Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१४८०
• नानातन्त्रेषु नियमप्रकारवैविध्यम् • , द्वात्रिंशिका-२२/३ शौचभावनया स्वागजुगुप्साऽन्यैरसङ्गमः । सत्त्वशुद्धिः सौमनस्यैकाग्र्याऽक्षजययोग्यता ।।३।।
शौचेति । शौचस्य भावनया (=शौचभावनया) स्वाङ्गस्य = स्वकायस्य कारणरूपपर्यालोचनद्वारेण जुगुप्सा = घृणा (=स्वाङ्गजुगुप्सा) भवति “अशुचिरयं कायो' नाऽत्राऽऽग्रहः कर्तव्यः” इति। तथा च अन्यैः कायवद्भिः असङ्गमः = तत्सम्पर्कपरिवर्जनमित्यर्थः। यः किल रेस्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात्, स कथं परकीयैस्तथाभूतैः कायैः संसर्गमनुभवति? तदुक्तं- “शौचा
( ) इति परमगुरौ सर्वपुण्यकर्मार्पणमीश्वरप्रणिधानमित्यर्थः + (मणि.२/३२) इति ।।
वेदान्ततन्त्रावस्थितः तारायां दृष्टौ वर्तमानो योगी तु → सजातीयप्रवाहश्च विजातीयतिरस्कृतिः । नियमो हि परानन्दो नियमात् क्रियते बुधैः ।। (ते.बि.१।३८, अपरो.१०५) इति अपरोक्षानुभूतितेजोबिन्दूपनिषदुक्तनियममाऽऽसेवते, यद्वा → तपः सन्तुष्टिरास्तिक्यं दानमाराधनं हरेः । वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।। 6 (त्रि.ब्रा.३३-३४) इति त्रिशिखिब्राह्मणोपनिषदुक्तान् दश नियमानासेवत इत्यादिकं यथातन्त्रमिहानुयोज्यमवहितमानसैः । यच्च त्रिशिखिब्राह्मणोनिषदि → अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः 6 (त्रि.ना.२९) इत्येवं नियमलक्षणमुक्तं, यच्चाऽपि निर्वाणोपनिषदि → नियमः = स्वान्तरिन्द्रियनिग्रहः - (निर्वा.९) इत्युक्तं तदपि यथातन्त्रमिहाऽनुयोज्यम् । मण्डलतन्त्रब्राह्मणोपनिषदि तु → गुरुभक्तिः, सत्यमार्गाऽनुरक्तिः, सुखाऽऽगतवस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिः, निःसङ्गता, एकान्तवासो, मनोनिवृत्तिः, फलानभिलाषो, वैराग्यभावश्च नियमाः - (म.तं.बा.१।३) इत्येवं नियमप्रकाराः प्रदर्शिताः । शाण्डिल्योपनिषदि तु → तपःसन्तोषाऽऽस्तिक्यदानेश्वरपूजन-सिद्धान्तश्रवण-ही-मति-जपोव्रतानि दश नियमाः - (शां.१/२) इत्येवं, शङ्खस्मृतौ लिखितस्मृतौ च → अक्रोधं, आर्जवं, शौचं, व्यवहारो गुरुशुश्रूषा चेति नियमाः पञ्च (शं.स्मृ.यतिधर्म.७६८, लि.स्मृ.यति.७६८) नियमभेदाः प्रोक्ताः । पूर्वं वादद्वात्रिंशिकायां (पृ.५५५) ये विविधा नियमप्रकारा उक्तास्त इहानुसन्धेयाः ।।२२/२।।
नियमफलमावेदयति- 'शौचे'ति । स्वमेव = स्वकीयमेव । शौचफलोपदर्शने योगसूत्रसंवादमुपदर्शयति'शौचादिति । अत्र योगसुधाकरवृत्तिरेवम् → शौचमाचरतो योगिनः स्वाङ्गे शुद्धिमपश्यतो जुगुप्सा भवति । अशुचिस्वभावोऽयं कायः । अतस्तस्मिन्नवभिः छिट्टैर्निरन्तरं स्रवत्सु मलेषु रोमकूपैरसङ्ख्यातैः
હ શૌચ નિયમના સાત ફળ હો थार्थ :- शौय भावनाथी (१) पोतानी आयाम गुप्सा थाय छे. (२) बी पारीमो 3 संग छूटे छ. (3) सत्वनी शुद्धि थाय छे. (४) भानसि प्रीति, (५) भननी माता, (६) छन्द्रियनो विय तथा (७) मात्मशननी योग्यता प्रगटे छे. (२२/3)
ટીકાર્થ:- શૌચ નિયમની ભાવનાથી પોતાના શરીરના કારણોના સ્વરૂપની વિચારણા કરવા દ્વારા જુગુપ્સા થાય છે. અર્થાત્ “આ કાયા અપવિત્ર છે. આમાં આગ્રહ-મમતા કરવા લાયક નથી.” આવી બુદ્ધિ સ્વરૂપ ધૃણા થાય છે. તથા દેહધારી બીજા જીવોના સંપર્કનો- સંગમનો-સમાગમનો ત્યાગ થાય છે. કારણ કે જે ખરેખર પોતાના જ દેહમાં પણ તે તે અશુચિ વગેરે દોષો જોવાથી જુગુપ્સા કરે તે કઈ રીતે અપવિત્ર-અશુચિ એવા પરકીય શરીર સાથે સમાગમને અનુભવી શકે ? તેથી તો યોગસૂત્ર १. हस्तादर्श 'कालो' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'स्वयमेव' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334