________________
१४७६ • नियमस्वरूपमीमांसा •
द्वात्रिंशिका-२२/२ नियमाः शौच-सन्तोषौ स्वाध्याय-तपसी अपि । देवताप्रणिधानं च योगाचार्येरुदाहृताः।।२।।
नियमा इति। शौचं = शुचित्वं, तद् द्विविधं, बाह्यमाभ्यन्तरं च। बाह्यं मृज्जलादिभिः कायप्रक्षालनं, आभ्यन्तरं मैत्र्यादिभिश्चित्तमलप्रक्षालनम् । सन्तोषः = सन्तुष्टिः। स्वाध्यायः = प्रणवपूर्वाणां
नियमानाचष्टे- 'नियमा' इति । 'जन्महेतून् काम्यधर्मान् निवर्त्य मोक्षहेतौ निष्कामे धर्मे नियमयन्ति = प्रेरयन्तीति नियमाः' इति (यो.सुधा.२/३२) योगसुधाकरे सदाशिवेन्द्रः । मृज्जलादिभिः आदिपदेन सूर्याऽऽतापनादिग्रहः, कायप्रक्षालनं = देहस्नानं बाह्यं शौचम् । भावागणेशस्तु → शौचं मृज्जलादिना बाह्यं पञ्चगव्यादिभोजनेन चाभ्यन्तरम् । एतदुभयं शारीरम् । मानसं तु राग-द्वेषादिमलक्षालनम् । (भावा.२/३२) इत्याह । → शौचं = संयम प्रति निरुपलेपता + (आ.नि.दशविधयतिधर्म-पृ.६४६) इति आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरिः । प्रकृते → शौचं नाम द्विविधम् । बाह्यमान्तरं चेति । तत्र मृज्जलाभ्यां बाह्यम् । मनःशुद्धिरान्तरम् तदध्यात्मविद्यया लभ्यम् - (शां.१/७) इति शाण्डिल्योपनिषद्वचनं, → अद्भिः शुध्यन्ति गात्राणि बुद्धिर्ज्ञानेन शुध्यति। अहिंसया च भूतात्मा मनः सत्येन शुध्यति ।। 6 (बो.ध.१/५/८/२, ३/१/१/२४) इति बौधायनधर्मसूत्रवचनं, → अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्या-तपोभ्यां भूतात्मा, बुद्धिर्ज्ञानेन शुध्यति ।। - (म.स्मृ.५ १०९) इति मनुस्मृति-वचनं च यथागममनुयोज्यं बहुश्रुतैः ।
सन्तोषः = सन्निहितप्राणधारणमात्रहेतुनोपकरणभोजनादिना सन्तुष्टिः । 'सन्तोषः = सन्निहितसाधनादधिकस्यानुपादित्सा' (यो.भा.२/३२) इति योगसूत्रभाष्यकारः । सन्तोषलक्षणं ‘सन्तोषः = यथालाभपरितुष्टिः' इति योगसुधाकरे, → सन्तोषो नाम यदृच्छालाभसन्तुष्टिः - (शां.३) इत्येवं शाण्डिल्योपनिषदि
→ ब्रह्मलोकादिपर्यन्ताद् विरक्त्या यल्लभेत् प्रियम् । सर्वत्र विगतस्नेहः सन्तोषं परमं विदुः ।। 6 (जा.यो. २/६) इत्येवं जाबालयोगे, → यस्य यावत् स तेनैव स्वेन तुष्यति बुद्धिमान् ( (वि.पु. १।११।२१) इत्येवं च विष्णुपुराणे दर्शितमिहाऽनुसन्धेयम् । अयञ्च सन्तोषो योगाऽभ्यासफलतया परेषामभिमतः । तदुक्तं मैत्रायण्युपनिषदि → सन्तोषं द्वन्द्वतितिक्षां शान्तत्वं योगाऽभ्यासादवाप्नोति - (मैत्रा.६/२९) इति । अहिंसादियमाः प्रकृते योगपदेनाऽवगन्तव्या । यद्वा योगाऽभ्यासपदेन योगपूर्वसेवाऽवगन्तव्या यथातन्त्रमवहितमानसः ।
स्वाध्यायः = प्रणवपूर्वाणां मन्त्राणां जपः । → एते मन्त्राः प्रधानाः स्युर्वैदिकाः प्रणवैर्युताः । तत्त्वगोय२ शिस महामी थाय छे. (२२/१)
નિયમના પાંચ પ્રક્ષર હ Auथार्थ :- शौय, संतोष, स्वाध्याय, त५ भने श्वरप्रणिधानने यो॥यार्यो नियम छ.(२२/२)
ટીકાર્ય - શૌચ એટલે પવિત્રતા- સ્વચ્છતા. તેના બે પ્રકાર છે. બાહ્ય અને અત્યંતર. માટી, પાણી વગેરે દ્વારા કાયાનું પ્રક્ષાલન એટલે બાહ્ય શૌચ. મૈત્રી વગેરે ભાવના દ્વારા ચિત્તના મેલનું પ્રક્ષાલન -શુદ્ધિકરણ કરવું તે અભ્યન્તર શૌચ જાણવું. સંતોષ એટલે સંતુષ્ટિ. પ્રણવ = ૐકાર પૂર્વક મંત્રોનો જાપ કરવો તે સ્વાધ્યાય કહેવાય. કચ્છ, ચાંદ્રાયણ વગેરે તપ જાણવા.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org