________________
• मिथ्यादृशां दीक्षाप्रदानविचारः •
१४२३ इत्येवंविधाऽवच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु 'क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतमित्युच्यते । तदुक्तं- “एते तु जाति-देश-काल-समयाऽनवच्छिन्नाः सार्वभौमा → महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् + (या.व.स्मृ.आचारा.१०९) इति पूर्वोक्तं(पृ.४७७) स्मर्तव्यम् । आदिपदेन पितृप्रभृतिग्रहणम् । पितृप्रीत्यर्थं मनुस्मृतौ → द्वौ मासौ मत्स्यमांसेन, त्रीन् मासान् हारिणेन तु। औरभ्रेणाऽथ चतुरः शाकुनेनेह पञ्च वै ।। “(मनु.३/२६८) इत्यादिकं पूर्वं (द्वा.द्वा.७/१३ भाग-२, पृ.४७६) दर्शितमिहा-नुयोज्यम् । एवं 'क्षत्रियाणां युद्ध एव हिंसा, नाऽन्यत्र' इत्यपि समयाऽवच्छिन्नाऽहिंसाऽवसेया। इयं सर्वा न महाव्रतरूपेति ध्येयम् । क्षिप्ताद्यासु पूर्वं (द्वा.द्वा.११/३० भाग-३, पृ.८२५) निरूपितासु चित्तभूमिषु ।
प्रकृते योगसूत्रसंवादमाह- ‘एत'इति । अत्र राजमार्तण्डवृत्तिरेवम् → जातिः = ब्राह्मणत्वादिः । देशः = तीर्थादिः । कालः = चतुर्दश्यादिः। समयः = ब्राह्मणप्रयोजनादिः । एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यन्ते । तद्यथा 'ब्राह्मणं न हनिष्यामि, तीर्थे न कञ्चन हनिष्यामि, चतुर्दश्यां न हनिष्यामि, देव-ब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामी'ति । एवं चतुर्विधावच्छेदव्यतिरेकेण किञ्चित् क्वचित् कदाचित् कस्मिंश्चिदर्थे न हनिष्यामी'त्यनवच्छिन्नाः । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते, न पुनः परिच्छिन्नाऽवधारणम् - (यो. सू. २/३१ रा.मा.) इति ।
सत्यादिषु जात्याद्यवच्छेदयोजनन्त्वेवमवसेयम् । आपस्तम्बसूत्रे → ब्राह्मणार्थेऽनृतं ब्रूयात् + (आ. स्त. ); भागवते → स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे । गो-ब्राह्मणार्थे हिंसायां नाऽनृतं स्याज्जुगुप्सितम् ।। - (भा.८/१९/४३), महाभारते च → न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले । प्राणाऽत्यये सर्वधनाऽपहारे पञ्चाऽनृतान्याहुरपातकानि ।। 6 (म.भा.आदिपर्व. ८२/१६) इत्येवं सत्याऽवच्छेदा दर्शिताः । तथापि मित्रावस्थितः तन्त्रान्तरीयः योगी → न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथापि न च कर्तव्यः प्रसङ्गो ह्येष दारुणः ।। - (सं.गी.७/६८) इति संन्यासगीतादिवचनविभावनेन सर्वान् सत्यव्रताऽवच्छेदान् परिहरति तदा सर्वैरेव तैरनवच्छिन्नं द्वितीयं महाव्रतमुच्यते । एवमग्रेऽप्यवसेयम् । हिंसादिपोषकानि दर्शितानि याज्ञवल्क्यस्मृति-मनुस्मृत्यादिवचनानि यथा प्रमाणं न भवन्ति तथोपपादितमस्माभिः अध्यात्मवैशारद्याम् (अध्यात्मोपनिषट्टीका १/२३-२४-२५)।
ननु मित्रायां दृष्टौ वर्तमानस्य मिथ्यादृष्टितया कथं निरुक्तमहाव्रतनिर्वाहसम्भवः, अपसिद्धान्ताऽऽपातादिति चेत् ? मैवम्, अपुनर्बन्धकदशायामपि शान्तोदात्तत्वादिगुणसम्पन्नतया मार्गप्रवेशाय दीक्षादानस्य पूर्वं मार्गद्वात्रिंशिकायां (द्वा.द्वा.३/२५) योगावतारद्वात्रिंशिकायां (द्वा.द्वा.२०/३२, भाग-५, पृ.१४११) च આવે અને તમામ દેશ અને કાળમાં તમામ જાતિવાળા જીવોની કોઈ પણ પ્રયોજનવશ હિંસા નહિ કરું' આવી સર્વવિષયક પ્રતિજ્ઞા નિરવચ્છિન્ન = અનિયંત્રિત બને. આવા યમ ક્ષિપ્ત, મૂઢ વગેરે તમામ પૂર્વોક્ત (૧૧મી બત્રીસી – ૩૦મો શ્લોક) ચિત્તભૂમિમાં સંભવે છે. માટે તેને સાર્વભૌમ કહેવાય છે. આવા નિરવચ્છિન્ન સાર્વભૌમ યમ મહાવ્રત કહેવાય છે. તેથી પતંજલ ઋષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ १. मुद्रितप्रतौ 'क्षिप्राद्यासु' इत्यशुद्धः पाठः। २. हस्तादर्श'..च्यते' इत्यशुद्धः पाठः। ३. हस्तादर्श'.नवन्नाः' इति त्रुटितोऽशुद्धश्च पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org