Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• पापामित्रत्यागोपदेशः •
१४६७ निभः गुणाऽऽभासस्तु 'मुक्तिर्मे भूयादतोऽनुष्ठानादिति प्रणिधानेन हिमपथभृगुपात-काशीशस्त्रपाटन-गृध्रपृष्ठाऽर्पणादिलक्षणः कश्चन स्यादपि । अकल्याणमित्रादियोगतः कदाचिदेतदृष्टिप्रतिपातोऽपि स्यात् । तदयोगे त्वहिंसाद्यासेवनादिद्वारा जिनगोचरकुशलचित्तादियोगबीजसहायेन तारादिदृष्टिलाभोऽपि स्यात् । भवितव्यतादेरेवाऽत्र प्राधान्येन नियामकत्वं तथापि पापमित्रयोगस्तु त्याज्य एव स्वयत्नत इति ध्येयम् ।
प्रकृते → अलं बालस्स संगेण (आचा.१/२/५) इति आचाराङ्गसूत्रवचनं, → वरं अरण्णवासो य मा कुमित्ताण संगमो - (सं.स.४३) इति सम्बोधसप्ततिकावचनं, → असदाचारैरसंसर्गः - (ध.बि.१/ २९) इति धर्मबिन्दुवचनं, → मूढ-नास्तिकलोकानां सङ्गः त्याज्यो विवेकतः - (अध्या.गी.६०) इति अध्यात्मगीतावचनं, → दुर्बलो हतमर्यादो न सेव्यः - (वा.रा.युद्धकाण्ड-८३/२६) इति वाल्मीकिरामायणवचनं, → नाऽनार्येण सहाऽऽवसेत् - (महो.४/२२) इति महोपनिषद्वचनं,→ हीयते हि मतिः तात! हीनस्सह समागमात् + (क.कू.७) इति कवितामृतकूपवचनं, → बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् ( (म.भा.उद्योगपर्व-३६/१६) इति महाभारतवचनं,→ उलूकयातुं शुशुलुकयातुं जहि श्वयातुमुत कोकयातुम् । सुवर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ।। 6 (अ.वे.८/४/२२) इति अथर्ववेदवचनं, → न दुर्जनैस्सह सङ्गः कर्तव्यः - (चा.सू.२१५) इति चाणक्यसूत्रं, → दुर्जनः परिहर्तव्यो विद्ययाऽलङ्कृतोऽपि सन् + (नी.श.४२) इति नीतिशतकवचनं, → अनिष्टोद्भावनरसोत्तरं हि भवति खलहृदयम् - (वा.द.पृ. ८२) इति वासवदत्तावचनं, → प्रणयेनोग्रतामेति काठिन्यं याति सेवया । न च कश्चिदुपायोऽस्ति गृह्यते येन दुर्जनः ।। (रा.मं.युद्धकाण्ड-२१२) इति रामायणमञ्जरीवचनं, → दुर्जनेन समं वैरं प्रीतिं चाऽपि न कारयेत् । उष्णो दहति चाऽङ्गारः शीतः कृष्णायते करम् ।। 6 (क.कू.८४, हितो.१/३२) इति कवितामृतकूप-हितोपदेशयोः वचनं, → धर्ममार्गात् परिभ्रष्टा जायन्ते नीचसङ्गतेः - (म.गी.५/६०) इति महावीरगीतावचनं, → को हि वक्रं ऋजुं कर्तुं शक्नुयादिह धीधनः 6 (नी.क.त.७३/५) इति नीतिकल्पतरुवचनं, → खलः कुर्यात् खलम् ( (क्षे.चू.लम्ब-२/४९) इति क्षत्रचूडामणिवचनं, → निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः। चिरं जलनिधौ मग्नो मैनाक इव मार्दवम् ।। 6 (भा.वि.१/८५) इति भामिनीविलासवचनं, → लब्धोदयः खलजनः प्रथमं स्वजने करोति सन्तापम् । उद्गच्छन् दवदहनो जन्मभुवं दारु निर्दहति ।। (नी.द्वि.१०७) इति नीतिद्विषष्टिकावचनं, → मृद्घट इव सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति + (प्रसं.पृ.२९) इति प्रसङ्गाहरणवचनं, → विवेकः परमो दीपो जायते साधुसङ्गमात् - (यो.वा.मुमुक्षु.१६/६) इति योगवाशिष्ठवचनञ्चाऽनुस्मृत्य सर्वतन्त्राऽवस्थितो मित्रायां वर्तमानः सानुकूलनियतिसम्पन्नो योगी सर्वप्रयत्नेनाऽकल्याणमित्रयोगं परिहरति । ___पापे प्रवर्तकः ततोऽनिवर्तको वाऽकल्याणमित्रतामापद्यते । तदुक्तं अभिषेकनाटके → मज्जमानमकार्येषु पुरुषं विषयेषु वै । निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ।। - (अ.ना.६/२२) sts गुमास प्रवत छ. (२१/२८)
વિશેષાર્થ :- મિત્રાદેષ્ટિમાં રહેલા જીવનો કદાગ્રહ ઘટતો જતો હોય છે. તેમ છતાં કદાગ્રહ સંપૂર્ણપણે રવાના થયેલ નથી હોતો. કારણ કે તે મિથ્યાત્વગુણઠાણે રહેલો છે. આંશિક કદાગ્રહ હોવાથી જો પાપમિત્ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334