________________
• मिथ्यादृशामपि भावितात्मानगारादिपदवाच्यता
१४२७
क्रोधाल्लोभाच्च मोहाच्च 'कृताऽनुमित-कारिताः । मृदु-मध्याऽधिमात्राश्च वितर्काः सप्तविंशतिः ।।४।। क्रोधादिति । क्रोधः कृत्याऽकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् ( = क्रोधात् ) । क्तरीत्या (द्वा.द्वा.१९/१४, भाग-५ पृ. १२९६) व्यवहारनयतः तात्त्विकाऽध्यात्म - भावनासीमाक्रान्तं सुप्रत्याख्यानादिकमपि सम्भवत्येव, तारतम्यभेदेनाऽसङ्ख्येयत्वात् तत्तद्धर्मस्थानानाम् । सट्ठाणे सट्ठाणे सव्वे बलिया हवंति सव्विसते । एसो नयकप्पो तु ← (पं.क.भा. २२१९) इति पञ्चकल्पभाष्यवचनमपि प्रकृतेऽवधातव्यम् । कथमन्यथा कान्दर्पिकी-कैल्बिषिकी-सांमोह्याभियोगिक्यासुरीभावनाग्रस्तेषु चारित्राऽङ्गीकारः सङ्गच्छेत व्यवहारनयविदाम् ? कथं वेच्छा - प्रवृत्ति स्थैर्य सिद्धिभेदेनाऽहिंसादियमानां मित्रामपेक्ष्य योगदृष्टिसमुच्चयवृत्ती (गा. २१) प्रतिपादनं श्रीहरिभद्रसूरीणामुपपद्येत ? कथं वा दशाविशेषे मिथ्यादृशामपि भाविताऽऽत्माSनगारत्वादिव्यपदेशः सङ्घटेत ? तदुक्तं भगवत्यां अणगारे णं भंते ! भावियप्पा माई, मिच्छदिट्ठी वीरियलद्धीए वेउव्वियलद्धीए विभंगनाणलद्धीए वाणारसीं णयरीं समोहए ... ← ( भग. ३ | ६ |१६२) इत्यादिकमिति यथागमं नानानयाऽभिप्रायकोविदैरतिगम्भीरधिया सम्यगालोच्यमानं विशुध्यति तत्त्वमेतत् । अत्र च इह भरहे केइ जीवा मिच्छादिट्ठी भद्दया भव्वा । ते मरीउण नवमे वरसे होहंति केवलिणो ।। ← (सुकृतसागर-तरङ्ग-१/पृ. ६ उद्धृत ) इति वचनमप्यवश्यमनुस्मर्तव्यम् । → इति नयवादा: चित्राः क्वचिद् विरुद्धा इवाथ च विशुद्धाः । लौकिकविषयातीताः तत्त्वज्ञानार्थमधिगम्याः ।। ← (त.सू.१/३५भा.) इति तत्त्वार्थसूत्रभाष्यसूक्तिरप्यत्राऽनुसन्धेया । । २१ / ३।।
इदानीं वितर्काणां हेतु-स्वरूप-प्रकारानाचष्टे - 'क्रोधादिति । क्रोधादिपरिणामः कषति हिनस्ति आत्मानं कुगतिप्रापणादिति कषायः ← ( रा. वा. ६/४) इति राजवार्तिककृत् । प्रकृते कोपो हि नाम लोकस्य दृष्टिरोधकं, अनालोकहार्यं, अन्धकारम् ← (ग. कर्णा. पृ.३८) इति गद्य-कर्णामृतवचनम्, → नाऽकार्यमस्ति क्रुद्धस्य नाऽवाच्यं विद्यते क्वचित् ← ( वा. रा. ५ ।५५ ।५ ) इति वाल्मीकिरामायणवचनं, → क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् ← ( म.भा. आदिपर्व ४२ / ८) इति महाभारतवचनं, → नास्ति क्रोधसमो रिपुः ← (बृ.ना. ७/५४ ) इति बृहन्नारदीयपुराणवचनं, धिक् क्रोधं स्वपराऽपकारकरणं संसारसंवर्धनम् ← (ह. पु. ६१ / १०८) इति हरिवंशपुराणवचनं, अतिरोषणश्चक्षुर्मानप्यन्ध एव जनः ← (ह.च. पृ. १४) इति हर्षचरितवचनं, कोपाऽग्निदग्धस्य क्वाऽपि शान्तिर्न विद्यते ←
( ह.क. ४ । १० । ३० ) इति हरिलीलाकल्पतरुवचनं, इति आनन्दवृन्दावनवचनं, चाणक्यसूत्रवचनमप्यवधेयम् ।
ગાથાર્થ :- ક્રોધ, લોભ અને वितर्द्वना २७ प्रहार थाय छे.
क्रोधान्धः परमान्ध एव ← ( आ.वृ. १५/१४०) आत्मानमेव नाशयति अनात्मवतां कोप: ← (चा. सू. १४८) इति च
Jain Education International
=
આ વિતર્કના ૨૭ પ્રકાર *
મોહથી મૃદુ, મધ્ય અને અધિકમાત્રામાં કરણ, કરાવણ અને અનુમોદનથી (२१/४ )
ટીકાર્થ :- ક્રોધ, કર્તવ્ય અને અકર્તવ્યની વચ્ચેની ભેદરેખાને મૂળમાંથી ઉખેડી નાંખે છે. ક્રોધ પ્રજ્જવલનાત્મક ચિત્તધર્મ છે.
१. हस्तादर्शे 'कृतानुमेति...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org