SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १४२८ • तृष्णा-मोहपरिणामनिवेदनम् • द्वात्रिंशिका-२१/४ लोभस्तृष्णालक्षणस्ततः (=लोभात्) च। मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माऽभिमानलक्षणः। इत्थं च कारणभेदेन त्रैविध्यं दर्शितं भवति। तदुक्तं-“लोभक्रोधमोह पूर्वकाः" इति ।(योगसूत्र २३४) 'व्यत्ययाऽभिधानेऽप्यत्र मोहस्य प्राधान्यं, स्वपरविभागपूर्वकयोर्लोभ-क्रोधयोस्तन्मूलत्वादिति वदन्ति। लोभः तृष्णालक्षणः इति । अत एव स सर्वदोषाऽऽकरः स्मृतः । प्रकृते → लोभः सर्वाऽर्थबाधकः (यो.शा.४/१८) इति योगशास्त्रवचनं, → कुतो लुब्धस्य सत्यता ? ( (ह.पु.२७/३५) इति हरिवंशपुराणवचनं, → लुब्धे दोषाः सम्भवन्तीह सर्वे - (म.भा.शान्ति.१२०/४८) इति महाभारतवचनं, → लोभमूलानि पापानि - (धर्मा.६/२४) इति धर्मामृतवचनं, → लोभो दशति सर्वदा - (हिंगु.१०/२) इति हिगुलप्रकरणवचनं, → कासां हि नाऽपदां हेतुरतिलोभान्धबुद्धिता - (क.स.सा. ५।१।२०) इति कथासरित्सागरवचनं, → कार्याऽकार्यविचारो लोभाऽऽकृष्टस्य नास्त्येव ( (क.वि.२ ।१) इति कलाविलासवचनं, → लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् + (पं.तं.२ ।१५५) इति पञ्चतन्त्रवचनं, → तृष्णया मतिश्छाद्यते (चा.सू.२२६) इति चाणक्यसूत्रं चाऽवश्यं स्मर्तव्यम् । मोहः अनात्मनि आत्माऽभिमानलक्षणः इति । अयं च त्याज्य एव । तदुक्तं महोपनिषदि → मा भवोऽज्ञो भव ज्ञः त्वं जहि संसारभावनाम् । अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ?।। 6 (महो. ४/१३०) इति । प्रकृते → मोहो हि धर्ममूढत्वं - (म.भा.वनपर्व. ३१३/९४) इति महाभारतवचनं, → नास्ति मोहसमं भयम् - (बृ.ना.७/५४) इति बृहन्नारदीयपुराणवचनं, → स्फुटमापदां पदमनात्मवेदिता - (शि.व.१५/२२) इति शिशुपालवधवचनं, → न ह्यज्ञानात् परः पशुरस्ति - (नी.वा.५/३६) इति नीतिवाक्यामृतवचनं च स्मर्तव्यं स्व-परतन्त्रसमवतारनिपुणैः । व्यत्ययाऽभिधानेऽपि = क्रमविपर्ययेण कथनेऽपि अत्र = त्रिषु वितर्कहेतुषु मध्ये मोहस्य प्राधान्यं ज्ञेयम्, स्व-परविभागपूर्वकयोः यथाक्रमं लोभ-क्रोधयोः तन्मूलत्वात् = मोहजन्यत्वादिति पातञ्जला वदन्ति । → तेषां मोहः पापीयान्, नाऽमूढस्येतरोत्पत्तेः - (न्या.सू. ४/१/६) इति न्यायसूत्रमप्येतदर्थाऽनुपाति । 'तेषां' = राग-द्वेष-मोहानां, 'इतरोत्पत्तेः' = रागाद्युत्पत्तेः, शिष्टं स्पष्टम् । લોભનું લક્ષણ તૃષ્ણા છે. મોહનું લક્ષણ છે અનાત્મામાં આત્માનું અભિમાન. સર્વ સંકલેશનું મૂળ આ મોહ છે. વિતર્યાત્મક હિંસા, જુઠ વગેરેના કારણભૂત ક્રોધ, લોભ અને મોહ છે. ક્રોધ, લોભ અને મોહથી ઉત્પન્ન થવાના કારણે વિતર્કના ત્રણ ભેદ છે. સ્વતંત્ર કારણ ત્રણ હોવાથી વિતર્કના ત્રણ ભેદ ઉપરોક્ત રીતે જણાવવામાં આવેલ છે. તેથી યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “લોભ, ક્રોધ અને મોહના કારણે વિતર્કો ઊભા થાય છે. યોગસૂત્રમાં અને મૂળ ગાથામાં અહીં મોહનું નામ સૌથી છેલ્લે લખેલ હોવા છતાં પણ તે મુખ્ય કારણ છે. કારણ કે “આ મારું અને પેલું પારકું આ રીતે સ્વ-પરવિભાગની બુદ્ધિથી થતા ક્રમશઃ લોભ અને ક્રોધ મોહમૂલક જ છે. એવું પાતંજલ વિદ્વાનો કહે છે. १. ....मोहमूला' इति हस्तादर्श । परं योगसूत्रानुसारेण '...मोहपूर्वका..' इति पाठो युज्यते । २. 'व्यत्या...' इत्यशुद्धः पाठो मुद्रितप्रतौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy