Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• सन्तोषस्वरूप-फलादिविमर्शः •
१४८३ सन्तोषादुत्तमं सौख्यं स्वाध्यायादिष्टदर्शनम् । 'तपसोऽङ्गाऽक्षयोः सिद्धिः समाधिः प्रणिधानतः।।४।।
सन्तोषादिति। सन्तोषात् स्वभ्यस्तात् योगिन उत्तमम् = अतिशयितं सौख्यं भवति, यस्य बाह्येन्द्रियप्रभवं सुखं शतांशेनाऽपि न समं । तदाह- "सन्तोषादनुत्तमः सुखलाभः” (यो.सू.२-४२)। शास्त्रोक्तिरपि यथागमं योज्या शुचिभिः मनीषिभिः । सुसत्त्वशुद्ध्यादिलक्षणप्रकृतफलपञ्चके योगसूत्रसंवादमाह- 'सुसत्त्वशुद्धी'ति । अत्र भावागणेशवृत्तिरेवम् → चित्तमलक्षालनरूपात् शौचात् सत्त्वशुद्धिः = सत्त्वगुणोद्रेकः। ततः सौमनस्यं = स्वाभाविकी प्रीतिः । ततः प्रीतचित्तस्याऽविक्षेपादैकाग्र्यम् । तत इन्द्रियजयः। ततश्चात्मसाक्षात्कारयोग्यत्वमित्यर्थः - (यो.सू.२/४१ भावा.) इति । शौचफलं अध्यात्मतत्त्वालोकेऽपि → सुसत्त्वसिद्धिः सुमनस्कभाव एकाग्रभावो जय इन्द्रियाणाम् । आत्मस्वरूपेक्षणयोग्यता च फलान्यमूनि प्रतिपादितानि ।। - (अ.तत्त्वा. ३/९०) इत्थमावेदितम् ।।२२/३।।
अवशिष्टनियमफलोपदर्शनायाऽऽह- 'सन्तोषादिति । सन्तोषफले योगसूत्रसंवादमाह- ‘सन्तोषादिति। अत्र मणिप्रभावृत्तिरेवम् “तृष्णाक्षयसिद्धौ अवश्यं निष्कामस्य निरतिशयसुखाऽनुभवो भवति, शुद्धसत्त्वोत्कर्षात् । तथा च महाभारते ययातिगीतायां च → यच्च कामसुखं लोके यच्च दिव्यं महासुखम् । तृष्णाक्षयसुखस्यैते नाऽर्हतः षोडशी कलाम् ।। (म.भा.शांति.मोक्षधर्म-१७६/५१ + य.गी.) 6 इति" (यो.सू.२/४२ म.प्र.)। तदुक्तं विष्णुपुराणेऽपि → या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यताम् । तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाऽभिपूर्यते ।। 6 (वि.पु.४/१०/१२) इति । प्रकृते → सदा सन्तुष्टमनसः सर्वाः सुखमया दिशः - (भा.८।१४।८) इति भागवतवचनं, → सन्तोषमूलं हि सुखम् - (मनु.४ ।१२) इति मनुस्मृतिवचनं, → अमराः किङ्करायन्ते सन्तोषो यस्य भूषणम् + (यो.शा.२ ११५) इति योगशास्त्रवचनं, → सन्तोषो निजमनसि चेत् ? सौख्यमतुलम् - (मनो. ८७) इति मनोदूतवचनं, → सन्तोषाद् ब्रह्मतेजो विवर्धते - (प.पु. ५।१९।२४८) इति पद्मपुराणवचनं, → अन्तस्सन्तोषचित्तानां सम्पदस्ति पदे पदे - (नरा.७५) इति नराभरणवचनं, → सन्तोषामृतसागराम्भसि मनाङ्मग्नः सुखं जीवति ( (प्र.चं. ४/२३) इति प्रबोधचन्द्रोदयवचनं, → सन्तोष एव पुरुषस्य परं निधानम् 6 અને આત્મદર્શનની યોગ્યતા પણ શૌચભાવનાથી પ્રગટે છે.”(૨૨/૩)
વિશેષાર્થ :- મળ-મૂત્ર-હાડકા-માંસ-ચરબી વગેરેથી ભરેલી પોતાની કાયામાં જેની મમતા ખતમ થાય તેને તેવા જ ગંદા-અપવિત્ર વિજાતીય વગેરેના દેહમાં પણ જુગુપ્સા થાય છે. તેથી સ્ત્રી વગેરેના શરીરનો ભોગવટો આપમેળે છૂટી જાય છે. બાકીની વિગત ટીકાર્યમાં સ્પષ્ટ છે. (૨૨/૩)
- संतोषाहि नियमोनू ॥ ગાથાર્થ :- સંતોષથી ઉત્તમ સુખ મળે છે. સ્વાધ્યાયથી ઈષ્ટ દર્શન થાય છે. તપથી કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે. ઈશ્વરના પ્રણિધાનથી સમાધિ થાય છે. (૨૨/૪)
ટીકાર્થ :- સુંદર રીતે અભ્યસ્ત કરેલા સંતોષ નામના નિયમથી યોગીને અતિશય ચઢિયાતું સુખ પ્રાપ્ત થાય છે કે જેના સોમા ભાગે પણ બાહ્ય ઈન્દ્રિયજન્ય સુખ તુલના પામી શકતું નથી. અર્થાત્ બાહ્ય ઈન્દ્રિયથી મળતા સુખ કરતાં સંતોષજન્ય સુખ સેંકડો ગણું ચઢિયાતું છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “સંતોષથી શ્રેષ્ઠ સુખનો લાભ થાય છે.” સુંદર રીતે અભ્યસ્ત થયેલા સ્વાધ્યાયથી = १. हस्तादर्श 'तपःसौगा' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334