Book Title: Dwatrinshada Dwatrinshika Prakran Part 5
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 199
________________ १४२६ • अपुनर्बन्धके समयदीक्षाप्रतिपादनम् • द्वात्रिंशिका-२१/३ पूर्वोक्त(पृ.९३,३८४,१४२५)वचनाद् द्रव्यसम्यक्त्वप्रतिपत्तिपूर्वं निवृत्ताऽसद्ग्रहतया तथास्वाभाव्यात् (द्वा.द्वा २१/७ भाग-५, पृ.१४३५) प्रवचनोक्तजीवादितत्त्वाऽधिगमे शक्तिमनिगुह्य निर्दम्भं तत्पालने च सुप्रत्याख्यानरूपेणाऽपि परिणमति एव । तदुक्तं व्याख्याप्रज्ञप्तौ → जस्स णं 'सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ-'इमे जीवा इमे अजीवा इमे तसा इमे थावरा', तस्स णं 'सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति । - (व्या.प्र.७।२।२७०) इति । न च चारित्रमोहनीयक्षयोपशमाभावान्न तेषां सुप्रत्याख्यानत्वमिति शङ्कनीयम्, विशुद्धब्रह्मचर्यपालनादिना तस्य तत्राऽनुमेयत्वात्, अन्यथा → जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं आवसेज्जा । जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं नो आवसेज्जा - (भग.९/४/३६५) इति व्याख्याप्रज्ञप्तिवचनाऽनुपपत्तेः । व्याख्याप्रज्ञप्तिवृत्तिकृता 'वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि' (व्या.प्र. ९/४/३६५ वृ.) इत्येवं व्याख्यातम् । युक्तञ्चैतत् । न हि चारित्रावरणक्षयोपशमविरहे चारित्रपरिणामः प्रादुर्भवति । न वा चारित्रपरिणामविरहे ब्रह्मचारित्वं सम्भवति व्यवह्रियते वा । अन्यथा ग्रैवेयकानुत्तरोपपातिकदेवानामपि ब्रह्मचारित्वं प्रसज्येत । न चैतदिष्टम् । तदुक्तं प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरिभिः ग्रैवेयकादिदेवानुद्दिश्य → यद्येवं कथं न ते ब्रह्मचारिणः ? उच्यते, चारित्रपरिणामाऽभावात् + (प्रज्ञा. ३४/सू.३२३/पृ.५४९) इति । श्रीसिद्धसेनसूरिभिरपि तत्त्वज्ञानविकाशिन्यां प्रवचनसारोद्धारवृत्तौ ग्रैवेयकादिदेवानुद्दिश्य → ते च तथाभवस्वभावत्वेन चारित्रपरिणामाभावान्न ब्रह्मचारिणः - (प्र.सारो.१४४० वृ.)। मिथ्यादृग्वतस्य सर्वथैव दुष्प्रत्याख्यानत्वे त्वपुनर्बन्धकादिभ्यो व्रतवितरणं गीतार्थानामन्याय्यमेव स्यादिति दिक् । ___ इत्थं परोपतापराहित्येन, निषिद्धकर्मविरहेण, भोगाऽऽकाङ्क्षादितो निजाऽऽशयाऽदूषणेन, यथाशक्ति कुशलानुष्ठानपरायणतया, गीतार्थगुरुपारतन्त्र्येण चाऽपुनर्बन्धकस्यापि दीक्षाधिकारित्वमुपपद्यते एव । ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.६१-६३) हरिभद्रसूरिभिः या समयदीक्षा दर्शिता सेहाऽनाविलैव तात्त्विकी। मिथ्यात्वदशायामपि प्रव्रज्याऽनङ्गीकारे, प्रकृतिभद्रकत्वाद्यभ्यासानुभावतः सत्पराक्रमेण सुपात्रदान-निर्निदानतपःस्वदारसन्तोषलक्षणशीलादिव्रतग्रहणे सुव्रतित्वमपि सुमनुजत्वादिनिबन्धनं सम्भवत्येव, → वेमायाहि सिक्खाहिं जे नरा गिहिसुव्वया। उवेंति माणुसं जोणिं कम्मसच्चा हु पाणिणो ।। 6 (उत्त. ७/२०) इति उत्तराध्ययनसूत्रतात्पर्योनयनात्। न हि सति सम्यक्त्वे मनुष्यस्य मनुजायुर्बन्धसम्भवः । न च मित्रायां योगिस्मृतेरल्पवीर्यतया (द्वा.२०/२६, भाग-५ पृ.१३८३) न सुप्रत्याख्यानादिसम्भव इति वाच्यम्, बलादिदृष्टिमपेक्ष्याऽल्पवीर्यत्वेऽपि स्वभूमिकोचितगृहीतप्रत्याख्यान-व्रतादिपालनसामर्थ्यस्येहाऽप्रच्यवात्, अन्यथा 'अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः' (यो.सू. २/३५-द्वा.द्वा.२१-६ भाग-५ पृ.१४३२) इत्यादिवक्ष्यमाणयमसिद्धिफलस्येहाऽनुपपत्तिप्रसङ्गात् । ___ यद्यपि 'धर्माधर्मक्षयकरी दीक्षेयं पारमेश्वरी' (ब.सि.३५०) इति ब्रह्मसिद्धान्तसमुच्चयवचनतः 'नासंयतः प्रव्रजति, भव्यजीवो न सिध्यति' निश्चयनयाऽभिप्रायतश्च पारमार्थिकभावसंवराऽभावात् सर्वाराधकत्वाभावाच्च मित्रायां न नैश्चयिकसुप्रत्याख्यानादिसम्भवः तथापि भगवतीसूत्रोक्त(भ.सू.८/१०/४५०)देशाऽऽराधकत्व-दीक्षायोग्यता-कर्मनिर्जराविशेषाद्यपेक्षयेहाऽवस्थितस्याऽसङ्क्लिष्टस्य योगिनोऽपुनर्बन्धकत्वेन पूर्वो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334