________________
१४२४
नानातन्त्रानुसारेण यमस्वरूपविमर्शः •
=
महाव्रतम्” (यो.सू.२-३१) इति ।।२।। बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाऽङ्गत्वमुदाहृतम् ।।३।। बाधनेनेति । वितर्काणां योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन'अनुत्थानोपहतिलक्षणेन' (योगसौकर्यतः = ) योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषां निरूपितत्वात्, महाव्रतानामिच्छा-प्रवृत्त्यादिभेदेनाऽनेकविधत्वात् दुःसङ्गं च परित्यज्य पापकर्म परित्यजेत् । चित्तचिह्नमिदं यस्य तस्य दीक्षा विधीयते ।। ← (गु.गी. २४६ ) इति गुरुगीतादिदर्शितलक्षणस्य तन्त्रान्तरवर्तिनोऽपि मित्रायामवस्थितस्य तन्त्रान्तरीयमहाव्रतनिर्वाहकत्वसम्भवाच्च । न चैवमभव्यादीनामपि मित्रादिदृष्टिवर्तित्वापत्तिः, तेषामपि देशोनपूर्वकोटिं यावदहिंसादियमपालनसमर्थत्वादिति शङ्कनीयम्, विशुद्धात्मतत्त्वविषयकांऽऽशिकाऽनुभवविशिष्टस्यैवाऽहिंसादेर्यमत्वेनेहाधिकृतत्वात् । एतेन → ज्ञानयुक्तयमाद्यष्टाङ्गयोगः ← (मं.ब्रा. १ 19 ) इति मण्डलब्राह्मणोपनिषद्वचनमपि व्याख्यातम् । अधुना यमगोचराणि नानामतानि दर्श्यन्ते । प्रथमं तावन्यायमतमुच्यते । नैयायिकदर्शनानुसारेण → समानमाश्रमिणां धर्मसाधनम्, नियमस्तु विशिष्टम् ← ( न्या. सू. ४ ।२ ।४६ भा.) इत्येवं यमस्वरूपं न्यायसूत्रभाष्ये वात्स्यायनेन दर्शितम् । वेदान्तानुसारेण तु सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः । यमो ऽयमिति प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः ।। ← (तेजो. १ ।१७, अपरो. १०४ ) इत्येवं यमस्वरूपं तेजोबिन्दूपनिषदि अपरोक्षानुभूतौ च दर्शितम् । त्रिशिखिब्राह्मणोपनिषदि तु देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः ← (त्रि.शि. १ । २८) इत्येवं यमलक्षणमुक्तमित्यवधेयम् । मण्डलतन्त्रब्राह्मणोपनिषदि तु शीतोष्णाहारनिद्राविजयः, सर्वदा शान्तिः, निश्चलत्वं विषयेन्द्रियनिग्रहश्चैते यमाः ← (म.तं. बा. १ । २ ) इत्येवं यमप्रकारा दर्शिताः । शाण्डिल्योपनिषदि अहिंसा - सत्याऽस्तेय-ब्रह्मचर्य - दया-जप-क्षमा- धृतिमिताहार - शौचानि चेति यमा दश ← ( शां. १ । २ ) इत्येवं यमभेदा उक्ताः । पूर्वं वादद्वात्रिंशिकायां ( द्वा. द्वा. ८/९ भाग - २, पृ. ५५६ - ७-८ ) नानातन्त्रानुसारेण विलक्षणा यमप्रकाराः प्रदर्शिताः ते इहानुयोज्या यथा-तन्त्रम् ।।२१ / २ ।।
'यमः =
=
अहिंसादीनां योगाङ्गत्वमुपपादयति- 'बाधनेने 'ति । प्रतिपक्षस्य अहिंसादेः वक्ष्यमाणरीत्या भावनात् हिंसादीनां अनुत्थानोपहतिलक्षणेन अनुदितावस्थानामेवोदययोग्यताहानरूपेण बाधनेन योगस्य पूर्वं व्यावर्णितस्वरूपस्य सामग्रीसम्पत्तिलक्षणात् = सकलकारणकलापमेलनरूपात् सौकर्यात् अहिंसादीनां છે કે‘આ પાંચ યમ જ્યારે દેશ, જાતિ, કાલ અને સંકેતથી અનિયંત્રિત બને છે ત્યારે સર્વચિત્તભૂમિમાં સંભવતા તે યમો મહાવ્રત કહેવાય છે.' (૨૧/૨)
१. हस्तादर्शे 'अनुत्थावोप...' इत्यशुद्धः पाठः । २
Jain Education International
=
=
यम योगनुं जररा शा भाटे ?
ગાથાર્થ :- વિતર્કોના પ્રતિપક્ષની ભાવનાથી વિતર્કોને અટકાવવા દ્વારા યોગ સરળ બને છે. આ કારણસર અહિંસા વગેરે યમ યોગના અંગ કહેવાયેલ છે. (૨૧/૩) ટીકાર્થ :- હિંસા, જુઠ વગેરે તત્ત્વો યોગના પરિપંથી વિરોધી હોવાથી વિતર્ક કહેવાય છે. તેનાથી વિરોધી અહિંસા વગેરે પદાર્થની ભાવના કરવાથી હિંસા વગેરે તત્ત્વો ઊભા થતાં પૂર્વે જ ખતમ
द्वात्रिंशिका - २१/२
हस्तादर्शे '... लक्षणे सति' इति पाठः ।
For Private & Personal Use Only
=
www.jainelibrary.org