________________
• हिंसादिप्रतिपक्षभावनाविवरणम् •
१४२५ अहिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् । न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वाऽऽसनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं"वितर्कबाधने प्रतिपक्षभावनमिति” (योगसूत्र २-३३) ।।३।। योगाङ्गत्वं = योगोपकारकत्वं योगविशारदैः उदाहतम् । योगोपकारकत्वप्रकारं विशदयति- न तु = नैव धारणादीनामिव आदिपदेन ध्यान-कृष्णाऽदृष्टहासादिग्रहणं, समाधेः साक्षाद् = अव्यवधानत उपकारकत्वेन रूपेण, न वा आसनादिवत् = आसन-प्राणायामादिवत् उत्तरोत्तरोपकारकत्वेनैव । आसनसिद्धौ सत्यां प्राणायामसिद्धिः, तस्याञ्च सत्यां प्रत्याहारसिद्धिरित्येवं स्वोत्तरयोगाङ्गोपकारकतयैवाऽहिंसादीनां नोपकारकत्वं, किन्तु प्रतिबन्धकहिंसाद्यपनायकतयैव = योगप्रतिबन्धकीभूतहिंसादीनामुच्छेदकतयैवेत्यर्थः । तदुक्तं राजमार्तण्डे → इह कानिचित् समाधेः साक्षादुपकारकत्वेनाऽन्तरङ्गाणि, यथा धारणादीनि । कानिचित्प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति, यथा यम-नियमादीनि । तत्राऽऽसनादीनामुत्तरोत्तरमुपकारकत्वम् । तद्यथा- सति आसनजये प्राणायामस्थैर्यम् । एवमुत्तरत्राऽपि योज्यम् + (यो.सू.२/२९ रा.मा.) इति पूर्वोक्तं(पृ.१३९९)स्मर्तव्यमत्र ।।
प्रकृते योगसूत्रसंवादमाह- 'वितर्के'ति । अत्र राजमार्तण्डवृत्तिरेवम् → वितय॑न्त इति वितर्काः = योगपरिपन्थिनो हिंसादयः । तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यम-नियमानां योगाङ्गत्वम् + (यो.सू.२/३३ रा.मा.) इति। एवमेवाऽहिंसादिष्वभ्यस्यमानेषु विघ्नप्राप्तौ प्रतिपक्षभावनमुपयुज्यते। तदुक्तं योगसूत्रभाष्ये व्यासेन → यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् ‘हनिष्याम्यहमपकारिणमनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामी'ति । एवमुन्मार्गप्रवणवितर्कज्वरेणाऽतिदीप्तेन बाध्यमानस्तत्प्रतिपक्षान्भावयेत्- 'घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान्पुनस्तानाददानस्तुल्यः श्ववृत्तेने ति भावयेत् । यथा श्वा वान्ताऽवलेही तथा त्यक्तस्य पुनराददानः + (यो.सू.२/३३ भा.) इति । एवं प्रतिपक्षभावनाभावितोऽपि कदाचित् कुकर्मोदयादितो व्रतस्खलने सति सञ्जातपश्चात्तापोऽयं योगी गुरुसमक्षं गर्हते स्वदुश्चरितानि, जुगुप्सते स्वदुष्टभाषितानि, प्रकटयति पूर्वकालभाविनः कुविकल्पान्, निवेदयत्यादित आरभ्य स्ववृत्तान्तम्, अपुनःकरणायोत्तिष्ठति च । इत्थमेवास्य सुप्रत्याख्यानत्वमप्युपपद्यते ।
अनेन मिथ्यादृष्टित्वादस्य दुष्प्रत्याख्यानत्वमेवेति सर्वथैकान्तोऽपि प्रत्याख्यातः, निरुक्तगुणगणोपेतस्य पारमेश्वरी प्रव्रज्या → तमेव सच्चं णिसंकं जं जिणेहिं पवेइयं (आचारांग-५ ।५।१६२) इति થાય છે. આ રીતે અહિંસાદિની ભાવનાના પ્રતાપે હિંસાદિનો બાધ થવાથી યોગની સામગ્રી સરળતાથી સંપન્ન થાય છે. આમ યોગનું સૌકર્ય કરવાના લીધે અહિંસા વગેરે યમ યોગના અંગ બને છે. ધારણા વગેરે સમાધિના સાક્ષાત્ ઉપકારી છે. આસન વગેરે સમાધિના ઉત્તરોત્તર પરંપરાએ ઉપકારી છે. પરંતુ અહિંસા વગેરે યમ સાક્ષાત્ કે ઉત્તરોત્તર ઉપકારક તરીકે યોગના સહાયક નથી. પરંતુ યોગના પ્રતિબંધક એવા હિંસા, જૂઠ વગેરેને દૂર કરવા રૂપે જ યોગના અંગ તરીકે ઓળખાય છે. તેથી જ યોગસૂત્રમાં જણાવેલ છે કે “વિતર્કસ્વરૂપ હિંસા વગેરે અટકાવવા માટે પ્રતિપક્ષની ભાવના કરવી.” (૨૧/૩)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org