति पराशरस्मृतिवचनात् प्रणवपूर्वकत्वमत्रोपदर्शितम् । ततश्च दुरितविलयः । तदुक्तं → जपतो नास्ति पातकम् - (नी.शा.४६) इति नीतिशास्त्रे । तारायामवस्थिता वैष्णवास्तु योगिनः → तुलसीदारुमणिभिः जपः सर्वार्थसाधकः । एवं न वेद यः कश्चित् स विप्रः श्वपचाऽधमः ।। - (तुल. १४) इति तुलस्युपनिषद्वचनतात्पर्याऽऽनुकूल्येन जपं करोतीत्यादिकं यथातन्त्रमुपयुज्याऽत्र वक्तव्यम् ।
योगसुधाकरे तु → स्वाध्यायः = गायत्रीप्रभृतीनां मन्त्राणामध्ययनम् । ते च मन्त्रा द्विविधाः वैदिकाः तान्त्रिकाश्च । वैदिकाः प्रगीताऽप्रगीतभेदेन द्विविधाः। तान्त्रिकाः स्त्री-पुं-नपुंसकभेदेन त्रिविधाः + (यो. सुधा.२/३२) इत्युक्तम् । 'स्वाध्यायः = मोक्षशास्त्राणामध्ययनं प्रणवजपो वा' (यो.सू.भा.२/३२) इति योगसूत्रभाष्ये व्यासः । स्वाध्यायाद् वाङ्मयतपः सम्पद्यत इति परेषामभिमतम् । तदुक्तं संन्यासगीतायां → स्वाध्यायाभ्यसनाच्चेह संसिध्येद् वाङ्मयं तपः - (सं.गी.३/९९) इति ।
जैनसम्प्रदायाऽनुसारेण तु → स्वाध्यायः परमः तावज्जपः पञ्चनमस्कृतेः। पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ।। - (तत्त्वानु.३/६) इति नागसेनकृततत्त्वानुशासनदर्शितरीत्या स्वाध्यायोऽत्राऽवधेयो जिनमतस्थितानाश्रित्य । यद्वा → सज्झाए पंचविहे पन्नत्ते । तं जहा- वायणा, पडिपुच्छणा, परियट्टणा, अणुप्पेहा, धम्मकहा - (भ.सू. २५।७।२।२३६) इति व्याख्याप्रज्ञप्तिसूत्रोपदर्शितः पञ्चविधः स्वाध्यायः । यद्वा नयान्तराऽभिप्रायेण → वयणमयं पडिक्कमणं वयणमयं पच्चक्खाणं णियमं च । आलोयणं वयणमयं तं सव्वं जाण सज्झाउ ।। - (नि.सा. ४२७) इति नियमसारवचनतो वचनमयप्रतिक्रमणादीनामपि स्वाध्यायत्वमत्र योज्यमागमाऽनुसारेण सिद्धान्तकोविदैः ।।
वस्तुतस्तु प्रणवजपादप्यर्हत उपासनाऽनाविलैव, तदर्थयोगात् । इदमेवाभिप्रेत्य महामनाः श्रीहरिभद्रसूरिवरः ब्रह्मसिद्धान्तसमुच्चये → सत्त्वार्थनिरतः श्रीमान्, नृसुराऽसुरपूजितः ।।
अन्वर्थयोगतश्चाऽयं महादेवोऽहंस्तथागतः । बुद्धश्च गीयते सद्भिः प्रशस्तैख़तृभिः सदा ।। अचिन्त्यदिव्यनिर्माणो महाऽतिशयसङ्गतः । धर्मकल्पद्रुमो मुख्यः स्वर्ग-मुक्तिफलप्रदः ।। महासमाधिकामानां सद्वृत्तानां तपस्विनाम् । एष प्रणवयोगेन योगिनां जपगोचरः ।।
6 (ब्र.सि.२३-२६) इति निरूपितवानित्यवधेयमनेकनयसमन्वयनिपुणैः । तपः = कृच्छ्रचान्द्रायणादि पूर्वं (द्वा.द्वा.१२/१८-१९ भाग-३,पृ.८६३-४) व्यावर्णितम् । चान्द्रयणं तपो जैनदर्शने यवमध्यचन्द्रप्रतिमा कथ्यते इति प्रवचनसारोद्धारे (प्र.सा.गाथा-१५५८) प्रसिद्धम् । तपोलक्षणं तु याज्ञवल्क्यस्मृतौ → विधिनोक्तेन मार्गेण कृच्छ्र-चान्द्रायणादिभिः । शरीरशोषणं प्राहुः तापसास्तप उत्तमम् ।। - (या.स्मृ.) इति दर्शितम् । यथोक्तं शाण्डिल्योपनिषदि अपि → तपो नाम विध्युक्तकृच्छ्रचान्द्रायणादिभिः शरीरशोषणम् - (शां.१ ।२) इति । योगसुधाकरस्तु ‘तपः = कायशोषणम्' (यो.सुधा. २/३२) इत्याह । योगसूत्रभाष्यकारस्तु → तपः = द्वन्द्वसहनम् । द्वन्द्वश्च जिघत्सा-पिपासे शीतोष्णे स्थानाऽऽसने काष्ठमौनाऽऽकारमौने च । व्रतानि चैषां यथायोगं कृच्छ्र-चान्द्रायण-सान्तपनादीनि 6
તમામ પ્રવૃત્તિઓના ફળની અપેક્ષા રાખ્યા વિના તમામ પ્રવૃત્તિઓ ઈશ્વરને સોંપવી તે ઈશ્વરપ્રણિધાન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org