________________
१४८२
• दशधा शौचफलं पञ्चधा च शौचम् •
द्वात्रिंशिका - २२/३
तथा सुसत्त्वस्य प्रकाशसुखात्मकस्य शुद्धी रजस्तमोभ्यामनभिभवः (= सत्त्वशुद्धिः) । सौमनस्यं खेदाऽननुभवेन मानसी प्रीतिः, एकाग्र्यं = नियते विषये चेतसः स्थैर्यं, अक्षाणां = इन्द्रियाणां जयो विषयपराङ्मुखानां' स्वात्मन्यवस्थानं, योग्यता चात्मदर्शने विवेकख्यातिरूपे समर्थत्वम् । एतावन्ति फलानि शौचभावनयैव भवन्ति । तदुक्तं “सुसत्त्वशुद्धि-सौमनस्यैकाग्र्येन्द्रियजयाऽऽत्मदर्शनयोग्यत्वानि चेति" (यो.सू.२-४१) ।। ३ ।।
९/८९) इति नीतिकल्पतरुवचनं न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म ज्ञान-ध्यान-तपोजलैः ।। ← ( म.भा. शांतिपर्व ) इति च महाभारतवचनमप्यत्र यथागममनुयोज्यम् । कायस्नानलक्षणस्य शौचस्य फलानि तु विश्वामित्रस्मृतौ गुणा दश स्नानकृतो हि पुंसो ( १ ) रूपं च (२) तेजश्च (३) बलं च (४) शौचम् । (५) आयुष्यं (६) आरोग्यं (७) अलोलुपत्वं (८) दुःस्वप्ननाशश्च ( ९ ) तपश्च (१०) मेधा ।। ← (वि. स्मृ. १ ।८६ ) इत्येवमुपदर्शितानि नयान्तराभिप्रायेणाऽत्राऽनुयोज्यानि बहुश्रुतैः । भावशौचानुपरोध्येव द्रव्यशौचं बाह्यमादेयमिति तु ग्रन्थकृतः योगसूत्रविवरणे (यो.सू. विवरण २ / ३२ ) ।
बहिःशौचस्थैर्यसिद्धिमुक्त्वाऽन्तः शौचसिद्धिमाह- 'तथे 'ति । प्रकृते अभक्ष्यपरिहारश्च संसर्गश्चाऽप्यनिन्दितैः । आचारे च व्यवस्थानं शौचमेतत् प्रकीर्तितम् ।। ← (भ.पु. १ ।२।१६०) इति भविष्यपुराणवचनं, सम-संतोसजलेणं जो धोवदि तिव्वलोहमलपुंजं । भोयणगिद्धिविहीणो तस्स सउच्चं हवे विमलं ।। ← (का.अनु.३९७) इति कार्त्तिकेयानुप्रेक्षावचनं, बाह्यशौचेन युक्तः सन् तथा चाभ्यन्तरं चरेत् ← (लिं.पु. ८/३२) इति लिङ्गपुराणवचनं, शौचमिन्द्रियनिग्रहः ← (मैत्रे.२/२,स्क. ११) इति मैत्रेय्युपनिषत्-स्कन्दोपनिषदोर्वचनं, स्वदेहमलनिर्मोक्षो मृज्जलाभ्यां महामुने ! यत् तत् शौचं भवेद् बाह्यं, मानसं मननं विदुः ।। ' अहं शुद्धं' इति ज्ञानं शौचमाहुर्मनीषिणः । ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः । स मूढः काञ्चनं त्यक्त्वा लोष्ठं गृह्णाति सुव्रत ! ।। ← ( जा. यो. १ । २२ ) इति च जाबालयोगवचनं यथागममनुयोज्यम् ।
प्रकृते → सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् ।। ← (ध. स्मृ. ५९ + चा. नी. ३ । ४२ + स्कं. पु. काशीखण्ड-६) इति धर्मस्मृति - चाणक्यराजनीति-स्कन्दपुराणથતો નથી. તેમ જ પ્રકાશરૂપ અને સુખસ્વરૂપ શુદ્ધસત્ત્વપ્રધાન મનની શુદ્ધિ થાય છે.' ‘શુદ્ધિ શબ્દનો અર્થ છે રજોગુણ અને તમોગુણ દ્વારા પરાભવ ન થવો. મતલબ કે શૌચ ભાવનાથી શુદ્ધ સત્ત્વગુણપ્રધાન ચિત્તનો રજોગુણ અને તમોગુણ દ્વારા પરાભવ નથી થતો. તેમ જ શૌચભાવનાથી ખેદનો અનુભવ ન થવાથી માનસિક પ્રીતિ-પ્રસન્નતા પ્રગટે છે. શૌચ ભાવનાથી નિયત વિષયમાં મનની સ્થિરતા પ્રગટે છે. તથા આંખ વગેરે ઈન્દ્રિયો રૂપાદિ વિષયોથી પરાર્મુખ થાય છે અને સ્વાત્મામાં રહે છે. આવો ઈન્દ્રિયવિજય પણ શૌચભાવનાનું એક ફળ છે. તેમ જ શૌચભાવનાના લીધે વિવેકખ્યાતિસ્વરૂપ આત્મદર્શનને વિશે સાધક સમર્થ બને છે, યોગ્ય બને છે. આ સાત ફળ શૌચભાવનાથી જ પ્રાપ્ત થાય છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘સુસત્ત્વની શુદ્ધિ, સૌમનસ્ય = માનસિક પ્રીતિ, એકાગ્રતા, ઈન્દ્રિયવિજય
-
=
१. मुद्रितप्रती '... पराङ्गुखानां' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org