Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 226
________________ • ज्ञानयोगबीजप्रज्ञापना १४५३ दानं पुस्तकादेः । श्रवणं व्याख्यानस्य । मुक्तिमार्गदिग्दर्शकत्वात्, भावश्रुतकारणतया द्रव्यश्रुतत्वाच्च । स्वतः परैश्च विधिपूर्वं तल्लेखनादिना तद्गोचरबहुमानप्रकर्षाऽभिव्यक्तेस्सच्छास्त्रलेखनादीनां न्याय्यतैव । सत्पुस्तकलेखनप्रयोजन-फलादिकञ्च पञ्चलिङ्गिप्रकरणे श्रीजिनेश्वरसूरिभिः अन्नेसिं पवत्तीए निबन्धणं होइ विहिसमारंभो । सो सुत्ताओ नज्जइ, तं चिय लहेमि ता पढमं । । जिणवयणाऽमयसुइसंगमेण उवलद्धवत्थुसब्भावं । कुस्सुइनियत्तभावा भयंति जिणधम्ममेगे उ 11 जिणवयणं साहंती उ साहू जं ते वि साहणसमत्था । वायरण - छंद- नाडय - कव्वालंकारनिम्माया ।। छद्दरिसणतक्कविआ कुतित्थिसिद्धंतं जाणया धणियं । ता ताण कारणे सव्वमेव इह होइ लेहणीयं । । ← (पं.लि. ६१-६४ ) इत्येवमुक्तं तद्यथासम्भवमत्र योजनीयम् । यद्वा सत्पुस्तकेषु = सुन्दरपत्र- बन्धनादिपरिकलितपुस्तकेषूत्तममस्यादिना पवित्रशास्त्राणां स्वतः परतश्च यथाशक्ति लेखना योगबीजमित्यत्राऽऽवर्तते । सुसाध्वादिभ्यः पठन-पाठनादिकृते दानं = वितरणं पुस्तकादेः सच्छास्त्रप्रतिपादकस्य इत्यपि योगबीजमित्यावर्तते । प्रकृते → धर्मग्रन्थप्रचारश्च कर्तव्यः शक्तितः सदा । ज्ञानागाराणि कार्याणि नानाशास्त्रान्वितानि वै ।। ग्रन्था मुद्रापितव्या हि तत्त्वज्ञानप्रचारकाः । प्राचीनजीर्णशास्त्राणामुद्धारो मोक्षहेतवे ।। ← (जै.गी. २४९,२५२) इति जैनगीताया श्रीबुद्धिसागरसूरिवचनमप्यत्र योज्यमागमाऽनुसारेण । यदपि संन्यासगीतायां स्थापनं पाठशालानां महाविद्यालयस्य च । दुर्लभप्राक्तनाऽनर्घ्यपुस्तकानां प्रकाशनम् ।। तथा विरचनं नव्यग्रन्थानामुपयोगिनाम् । दानञ्च पुस्तकादीनां विद्यार्थिभ्योऽथ पाठनम् ।। ← (सं.गी.३/१९-२० ) इति ब्रह्मदानस्वरूपमावेदितं तदपीहाऽऽगमानुसारेण योज्यम् । तस्य एतेन → लिखित्वा पुस्तकं दत्वा भुक्ति-मुक्तिमवाप्नुयात् ← ( अ.पु. २११/५४) इति अग्निपुराणवचनमपि व्याख्यातम् । प्रकृते यः पठति लिखति सुकृतिं परिपृच्छति पण्डितानुपासयति दिवाकरकिरणैर्नलिनीव विबोध्यते बुद्धिः ।। ← ( नी.द्वि. २२५) इति नीतिद्विषष्टिकावचनमपि यथागममनुयोज्यम् । तन्त्रान्तरीयो मित्रायामवस्थितो योगी प्रकृतसंन्यासगीताऽग्निपुराणादिवचनान्यनुसृत्य सिद्धान्तलेखनादौ प्रवर्तते । जैनतन्त्रस्थितो हि मित्रायामवस्थितो योगी तु सिवसुहफलकप्पतरुं जहट्टियाऽसेसणेयपडिबद्धं । णाणान ओहगहणं जिणवयणं तिहुयणपसिद्धं ।। एयस्स एगदेसोऽवि भावओ भव्वजणपरिग्गहिओ । अत्थोऽविऽवितहणातो दुक्खक्खयकारणं होइ ।। तम्हा रोएतव्वं भावेयव्वं पगासियव्वं य | अव्वक्खित्तेणेदं दुक्खक्खयमिच्छमाणेणं 11 ← (धर्म.सं.१६-१८) इति धर्मसङ्ग्रहण्यादिवचनतः सिद्धान्तलेखनादौ प्रवर्तत इत्यादिकं नानातन्त्रानुसारेणाऽनुयोज्यम् । एवमग्रेऽपि स्वयमवगन्तव्यम् । गुरोस्सकाशे श्रवणं व्याख्यानस्य = शास्त्रोपदेशबोध-सिद्धान्तबोधान्यतरप्रज्ञापनस्य । गुरुविरहे ભણનાર વગેરેને પુસ્તકો વગેરે આપવા. (૪) શાસ્રવ્યાખ્યાનને સુગુરુ પાસે સાંભળવું. (૫) જાતે જ પવિત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334