________________
• मोहजन्याः सर्वे दोषाः .
१४२९ ततः कारणत्रयात् कृताऽनुमित-कारिता एते हिंसादयो नवधा भिद्यन्ते । तेऽपि मृदवो = मन्दाः, मध्याश्चाऽतीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं- "मृदुमध्याऽधि'मात्राः" इति (योगसूत्र २-३४) । इत्थं च सप्तविंशतिर्वितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो भावनीय इति वदन्ति ।।४।। ___ कारणत्रयात् = ‘अपकृतमनेन ममे'ति क्रोधात्, मांस-चर्मादिलोभात्, ‘अतो मे धर्मो भविष्यतीति मोहात् स्वयं कृताः, 'साधु साधु' इत्येवमनुमोदिताः ‘त्वं कुरु' इति वचनादिना कारिताः, इति कृताऽनुमित-कारिता एते हिंसादयो नवधा भिद्यन्ते ।
प्रकृते सम्पूर्ण योगसूत्रमेवं → वितर्का हिंसादयः कृत-कारिताऽनुमोदिता लोभ-क्रोध-मोहपूर्वका मृदुमध्याऽधिमात्रा दुःखाऽज्ञानाऽनन्तफला इति प्रतिपक्षभावनम् + (यो.सू.२/३४)। अस्य राजमार्तण्डवृत्तिरेवम् → हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृत-कारिताऽनुमोदितभेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु कुर्विति प्रयोजनव्यापारेण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साध्वित्यङ्गीकृता अनुमोदिताः । एतच्च त्रैविध्यं परस्परव्यामोहनिवारणायोच्यते, अन्यथा मन्दमतिरेवं मन्येत- 'न मया स्वयं हिंसा कृतेति नास्ति मे दोष' इति । एतेषां कारणप्रतिपादनाय लोभ-क्रोध-मोहपूर्वका इति । यद्यपि लोभ-क्रोधौ प्रथम निर्दिष्टौ तथाऽपि सर्वक्लेशानां मोहस्याऽनात्मनि आत्माभिमानलक्षणस्य निदानत्वात्तस्मिन्सति स्वपरविभागपूर्वकत्वेन लोभ-क्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोहपूर्विका सर्वा दोषजातिरित्यर्थः । लोभस्तृष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकाराः अपि हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह- मृदु-मध्याऽधिमात्राः । मृदवो = मन्दाः, न तीव्रा नापि मध्याः । मध्याः, नापि मन्दा नापि तीव्राः । अधिमात्रास्तीव्राः । पाश्चात्या नव भेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृदु-मध्याऽधिमात्रभेदात् त्रैविध्यं सम्भवति । तद्यथायोगं योज्यं । तद्यथा- मृदुमृदुर्मुदुमध्यो मृदुतीव्र इति । एषां फलमाह- दुःखाऽज्ञानाऽनन्तफलाः। दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अज्ञानं मिथ्याज्ञानं चित्तविपर्यासरूपं, ते दुःखाज्ञाने अनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति + (यो.सू.२/३४ राज.) इति ।
मृद्वादीनामपि प्रत्येकं मृदु-मध्याऽधिमात्राभेदो भावनीयः । तथा चैकाशीतिभेदा सम्पद्यन्ते अतिततः । औप, दोन मने भी स्व३५ ९॥ १२९थी उत्पन्न थन।२ डिंसा वगैरे विताना ४२९, કરાવણ અને અનુમોદનથી નવ ભેદ પડે છે. તે પ્રત્યેક પણ મૂદુ = મંદ, મધ્યમ અને અધિકમાત્રા =તીવ્ર એમ ત્રણ ભેદ ધારણ કરે છે. તેથી જ યોગસૂત્રમાં કહેલ છે કે “વિતર્કો મૂદુ, મધ્યમ અને તીવ્ર માત્રામાં = પ્રમાણમાં થાય છે. આ રીતે વિતર્કના ૨૭ ભેદ થાય છે. પ્રસ્તુતમાં મૃદુ વગેરેમાં પ્રત્યેકમાં પણ મૃદુ, મધ્ય અને અધિમાત્રાનો ભેદ વિચારવો. આવું પણ પાતંજલ વિદ્વાનો કહે છે.(૨૧/૪) १. मुद्रितप्रतौ '...मध्यादि' इत्यशुद्धः पाठः । २. हस्तादर्श '...धिमात्रभेद' इति पाठः । .. इत आरभ्य मुद्रितप्रतौ ‘(वितर्का हिंसादयः कृत-कारितानुमोदिता लोभ-क्रोध-मोहपूर्वका मृदु-मध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावन)' इत्येवं पाठः सम्पादकेन योगसूत्राद् योजितः । परं कुत्राऽपि हस्तादर्श नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org