Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• चरमयथाप्रवृत्तकरणव्यवस्थोपदर्शनम्
१४६१
यथाप्रवृत्तकरणे चरमे चेदृशी स्थितिः । तत्त्वतोऽपूर्वमेवेदमपूर्वाऽऽसत्तितो विदुः ।। २३ ।। यथेति । यथाप्रवृत्तिकरणे चरमे पर्यन्तवर्तिनि च ईदृशी = योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका स्थितिः = स्वभावव्यवस्था | अपूर्वस्य = अपूर्वकरणस्य आसत्तितः तदुपदेशसमवस्थितं वा गुरुं निवेद्य शरणागतरुग्णत्वेनाऽऽत्मानं, तद्वचनेन प्रतिपन्नः सर्वदुःखनिवारक्षमां जिननमस्कार तपआदिकां सत्क्रियां, बाह्यवेदनया बाध्यमानोऽपि महामोहव्याधिना मुच्यमानः, स्वान्तःसमुपलब्धाऽनुकम्पा-पापभीरुतादिसमुपजनितस्वास्थ्यसुखो बाह्यदुःखमगणयन् सङ्क्लेशव्याधिना अविमुक्तोऽपि कुशलवैद्यवचनानुपालनेन सञ्जाततद्विमोक्षनिश्चयमतिः दार्त्स्न्येन भुवनगुरुप्रभृतिगोचरकुशलचित्तादिलक्षणयोगबीजान्युपादत्ते मित्रायां दृष्टौ वर्तमानो योगी । ततश्च गुणविकासलक्षणेष्टार्थसिद्धिरपि स्वभूमिकाऽनुसारेण ध्रुवैवाऽवगन्तव्येत्यभिप्रायः ।। २१/२२ ।।
एतदनन्तरोदितमखिलमेव यदोपजायते तदभिधातुमाह- 'यथे 'ति । यथाप्रवृत्तकरणे पूर्वं ( द्वा. द्वा.१५/७ भाग-४ पृ.१०१५) व्यावर्णितस्वरूपे पर्यन्तवर्तिनि चरमावर्त्तकालीने योगबीजोपादाननिमित्ताऽल्पकर्मत्वनियामिका जिनगोचरकुशलचित्तादिलक्षणसंशुद्धाऽमोघयोगबीजपरिणमनाऽन्तरङ्गहेतुभूतस्वल्पसहजभावमलत्व-तथाभव्यत्वपरिपाकादिव्यवस्थापिका स्वभावव्यवस्था = शास्त्रादिसिद्धाऽऽत्मस्वभावमर्यादा । एतेनोत्कृष्टग्रन्थिदेशस्थितिकाऽभव्ये चरमयथाप्रवृत्तकरणापत्तिः निरस्ता । न ह्यभव्यस्य चरमावर्तकाल - स्वल्पसहजमलत्वतथाभव्यत्वपरिपाकादयः सम्भवन्ति । अत एवोक्तं योगदृष्टिसमुच्चये यथाप्रवृत्तकरणे चरमेऽल्पमलत्वतः । आसन्नग्रन्थिभेदस्य समस्तं जायते ह्यदः ।। ← (यो. दृ.स. ३८) इति ।
यद्यपि आवश्यक निर्युक्तिवृत्तौ श्रीहरिभद्रसूरिभिः यथैव प्रवृत्तं
=
यथाप्रवृत्तं तच्चाऽनादि ← ( आ.नि. १०६ वृ.) इति व्याख्यातं, विशेषावश्यकभाष्यवृत्तौ च श्रीहेमचन्द्रसूरिभिः अनादिकालात् कर्मक्षपणप्रवृत्तोऽध्यवसायविशेषः यथाप्रवृत्तकरणम् ← (वि. आ. भा. १२०२ वृत्ति) इति व्याख्यातमिति यथाप्रवृत्तकरणमनादिकालप्रवृत्तमेव नैगमनयानुसारेणेति तन्मते चरमाऽचरमयथाप्रवृत्तकरणाभ्युपगमो नैव सम्भवति । एतेन जीवस्य अनादिमता यथाप्रवृत्तसंज्ञेन करणेन कथिञ्चद् घर्षणघूर्णनन्यायेन... ← ( उप. भ. प्र.भाग - १ प्रस्ताव - १ / पीठबन्ध - पृ. ४४ ) इत्यादि उपमितिभवप्रपञ्चायाः कथाया वचनमपि व्याख्यातम् । न च सप्ततिकोटाकोटीसागरोपमस्थितिककर्मबन्धकालेऽनादिकालादारब्धमपि यथाप्रवृत्तकरणं न सम्भवतीति विच्छिद्य विच्छिद्य यथाप्रवृत्तकरणप्रवृत्तिः स्वीकार्येति वाच्यम्, प्रकृष्टबन्धकालेऽपि कर्मनिर्जराया जायमानत्वेन कारणविधया तादृशाध्यवसायलक्षणयथाप्रवृत्तकरणसिद्धेः, एकस्याऽप्यध्यवसायस्य जिननामादिपुण्यप्रकृति- केवलज्ञानावरणादिध्रुवबन्धिपापकर्मप्रकृतिबन्धकत्ववत् उत्कृष्टबन्ध - स्वल्पनिर्जराजनकत्वे बाधकाऽभावात् । एतेन अनादिकालादारभ्य यावद् ग्रन्थिस्थानं तावत् प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदैव भावात् ← (वि. आ.भा. १२०३ ) इति विशेषावश्यकभाष्य* ચરમયથાપ્રવૃત્તરણ અપૂર્વ જ છે
ગાથાર્થ :- ચરમ યથાપ્રવૃત્તકરણમાં જીવની આવી સ્થિતિ હોય. અપૂર્વકરણની નજીક હોવાના કારણે પરમાર્થથી આ ચરમ યથાપ્રવૃત્તકરણ અપૂર્વ જ છે- એમ યોગવેત્તાઓ જાણે છે.(૨૧/૨૩) ટીકાર્થ ઃ- છેલ્લા યથાપ્રવૃત્તકરણમાં સંશુદ્ધ યોગબીજનું ગ્રહણ કરવામાં નિમિત્ત બને તેવા હળુકર્મીપણાની નિયામક એવી સ્વભાવની વ્યવસ્થા હોય છે. અપૂર્વકરણની નજીક હોવાથી ગ્રંથિભેદસ્વરૂપ ફળમાં કોઈ વિસંવાદ થવાની શક્યતા રહેતી નથી. માટે પરમાર્થથી ચરમ યથાપ્રવૃત્તિકરણ અપૂર્વ જ છે. – એમ યોગના જાણકારો માને
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=
=
•
=
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334