________________
१४२६
• अपुनर्बन्धके समयदीक्षाप्रतिपादनम् • द्वात्रिंशिका-२१/३ पूर्वोक्त(पृ.९३,३८४,१४२५)वचनाद् द्रव्यसम्यक्त्वप्रतिपत्तिपूर्वं निवृत्ताऽसद्ग्रहतया तथास्वाभाव्यात् (द्वा.द्वा २१/७ भाग-५, पृ.१४३५) प्रवचनोक्तजीवादितत्त्वाऽधिगमे शक्तिमनिगुह्य निर्दम्भं तत्पालने च सुप्रत्याख्यानरूपेणाऽपि परिणमति एव । तदुक्तं व्याख्याप्रज्ञप्तौ → जस्स णं 'सव्वपाणेहिं सव्वभूएहिं सव्वजीवेहिं सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स एवं अभिसमन्नागयं भवइ-'इमे जीवा इमे अजीवा इमे तसा इमे थावरा', तस्स णं 'सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति । - (व्या.प्र.७।२।२७०) इति । न च चारित्रमोहनीयक्षयोपशमाभावान्न तेषां सुप्रत्याख्यानत्वमिति शङ्कनीयम्, विशुद्धब्रह्मचर्यपालनादिना तस्य तत्राऽनुमेयत्वात्, अन्यथा → जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं आवसेज्जा । जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलं बंभचेरवासं नो आवसेज्जा - (भग.९/४/३६५) इति व्याख्याप्रज्ञप्तिवचनाऽनुपपत्तेः । व्याख्याप्रज्ञप्तिवृत्तिकृता 'वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि' (व्या.प्र. ९/४/३६५ वृ.) इत्येवं व्याख्यातम् । युक्तञ्चैतत् । न हि चारित्रावरणक्षयोपशमविरहे चारित्रपरिणामः प्रादुर्भवति । न वा चारित्रपरिणामविरहे ब्रह्मचारित्वं सम्भवति व्यवह्रियते वा । अन्यथा ग्रैवेयकानुत्तरोपपातिकदेवानामपि ब्रह्मचारित्वं प्रसज्येत । न चैतदिष्टम् । तदुक्तं प्रज्ञापनावृत्तौ श्रीमलयगिरिसूरिभिः ग्रैवेयकादिदेवानुद्दिश्य → यद्येवं कथं न ते ब्रह्मचारिणः ? उच्यते, चारित्रपरिणामाऽभावात् + (प्रज्ञा. ३४/सू.३२३/पृ.५४९) इति । श्रीसिद्धसेनसूरिभिरपि तत्त्वज्ञानविकाशिन्यां प्रवचनसारोद्धारवृत्तौ ग्रैवेयकादिदेवानुद्दिश्य → ते च तथाभवस्वभावत्वेन चारित्रपरिणामाभावान्न ब्रह्मचारिणः - (प्र.सारो.१४४० वृ.)। मिथ्यादृग्वतस्य सर्वथैव दुष्प्रत्याख्यानत्वे त्वपुनर्बन्धकादिभ्यो व्रतवितरणं गीतार्थानामन्याय्यमेव स्यादिति दिक् । ___ इत्थं परोपतापराहित्येन, निषिद्धकर्मविरहेण, भोगाऽऽकाङ्क्षादितो निजाऽऽशयाऽदूषणेन, यथाशक्ति कुशलानुष्ठानपरायणतया, गीतार्थगुरुपारतन्त्र्येण चाऽपुनर्बन्धकस्यापि दीक्षाधिकारित्वमुपपद्यते एव । ब्रह्मसिद्धान्तसमुच्चये (ब्र.सि.६१-६३) हरिभद्रसूरिभिः या समयदीक्षा दर्शिता सेहाऽनाविलैव तात्त्विकी। मिथ्यात्वदशायामपि प्रव्रज्याऽनङ्गीकारे, प्रकृतिभद्रकत्वाद्यभ्यासानुभावतः सत्पराक्रमेण सुपात्रदान-निर्निदानतपःस्वदारसन्तोषलक्षणशीलादिव्रतग्रहणे सुव्रतित्वमपि सुमनुजत्वादिनिबन्धनं सम्भवत्येव, → वेमायाहि सिक्खाहिं जे नरा गिहिसुव्वया। उवेंति माणुसं जोणिं कम्मसच्चा हु पाणिणो ।। 6 (उत्त. ७/२०) इति उत्तराध्ययनसूत्रतात्पर्योनयनात्। न हि सति सम्यक्त्वे मनुष्यस्य मनुजायुर्बन्धसम्भवः । न च मित्रायां योगिस्मृतेरल्पवीर्यतया (द्वा.२०/२६, भाग-५ पृ.१३८३) न सुप्रत्याख्यानादिसम्भव इति वाच्यम्, बलादिदृष्टिमपेक्ष्याऽल्पवीर्यत्वेऽपि स्वभूमिकोचितगृहीतप्रत्याख्यान-व्रतादिपालनसामर्थ्यस्येहाऽप्रच्यवात्, अन्यथा 'अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः' (यो.सू. २/३५-द्वा.द्वा.२१-६ भाग-५ पृ.१४३२) इत्यादिवक्ष्यमाणयमसिद्धिफलस्येहाऽनुपपत्तिप्रसङ्गात् । ___ यद्यपि 'धर्माधर्मक्षयकरी दीक्षेयं पारमेश्वरी' (ब.सि.३५०) इति ब्रह्मसिद्धान्तसमुच्चयवचनतः 'नासंयतः प्रव्रजति, भव्यजीवो न सिध्यति' निश्चयनयाऽभिप्रायतश्च पारमार्थिकभावसंवराऽभावात् सर्वाराधकत्वाभावाच्च मित्रायां न नैश्चयिकसुप्रत्याख्यानादिसम्भवः तथापि भगवतीसूत्रोक्त(भ.सू.८/१०/४५०)देशाऽऽराधकत्व-दीक्षायोग्यता-कर्मनिर्जराविशेषाद्यपेक्षयेहाऽवस्थितस्याऽसङ्क्लिष्टस्य योगिनोऽपुनर्बन्धकत्वेन पूर्वो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org