Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 259
________________ • स्वाध्याय - तपः फलप्रदर्शनम् द्वात्रिंशिका -२२/४ स्वाध्यायात् स्वभ्यस्तात् इष्टदर्शनं = जप्यमानमन्त्राभिप्रेतदेवतादर्शनं भवति । तदाह- "स्वाध्यायादिष्टदेवतासंप्रयोगः” (यो.सू.२-४४) । तपसः स्वभ्यस्तात् क्लेशाद्यशुद्धि'क्षयद्वारा अङ्गाऽक्षयोः - कायेन्द्रिययोः सिद्धिः, यथेच्छ मणुत्वमहत्त्वादिप्राप्ति'-सूक्ष्मव्यवहितविप्रकृष्टदर्शनसामर्थ्यलक्षणोत्कर्षः स्यात्। यथोक्तं- “कायेन्द्रियसिद्धिरशुद्धि क्षयात्तपसः” (यो.सू.२-४३)। = सर्वाः सम्पत्तयः तस्य सन्तुष्टं यस्य मानसम् ← (हितो. (पं.तं. २।१५९) इति पञ्चतन्त्रवचनं १/४७) इति हितोपदेशवचनं च यथासमयमनुयोज्यम् । १४८४ • महाभारते पद्मपुराणे हिङ्गुलप्रकरणे च कार्य-कारणयोरभेदोपचारात् सन्तोषः परमं सुखम् ← (म.भा. वनपर्व. २/४६, प. पु. ५।१९।२६१, हिं. प्र. १ । २४ ) इत्येवमुक्तमित्यवधेयम् । उपलक्षणादभयलाभोऽप्यत्राऽवसेयः, → असंतुट्ठाणं इह परत्थ य भयं ति ← ( आ.चू. १।२।२) इति आचाराङ्गचूर्णिवचनतात्पर्यमत्र भावनीयम् । तथा सन्तोषादेव तथाविधपापाऽकरणमप्यत्र द्रष्टव्यम्, संतोसिणो ण पकरेंति पावं ← (सू.कृ. १ । १२ ।१५ ) इति सूत्रकृताङ्गवचनप्रामाण्यात् । तादृशसन्तोषलाभोपायस्तु → मुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गलाः । उच्छिष्टेष्विव तेष्वद्य मम विज्ञस्य का स्पृहा ? ।। ← (इष्टो.१/३०) इति इष्टोपदेशप्रभृतिवचनतात्पर्यपरिणमनमेव परमार्थतः । स्वाध्यायफलोपदर्शने योगसूत्रसंवादमाह - 'स्वाध्यायादि 'ति । अत्र राजमार्तण्डवृत्तिरेवम् → अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिनः इष्टया = अभिप्रेतया देवतया सम्प्रयोगो भवति । सा देवता प्रत्यक्षीभवतीत्यर्थः ← (यो.सू.२ / ४४ ) इति । अभिमतमन्त्रजपादभिमतदेवतायाः सम्भाषणादिकं सिध्यतीत्यर्थः (यो. सुधा. २ / ४४ ) इति योगसुधाकरे सदाशिवेन्द्रः । देवा ऋषयः सिद्धाश्च स्वाध्यायशीलस्य दर्शनं गच्छन्ति कार्ये चास्य वर्तन्ते इति (यो.सू.भा. २/४४ ) योगसूत्रभाष्ये व्यासः । इदञ्च बाह्यं फलम् । आन्तरं तु तत्फलं कर्मनिर्जरादिकमवगन्तव्यम् । तदुक्तं चन्द्रकवेध्यकप्रकीर्णके → बहुभवे संचियं पि हु सज्झाएणं खणे खवइ ← ( चंद्र प्र. ९१ ) इति । उत्तराध्ययने अपि सज्झाएणं नाणावरणिज्जं कम्मं खवेइ ← (उत्त. २९/२० ) इत्युक्तम् । प्रकृते → जाप्येन अमृतत्वं च गच्छति ← (च.वे.३/४) इति चतुर्वेदोपनिषद्वचनमपि भावनीयम् । एवमग्रेऽपि यथागमम् । तपःफलोपदर्शने योगसूत्रसंवादमाह - 'काये 'ति । अस्य राजमार्तण्डवृत्तिरेवम् → तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाऽशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिं उत्कर्षं आदधाति । अयमर्थ:चान्द्रायणादिना चित्तक्लेशक्षयः, तत्क्षयादिन्द्रियाणां सूक्ष्म-व्यवहित- विप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति । મંત્રજપથી મંત્રવિષયભૂત ઈષ્ટ દેવનું દર્શન થાય છે. તેથી પતંજલિ મહર્ષિએ યોગસૂત્રમાં જણાવેલ છે કે ‘સ્વાધ્યાયથી ઈષ્ટદેવનો સંયોગ થાય છે.' તથા સુંદર રીતે અભ્યસ્ત કરેલા તપથી ક્લેશાદિ અશુદ્ધિનો ક્ષય થવા દ્વારા કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે. મતલબ કે ઈચ્છા મુજબ અણુત્વ-મહત્ત્વ વગેરેની પ્રાપ્તિ થવા સ્વરૂપ કાયયોગસિદ્ધિ થાય છે. તથા સૂક્ષ્મ પદાર્થ, ભીંત વગેરેથી વ્યવહિત પદાર્થ અને અતિદૂરવર્તી પદાર્થના દર્શનાદિ કરવાનું સામર્થ્ય પ્રાપ્ત થવા સ્વરૂપ ઈન્દ્રિયસિદ્ધિ થાય છે. જેમ કે યોગસૂત્રમાં કહેલ છે કે ‘તપના કારણે અશુદ્ધિનો ક્ષય થવાથી કાયા અને ઈન્દ્રિયની સિદ્ધિ થાય છે.' १.हस्तादर्श- मुद्रितप्रत्यादौ ' ..शुचि ..' इति पाठः । परं योगसूत्रानुसारेण ' ..शुद्धि..' इति पाठः सम्यक् । २. मुद्रितप्रतौ 'यथेत्थिमि'त्यशुद्धः पाठः । हस्तादर्शे च 'यषेच्छ' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'प्राप्ति' पदं नास्ति । ४. मुद्रितप्रतौ 'रशुचिक्ष..' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org =

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334