SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ • अष्टविधब्रह्मचर्यविचारः • द्वात्रिंशिका - २१/२ भोगसाधनानामस्वीकारोऽकिंचनता (= अहिंसा-सूनृताऽस्तेय -ब्रह्माकिञ्चनता) । एते यमाः । तदुक्तं“अहिंसा-सत्याऽस्तेय-ब्रह्मचर्यापरिग्रहा यमा इति" (यो.सू.२ - ३० ) । दिक् = देशस्तीर्थादिः, कालः चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेः ब्राह्मणादिप्रयोजनरूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः (= दिक्कालाद्यनवच्छिन्नाः ) " तीर्थे 'कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि, ब्राह्मणान्न हनिष्यामि, देव-ब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि ” व्याख्यातम् । निश्चयनयतस्त्वस्तेयं जाबालयोगे → आत्मन्यनात्मभावेन व्यवहारविवर्जितम् । यत्तदस्तेयमित्युक्तमात्मविद्भिर्महामते ! ।। ← ( जा. यो. १ / १२ ) इत्येवमुपदर्शितमित्यवधेयम् = उपस्थसंयमः जननेन्द्रियनियमनं ब्रह्म यद्वा अष्टविधमैथुननिवृत्तिः ब्रह्मचर्यम् । तदुक्तं दक्षसंहितायां → ब्रह्मचर्यं सदा रक्षेदष्टधालक्षणं पृथक् । स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।। सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।। ← (द.सं. ७/ ३१-३२) इति । → बस्तीन्द्रिय- मनसामुपशमे ब्रह्मचर्यम् ← ( म. अनु. ६/५ ) इति मनोऽनुशासनवचनं, → ब्रह्मभावे मनश्चारं ब्रह्मचर्यम् ← ( जा. यो. १।१४ ) इति जाबालयोगवचनञ्चाऽत्र स्मर्तव्यम् । एतद्विरहे ज्ञानादिकमप्यफलमुच्यते । तदुक्तं ब्रह्मवैवर्तपुराणे किं तस्य ज्ञान - तपसा, जप-होमप्रपूजनैः । किं विद्यया वा यशसा स्त्रीभिर्यस्य मनो हृतम् ।। ← ( ब्र.वै. पु. २ । १६ । ९२ ) इति । एतेन दान - श्रुत-ध्यान - तपोऽर्चनादि वृथा मनोनिग्रहमन्तरेण । कषायचिन्ताऽऽकुलतोज्झितस्य परो हि योगो मनसो वशत्वम् ।। ← ( अ.क. ९ / ६ ) इति अध्यात्मकल्पद्रुमवचनमपि व्याख्यातम् । उक्तपञ्चविधयमस्वरूपं योगसूत्रेण दृढयति- 'अहिंसेति । अत्र राजमार्तण्डवृत्तिस्त्वेवम् → तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वाऽनर्थहेतुः, तदभावोऽहिंसा । हिंसायाः सर्वकालं परिहार्य - त्वात्प्रथमं तदभावरूपाया अहिंसाया निर्देशः । सत्यं = वाङ्मनसोर्यथार्थत्वम् । स्तेयं = परस्वाऽपहरणं, तदभावः = अस्तेयम् । ब्रह्मचर्यं = उपस्थसंयमः । अपरिग्रहः भोगसाधनानामनङ्गीकारः । त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ← (यो.सू.२/३० रा.मा.) इति । चतुर्दश्यां पुण्येऽहनि वा न हनिष्यामि । देव-ब्राह्मणाद्यर्थव्यतिरेकेणेति । यथोक्तं याज्ञवल्क्यस्मृती મકાન વગેરેનો ત્યાગ કરવો તે અકિંચનતા અપરિગ્રહ કહેવાય. આ પાંચ યમ છે. તેથી યોગસૂત્રમાં भगावेस छे } 'अहिंसा, सत्य, अयौर्य, ब्रह्मयर्य भने अपरिग्रह यम हेवाय. ' યમ મહાવ્રત ક્યારે બને ? તેનું સ્વરૂપ બતાવતા ગ્રંથકારશ્રી કહે છે કે દિક્ हेश, तीर्थ वगेरे तथा अस = ચૌદશ વગેરે. મૂળ ગાથામાં રહેલ ‘આદિ' શબ્દથી બ્રાહ્મણત્વ વગેરે જાતિ તથા બ્રાહ્મણાદિ પ્રયોજન સ્વરૂપ સંકેતનો પણ સ્વીકાર કરી લેવો. તેથી દેશ, કાળ, જાતિ અને સંકેતવિશેષ વગેરેથી અનિયંત્રિત સાર્વભૌમ યમ મહાવ્રત બને છે. જેમ કે ‘તીર્થમાં કોઈને નહિ મારું.' ‘ચૌદશ તિથિના દિવસે કોઈને નહિ મારું.'બ્રાહ્મણોને નહિ મારું.’‘ભગવાન અને બ્રાહ્મણ વગેરેના કાર્ય પ્રયોજન વિના હું કોઈને પણ નહિ મારું' આવી પ્રતિજ્ઞા કરવી તે દેશ-કાલ આદિથી નિયંત્રિત કહેવાય. તેમાં તીર્થ સિવાયનો દેશ સ્થળ, ચૌદશ સિવાયનો કાળ, બ્રાહ્મણ સિવાયના માણસોને મારવાની છૂટ રાખવામાં આવે છે. પરંતુ આ રીતે અમુક દેશ, અમુક કાળ વગેરે નિયંત્રણોને ઉઠાવી લેવામાં = १. हस्तादर्शे 'किंचन' इति पाठः । २ १४२२ = Jain Education International = = = हस्तादर्शे 'हमि' इति त्रुटितः पाठः । For Private & Personal Use Only = www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy